Ashramavasika Parva, Adhyaya 22, Verse 1
ततः प्रासादहर्म्येषु वसुधायां च पार्थिव
स्त्रीणां च पुरुषाणां च सुमहान्निस्वनोऽभवत्
Containing 32 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततः प्रासादहर्म्येषु वसुधायां च पार्थिव
स्त्रीणां च पुरुषाणां च सुमहान्निस्वनोऽभवत्
स राजा राजमार्गेण नृनारीसंकुलेन च
कथंचिन्निर्ययौ धीमान्वेपमानः कृताञ्जलिः
स वर्धमानद्वारेण निर्ययौ गजसाह्वयात्
विसर्जयामास च तं जनौघं स मुहुर्मुहुः
वनं गन्तुं च विदुरो राज्ञा सह कृतक्षणः
संजयश्च महामात्रः सूतो गावल्गणिस्तथा
कृपं निवर्तयामास युयुत्सुं च महारथम्
धृतराष्ट्रो महीपालः परिदाय युधिष्ठिरे
निवृत्ते पौरवर्गे तु राजा सान्तःपुरस्तदा
धृतराष्ट्राभ्यनुज्ञातो निवर्तितुमियेष सः
सोऽब्रवीन्मातरं कुन्तीमुपेत्य भरतर्षभ
अहं राजानमन्विष्ये भवती विनिवर्तताम्
वधूपरिवृता राज्ञि नगरं गन्तुमर्हसि
राजा यात्वेष धर्मात्मा तपसे धृतनिश्चयः
इत्युक्ता धर्मराजेन बाष्पव्याकुललोचना
जगादैवं तदा कुन्ती गान्धारीं परिगृह्य ह
सहदेवे महाराज मा प्रमादं कृथाः क्वचित्
एष मामनुरक्तो हि राजंस्त्वां चैव नित्यदा
कर्णं स्मरेथाः सततं संग्रामेष्वपलायिनम्
अवकीर्णो हि स मया वीरो दुष्प्रज्ञया तदा
आयसं हृदयं नूनं मन्दाया मम पुत्रक
यत्सूर्यजमपश्यन्त्याः शतधा न विदीर्यते
एवंगते तु किं शक्यं मया कर्तुमरिंदम
मम दोषोऽयमत्यर्थं ख्यापितो यन्न सूर्यजः
तन्निमित्तं महाबाहो दानं दद्यास्त्वमुत्तमम्
सदैव भ्रातृभिः सार्धमग्रजस्यारिमर्दन
द्रौपद्याश्च प्रिये नित्यं स्थातव्यमरिकर्शन
भीमसेनार्जुनौ चैव नकुलश्च कुरूद्वह
समाधेयास्त्वया वीर त्वय्यद्य कुलधूर्गता
श्वश्रूश्वशुरयोः पादाञ्शुश्रूषन्ती वने त्वहम्
गान्धारीसहिता वत्स्ये तापसी मलपङ्किनी
एवमुक्तः स धर्मात्मा भ्रातृभिः सहितो वशी
विषादमगमत्तीव्रं न च किंचिदुवाच ह
स मुहूर्तमिव ध्यात्वा धर्मपुत्रो युधिष्ठिरः
उवाच मातरं दीनश्चिन्ताशोकपरायणः
किमिदं ते व्यवसितं नैवं त्वं वक्तुमर्हसि
न त्वामभ्यनुजानामि प्रसादं कर्तुमर्हसि
व्यरोचयः पुरा ह्यस्मानुत्साह्य प्रियदर्शने
विदुराया वचोभिस्त्वमस्मान्न त्यक्तुमर्हसि
निहत्य पृथिवीपालान्राज्यं प्राप्तमिदं मया
तव प्रज्ञामुपश्रुत्य वासुदेवान्नरर्षभात्
क्व सा बुद्धिरियं चाद्य भवत्या या श्रुता मया
क्षत्रधर्मे स्थितिं ह्युक्त्वा तस्याश्चलितुमिच्छसि
अस्मानुत्सृज्य राज्यं च स्नुषां चेमां यशस्विनीम्
कथं वत्स्यसि शून्येषु वनेष्वम्ब प्रसीद मे
इति बाष्पकलां वाचं कुन्ती पुत्रस्य शृण्वती
जगामैवाश्रुपूर्णाक्षी भीमस्तामिदमब्रवीत्
यदा राज्यमिदं कुन्ति भोक्तव्यं पुत्रनिर्जितम्
प्राप्तव्या राजधर्माश्च तदेयं ते कुतो मतिः
किं वयं कारिताः पूर्वं भवत्या पृथिवीक्षयम्
कस्य हेतोः परित्यज्य वनं गन्तुमभीप्ससि
वनाच्चापि किमानीता भवत्या बालका वयम्
दुःखशोकसमाविष्टौ माद्रीपुत्राविमौ तथा
प्रसीद मातर्मा गास्त्वं वनमद्य यशस्विनि
श्रियं यौधिष्ठिरीं तावद्भुङ्क्ष्व पार्थबलार्जिताम्
इति सा निश्चितैवाथ वनवासकृतक्षणा
लालप्यतां बहुविधं पुत्राणां नाकरोद्वचः
द्रौपदी चान्वयाच्छ्वश्रूं विषण्णवदना तदा
वनवासाय गच्छन्तीं रुदती भद्रया सह