Mahabharata

Ashramavasika Parva, Adhyaya 21

Containing 13 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashramavasika Parva, Adhyaya 21, Verse 1

ततः प्रभाते राजा स धृतराष्ट्रोऽम्बिकासुतः

आहूय पाण्डवान्वीरान्वनवासकृतक्षणः

Mahabharata

Ashramavasika Parva, Adhyaya 21, Verse 2

गान्धारीसहितो धीमानभिनन्द्य यथाविधि

कार्त्तिक्यां कारयित्वेष्टिं ब्राह्मणैर्वेदपारगैः

Mahabharata

Ashramavasika Parva, Adhyaya 21, Verse 3

अग्निहोत्रं पुरस्कृत्य वल्कलाजिनसंवृतः

वधूपरिवृतो राजा निर्ययौ भवनात्ततः

Mahabharata

Ashramavasika Parva, Adhyaya 21, Verse 4

ततः स्त्रियः कौरवपाण्डवानां; याश्चाप्यन्याः कौरवराजवंश्याः

तासां नादः प्रादुरासीत्तदानीं; वैचित्रवीर्ये नृपतौ प्रयाते

Mahabharata

Ashramavasika Parva, Adhyaya 21, Verse 5

ततो लाजैः सुमनोभिश्च राजा; विचित्राभिस्तद्गृहं पूजयित्वा

संयोज्यार्थैर्भृत्यजनं च सर्वं; ततः समुत्सृज्य ययौ नरेन्द्रः

Mahabharata

Ashramavasika Parva, Adhyaya 21, Verse 6

ततो राजा प्राञ्जलिर्वेपमानो; युधिष्ठिरः सस्वनं बाष्पकण्ठः

विलप्योच्चैर्हा महाराज साधो; क्व गन्तासीत्यपतत्तात भूमौ

Mahabharata

Ashramavasika Parva, Adhyaya 21, Verse 7

तथार्जुनस्तीव्रदुःखाभितप्तो; मुहुर्मुहुर्निःश्वसन्भारताग्र्यः

युधिष्ठिरं मैवमित्येवमुक्त्वा; निगृह्याथोदीधरत्सीदमानः

Mahabharata

Ashramavasika Parva, Adhyaya 21, Verse 8

वृकोदरः फल्गुनश्चैव वीरौ; माद्रीपुत्रौ विदुरः संजयश्च

वैश्यापुत्रः सहितो गौतमेन; धौम्यो विप्राश्चान्वयुर्बाष्पकण्ठाः

Mahabharata

Ashramavasika Parva, Adhyaya 21, Verse 9

कुन्ती गान्धारीं बद्धनेत्रां व्रजन्तीं; स्कन्धासक्तं हस्तमथोद्वहन्ती

राजा गान्धार्याः स्कन्धदेशेऽवसज्य; पाणिं ययौ धृतराष्ट्रः प्रतीतः

Mahabharata

Ashramavasika Parva, Adhyaya 21, Verse 10

तथा कृष्णा द्रौपदी यादवी च; बालापत्या चोत्तरा कौरवी च

चित्राङ्गदा याश्च काश्चित्स्त्रियोऽन्याः; सार्धं राज्ञा प्रस्थितास्ता वधूभिः

Mahabharata

Ashramavasika Parva, Adhyaya 21, Verse 11

तासां नादो रुदतीनां तदासी;द्राजन्दुःखात्कुररीणामिवोच्चैः

ततो निष्पेतुर्ब्राह्मणक्षत्रियाणां; विट्शूद्राणां चैव नार्यः समन्तात्

Mahabharata

Ashramavasika Parva, Adhyaya 21, Verse 12

तन्निर्याणे दुःखितः पौरवर्गो; गजाह्वयेऽतीव बभूव राजन्

यथा पूर्वं गच्छतां पाण्डवानां; द्यूते राजन्कौरवाणां सभायाम्

Mahabharata

Ashramavasika Parva, Adhyaya 21, Verse 13

या नापश्यच्चन्द्रमा नैव सूर्यो; रामाः कदाचिदपि तस्मिन्नरेन्द्रे

महावनं गच्छति कौरवेन्द्रे; शोकेनार्ता राजमार्गं प्रपेदुः