Ashramavasika Parva, Adhyaya 20, Verse 1
विदुरेणैवमुक्तस्तु धृतराष्ट्रो जनाधिपः
प्रीतिमानभवद्राजा राज्ञो जिष्णोश्च कर्मणा
Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.
विदुरेणैवमुक्तस्तु धृतराष्ट्रो जनाधिपः
प्रीतिमानभवद्राजा राज्ञो जिष्णोश्च कर्मणा
ततोऽभिरूपान्भीष्माय ब्राह्मणानृषिसत्तमान्
पुत्रार्थे सुहृदां चैव स समीक्ष्य सहस्रशः
कारयित्वान्नपानानि यानान्याच्छादनानि च
सुवर्णमणिरत्नानि दासीदासपरिच्छदान्
कम्बलाजिनरत्नानि ग्रामान्क्षेत्रानजाविकम्
अलंकारान्गजानश्वान्कन्याश्चैव वरस्त्रियः
आदिश्यादिश्य विप्रेभ्यो ददौ स नृपसत्तमः
द्रोणं संकीर्त्य भीष्मं च सोमदत्तं च बाह्लिकम्
दुर्योधनं च राजानं पुत्रांश्चैव पृथक्पृथक्
जयद्रथपुरोगांश्च सुहृदश्चैव सर्वशः
स श्राद्धयज्ञो ववृधे बहुगोधनदक्षिणः
अनेकधनरत्नौघो युधिष्ठिरमते तदा
अनिशं यत्र पुरुषा गणका लेखकास्तथा
युधिष्ठिरस्य वचनात्तदापृच्छन्ति तं नृपम्
आज्ञापय किमेतेभ्यः प्रदेयं दीयतामिति
तदुपस्थितमेवात्र वचनान्ते प्रदृश्यते
शते देये दशशतं सहस्रे चायुतं तथा
दीयते वचनाद्राज्ञः कुन्तीपुत्रस्य धीमतः
एवं स वसुधाराभिर्वर्षमाणो नृपाम्बुदः
तर्पयामास विप्रांस्तान्वर्षन्भूमिमिवाम्बुदः
ततोऽनन्तरमेवात्र सर्ववर्णान्महीपतिः
अन्नपानरसौघेन प्लावयामास पार्थिवः
सवस्त्रफेनरत्नौघो मृदङ्गनिनदस्वनः
गवाश्वमकरावर्तो नारीरत्नमहाकरः
ग्रामाग्रहारकुल्याढ्यो मणिहेमजलार्णवः
जगत्संप्लावयामास धृतराष्ट्रदयाम्बुधिः
एवं स पुत्रपौत्राणां पितॄणामात्मनस्तथा
गान्धार्याश्च महाराज प्रददावौर्ध्वदेहिकम्
परिश्रान्तो यदासीत्स ददद्दानान्यनेकशः
ततो निर्वर्तयामास दानयज्ञं कुरूद्वहः
एवं स राजा कौरव्यश्चक्रे दानमहोत्सवम्
नटनर्तकलास्याढ्यं बह्वन्नरसदक्षिणम्
दशाहमेवं दानानि दत्त्वा राजाम्बिकासुतः
बभूव पुत्रपौत्राणामनृणो भरतर्षभ