Mahabharata

Ashramavasika Parva, Adhyaya 22

Containing 32 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashramavasika Parva, Adhyaya 22, Verse 1

ततः प्रासादहर्म्येषु वसुधायां च पार्थिव

स्त्रीणां च पुरुषाणां च सुमहान्निस्वनोऽभवत्

Mahabharata

Ashramavasika Parva, Adhyaya 22, Verse 2

स राजा राजमार्गेण नृनारीसंकुलेन च

कथंचिन्निर्ययौ धीमान्वेपमानः कृताञ्जलिः

Mahabharata

Ashramavasika Parva, Adhyaya 22, Verse 3

स वर्धमानद्वारेण निर्ययौ गजसाह्वयात्

विसर्जयामास च तं जनौघं स मुहुर्मुहुः

Mahabharata

Ashramavasika Parva, Adhyaya 22, Verse 4

वनं गन्तुं च विदुरो राज्ञा सह कृतक्षणः

संजयश्च महामात्रः सूतो गावल्गणिस्तथा

Mahabharata

Ashramavasika Parva, Adhyaya 22, Verse 5

कृपं निवर्तयामास युयुत्सुं च महारथम्

धृतराष्ट्रो महीपालः परिदाय युधिष्ठिरे

Mahabharata

Ashramavasika Parva, Adhyaya 22, Verse 6

निवृत्ते पौरवर्गे तु राजा सान्तःपुरस्तदा

धृतराष्ट्राभ्यनुज्ञातो निवर्तितुमियेष सः

Mahabharata

Ashramavasika Parva, Adhyaya 22, Verse 7

सोऽब्रवीन्मातरं कुन्तीमुपेत्य भरतर्षभ

अहं राजानमन्विष्ये भवती विनिवर्तताम्

Mahabharata

Ashramavasika Parva, Adhyaya 22, Verse 8

वधूपरिवृता राज्ञि नगरं गन्तुमर्हसि

राजा यात्वेष धर्मात्मा तपसे धृतनिश्चयः

Mahabharata

Ashramavasika Parva, Adhyaya 22, Verse 9

इत्युक्ता धर्मराजेन बाष्पव्याकुललोचना

जगादैवं तदा कुन्ती गान्धारीं परिगृह्य ह

Mahabharata

Ashramavasika Parva, Adhyaya 22, Verse 10

सहदेवे महाराज मा प्रमादं कृथाः क्वचित्

एष मामनुरक्तो हि राजंस्त्वां चैव नित्यदा

Mahabharata

Ashramavasika Parva, Adhyaya 22, Verse 11

कर्णं स्मरेथाः सततं संग्रामेष्वपलायिनम्

अवकीर्णो हि स मया वीरो दुष्प्रज्ञया तदा

Mahabharata

Ashramavasika Parva, Adhyaya 22, Verse 12

आयसं हृदयं नूनं मन्दाया मम पुत्रक

यत्सूर्यजमपश्यन्त्याः शतधा न विदीर्यते

Mahabharata

Ashramavasika Parva, Adhyaya 22, Verse 13

एवंगते तु किं शक्यं मया कर्तुमरिंदम

मम दोषोऽयमत्यर्थं ख्यापितो यन्न सूर्यजः

तन्निमित्तं महाबाहो दानं दद्यास्त्वमुत्तमम्

Mahabharata

Ashramavasika Parva, Adhyaya 22, Verse 14

सदैव भ्रातृभिः सार्धमग्रजस्यारिमर्दन

द्रौपद्याश्च प्रिये नित्यं स्थातव्यमरिकर्शन

Mahabharata

Ashramavasika Parva, Adhyaya 22, Verse 15

भीमसेनार्जुनौ चैव नकुलश्च कुरूद्वह

समाधेयास्त्वया वीर त्वय्यद्य कुलधूर्गता

Mahabharata

Ashramavasika Parva, Adhyaya 22, Verse 16

श्वश्रूश्वशुरयोः पादाञ्शुश्रूषन्ती वने त्वहम्

गान्धारीसहिता वत्स्ये तापसी मलपङ्किनी

Mahabharata

Ashramavasika Parva, Adhyaya 22, Verse 17

एवमुक्तः स धर्मात्मा भ्रातृभिः सहितो वशी

विषादमगमत्तीव्रं न च किंचिदुवाच ह

Mahabharata

Ashramavasika Parva, Adhyaya 22, Verse 18

स मुहूर्तमिव ध्यात्वा धर्मपुत्रो युधिष्ठिरः

उवाच मातरं दीनश्चिन्ताशोकपरायणः

Mahabharata

Ashramavasika Parva, Adhyaya 22, Verse 19

किमिदं ते व्यवसितं नैवं त्वं वक्तुमर्हसि

न त्वामभ्यनुजानामि प्रसादं कर्तुमर्हसि

Mahabharata

Ashramavasika Parva, Adhyaya 22, Verse 20

व्यरोचयः पुरा ह्यस्मानुत्साह्य प्रियदर्शने

विदुराया वचोभिस्त्वमस्मान्न त्यक्तुमर्हसि

Mahabharata

Ashramavasika Parva, Adhyaya 22, Verse 21

निहत्य पृथिवीपालान्राज्यं प्राप्तमिदं मया

तव प्रज्ञामुपश्रुत्य वासुदेवान्नरर्षभात्

Mahabharata

Ashramavasika Parva, Adhyaya 22, Verse 22

क्व सा बुद्धिरियं चाद्य भवत्या या श्रुता मया

क्षत्रधर्मे स्थितिं ह्युक्त्वा तस्याश्चलितुमिच्छसि

Mahabharata

Ashramavasika Parva, Adhyaya 22, Verse 23

अस्मानुत्सृज्य राज्यं च स्नुषां चेमां यशस्विनीम्

कथं वत्स्यसि शून्येषु वनेष्वम्ब प्रसीद मे

Mahabharata

Ashramavasika Parva, Adhyaya 22, Verse 24

इति बाष्पकलां वाचं कुन्ती पुत्रस्य शृण्वती

जगामैवाश्रुपूर्णाक्षी भीमस्तामिदमब्रवीत्

Mahabharata

Ashramavasika Parva, Adhyaya 22, Verse 25

यदा राज्यमिदं कुन्ति भोक्तव्यं पुत्रनिर्जितम्

प्राप्तव्या राजधर्माश्च तदेयं ते कुतो मतिः

Mahabharata

Ashramavasika Parva, Adhyaya 22, Verse 26

किं वयं कारिताः पूर्वं भवत्या पृथिवीक्षयम्

कस्य हेतोः परित्यज्य वनं गन्तुमभीप्ससि

Mahabharata

Ashramavasika Parva, Adhyaya 22, Verse 27

वनाच्चापि किमानीता भवत्या बालका वयम्

दुःखशोकसमाविष्टौ माद्रीपुत्राविमौ तथा

Mahabharata

Ashramavasika Parva, Adhyaya 22, Verse 28

प्रसीद मातर्मा गास्त्वं वनमद्य यशस्विनि

श्रियं यौधिष्ठिरीं तावद्भुङ्क्ष्व पार्थबलार्जिताम्

Mahabharata

Ashramavasika Parva, Adhyaya 22, Verse 29

इति सा निश्चितैवाथ वनवासकृतक्षणा

लालप्यतां बहुविधं पुत्राणां नाकरोद्वचः

Mahabharata

Ashramavasika Parva, Adhyaya 22, Verse 30

द्रौपदी चान्वयाच्छ्वश्रूं विषण्णवदना तदा

वनवासाय गच्छन्तीं रुदती भद्रया सह