Mahabharata

Ashramavasika Parva, Adhyaya 24

Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashramavasika Parva, Adhyaya 24, Verse 1

कुन्त्यास्तु वचनं श्रुत्वा पाण्डवा राजसत्तम

व्रीडिताः संन्यवर्तन्त पाञ्चाल्या सहितानघाः

Mahabharata

Ashramavasika Parva, Adhyaya 24, Verse 2

ततः शब्दो महानासीत्सर्वेषामेव भारत

अन्तःपुराणां रुदतां दृष्ट्वा कुन्तीं तथागताम्

Mahabharata

Ashramavasika Parva, Adhyaya 24, Verse 3

प्रदक्षिणमथावृत्य राजानं पाण्डवास्तदा

अभिवाद्य न्यवर्तन्त पृथां तामनिवर्त्य वै

Mahabharata

Ashramavasika Parva, Adhyaya 24, Verse 4

ततोऽब्रवीन्महाराजो धृतराष्ट्रोऽम्बिकासुतः

गान्धारीं विदुरं चैव समाभाष्य निगृह्य च

Mahabharata

Ashramavasika Parva, Adhyaya 24, Verse 5

युधिष्ठिरस्य जननी देवी साधु निवर्त्यताम्

यथा युधिष्ठिरः प्राह तत्सर्वं सत्यमेव हि

Mahabharata

Ashramavasika Parva, Adhyaya 24, Verse 6

पुत्रैश्वर्यं महदिदमपास्य च महाफलम्

का नु गच्छेद्वनं दुर्गं पुत्रानुत्सृज्य मूढवत्

Mahabharata

Ashramavasika Parva, Adhyaya 24, Verse 7

राज्यस्थया तपस्तप्तं दानं दत्तं व्रतं कृतम्

अनया शक्यमद्येह श्रूयतां च वचो मम

Mahabharata

Ashramavasika Parva, Adhyaya 24, Verse 8

गान्धारि परितुष्टोऽस्मि वध्वाः शुश्रूषणेन वै

तस्मात्त्वमेनां धर्मज्ञे समनुज्ञातुमर्हसि

Mahabharata

Ashramavasika Parva, Adhyaya 24, Verse 9

इत्युक्ता सौबलेयी तु राज्ञा कुन्तीमुवाच ह

तत्सर्वं राजवचनं स्वं च वाक्यं विशेषवत्

Mahabharata

Ashramavasika Parva, Adhyaya 24, Verse 10

न च सा वनवासाय देवीं कृतमतिं तदा

शक्नोत्युपावर्तयितुं कुन्तीं धर्मपरां सतीम्

Mahabharata

Ashramavasika Parva, Adhyaya 24, Verse 11

तस्यास्तु तं स्थिरं ज्ञात्वा व्यवसायं कुरुस्त्रियः

निवृत्तांश्च कुरुश्रेष्ठान्दृष्ट्वा प्ररुरुदुस्तदा

Mahabharata

Ashramavasika Parva, Adhyaya 24, Verse 12

उपावृत्तेषु पार्थेषु सर्वेष्वन्तःपुरेषु च

ययौ राजा महाप्राज्ञो धृतराष्ट्रो वनं तदा

Mahabharata

Ashramavasika Parva, Adhyaya 24, Verse 13

पाण्डवा अपि दीनास्ते दुःखशोकपरायणाः

यानैः स्त्रीसहिताः सर्वे पुरं प्रविविशुस्तदा

Mahabharata

Ashramavasika Parva, Adhyaya 24, Verse 14

तदहृष्टमिवाकूजं गतोत्सवमिवाभवत्

नगरं हास्तिनपुरं सस्त्रीवृद्धकुमारकम्

Mahabharata

Ashramavasika Parva, Adhyaya 24, Verse 15

सर्वे चासन्निरुत्साहाः पाण्डवा जातमन्यवः

कुन्त्या हीनाः सुदुःखार्ता वत्सा इव विनाकृताः

Mahabharata

Ashramavasika Parva, Adhyaya 24, Verse 16

धृतराष्ट्रस्तु तेनाह्ना गत्वा सुमहदन्तरम्

ततो भागीरथीतीरे निवासमकरोत्प्रभुः

Mahabharata

Ashramavasika Parva, Adhyaya 24, Verse 17

प्रादुष्कृता यथान्यायमग्नयो वेदपारगैः

व्यराजन्त द्विजश्रेष्ठैस्तत्र तत्र तपोधनैः

प्रादुष्कृताग्निरभवत्स च वृद्धो नराधिपः

Mahabharata

Ashramavasika Parva, Adhyaya 24, Verse 18

स राजाग्नीन्पर्युपास्य हुत्वा च विधिवत्तदा

संध्यागतं सहस्रांशुमुपातिष्ठत भारत

Mahabharata

Ashramavasika Parva, Adhyaya 24, Verse 19

विदुरः संजयश्चैव राज्ञः शय्यां कुशैस्ततः

चक्रतुः कुरुवीरस्य गान्धार्याश्चाविदूरतः

Mahabharata

Ashramavasika Parva, Adhyaya 24, Verse 20

गान्धार्याः संनिकर्षे तु निषसाद कुशेष्वथ

युधिष्ठिरस्य जननी कुन्ती साधुव्रते स्थिता

Mahabharata

Ashramavasika Parva, Adhyaya 24, Verse 21

तेषां संश्रवणे चापि निषेदुर्विदुरादयः

याजकाश्च यथोद्देशं द्विजा ये चानुयायिनः

Mahabharata

Ashramavasika Parva, Adhyaya 24, Verse 22

प्राधीतद्विजमुख्या सा संप्रज्वालितपावका

बभूव तेषां रजनी ब्राह्मीव प्रीतिवर्धनी

Mahabharata

Ashramavasika Parva, Adhyaya 24, Verse 23

ततो रात्र्यां व्यतीतायां कृतपूर्वाह्णिकक्रियाः

हुत्वाग्निं विधिवत्सर्वे प्रययुस्ते यथाक्रमम्

उदङ्मुखा निरीक्षन्त उपवासपरायणाः

Mahabharata

Ashramavasika Parva, Adhyaya 24, Verse 24

स तेषामतिदुःखोऽभून्निवासः प्रथमेऽहनि

शोचतां शोच्यमानानां पौरजानपदैर्जनैः