Mahabharata

Ashramavasika Parva, Adhyaya 23

Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashramavasika Parva, Adhyaya 23, Verse 1

एवमेतन्महाबाहो यथा वदसि पाण्डव

कृतमुद्धर्षणं पूर्वं मया वः सीदतां नृप

Mahabharata

Ashramavasika Parva, Adhyaya 23, Verse 2

द्यूतापहृतराज्यानां पतितानां सुखादपि

ज्ञातिभिः परिभूतानां कृतमुद्धर्षणं मया

Mahabharata

Ashramavasika Parva, Adhyaya 23, Verse 3

कथं पाण्डोर्न नश्येत संततिः पुरुषर्षभाः

यशश्च वो न नश्येत इति चोद्धर्षणं कृतम्

Mahabharata

Ashramavasika Parva, Adhyaya 23, Verse 4

यूयमिन्द्रसमाः सर्वे देवतुल्यपराक्रमाः

मा परेषां मुखप्रेक्षाः स्थेत्येवं तत्कृतं मया

Mahabharata

Ashramavasika Parva, Adhyaya 23, Verse 5

कथं धर्मभृतां श्रेष्ठो राजा त्वं वासवोपमः

पुनर्वने न दुःखी स्या इति चोद्धर्षणं कृतम्

Mahabharata

Ashramavasika Parva, Adhyaya 23, Verse 6

नागायुतसमप्राणः ख्यातविक्रमपौरुषः

नायं भीमोऽत्ययं गच्छेदिति चोद्धर्षणं कृतम्

Mahabharata

Ashramavasika Parva, Adhyaya 23, Verse 7

भीमसेनादवरजस्तथायं वासवोपमः

विजयो नावसीदेत इति चोद्धर्षणं कृतम्

Mahabharata

Ashramavasika Parva, Adhyaya 23, Verse 8

नकुलः सहदेवश्च तथेमौ गुरुवर्तिनौ

क्षुधा कथं न सीदेतामिति चोद्धर्षणं कृतम्

Mahabharata

Ashramavasika Parva, Adhyaya 23, Verse 9

इयं च बृहती श्यामा श्रीमत्यायतलोचना

वृथा सभातले क्लिष्टा मा भूदिति च तत्कृतम्

Mahabharata

Ashramavasika Parva, Adhyaya 23, Verse 10

प्रेक्षन्त्या मे तदा हीमां वेपन्तीं कदलीमिव

स्त्रीधर्मिणीमनिन्द्याङ्गीं तथा द्यूतपराजिताम्

Mahabharata

Ashramavasika Parva, Adhyaya 23, Verse 11

दुःशासनो यदा मौढ्याद्दासीवत्पर्यकर्षत

तदैव विदितं मह्यं पराभूतमिदं कुलम्

Mahabharata

Ashramavasika Parva, Adhyaya 23, Verse 12

विषण्णाः कुरवश्चैव तदा मे श्वशुरादयः

यदैषा नाथमिच्छन्ती व्यलपत्कुररी यथा

Mahabharata

Ashramavasika Parva, Adhyaya 23, Verse 13

केशपक्षे परामृष्टा पापेन हतबुद्धिना

यदा दुःशासनेनैषा तदा मुह्याम्यहं नृप

Mahabharata

Ashramavasika Parva, Adhyaya 23, Verse 14

युष्मत्तेजोविवृद्ध्यर्थं मया ह्युद्धर्षणं कृतम्

तदानीं विदुरावाक्यैरिति तद्वित्त पुत्रकाः

Mahabharata

Ashramavasika Parva, Adhyaya 23, Verse 15

कथं न राजवंशोऽयं नश्येत्प्राप्य सुतान्मम

पाण्डोरिति मया पुत्र तस्मादुद्धर्षणं कृतम्

Mahabharata

Ashramavasika Parva, Adhyaya 23, Verse 16

न तस्य पुत्रः पौत्रौ वा कुत एव स पार्थिव

लभते सुकृताँल्लोकान्यस्माद्वंशः प्रणश्यति

Mahabharata

Ashramavasika Parva, Adhyaya 23, Verse 17

भुक्तं राज्यफलं पुत्रा भर्तुर्मे विपुलं पुरा

महादानानि दत्तानि पीतः सोमो यथाविधि

Mahabharata

Ashramavasika Parva, Adhyaya 23, Verse 18

साहं नात्मफलार्थं वै वासुदेवमचूचुदम्

विदुरायाः प्रलापैस्तैः प्लावनार्थं तु तत्कृतम्

Mahabharata

Ashramavasika Parva, Adhyaya 23, Verse 19

नाहं राज्यफलं पुत्र कामये पुत्रनिर्जितम्

पतिलोकानहं पुण्यान्कामये तपसा विभो

Mahabharata

Ashramavasika Parva, Adhyaya 23, Verse 20

श्वश्रूश्वशुरयोः कृत्वा शुश्रूषां वनवासिनोः

तपसा शोषयिष्यामि युधिष्ठिर कलेवरम्

Mahabharata

Ashramavasika Parva, Adhyaya 23, Verse 21

निवर्तस्व कुरुश्रेष्ठ भीमसेनादिभिः सह

धर्मे ते धीयतां बुद्धिर्मनस्ते महदस्तु च