Ashramavasika Parva, Adhyaya 19, Verse 1
एवमुक्तस्तु राज्ञा स विदुरो बुद्धिसत्तमः
धृतराष्ट्रमुपेत्येदं वाक्यमाह महार्थवत्
Containing 15 sacred Sanskrit shlokas with multi-author commentaries and translations.
एवमुक्तस्तु राज्ञा स विदुरो बुद्धिसत्तमः
धृतराष्ट्रमुपेत्येदं वाक्यमाह महार्थवत्
उक्तो युधिष्ठिरो राजा भवद्वचनमादितः
स च संश्रुत्य वाक्यं ते प्रशशंस महाद्युतिः
बीभत्सुश्च महातेजा निवेदयति ते गृहान्
वसु तस्य गृहे यच्च प्राणानपि च केवलान्
धर्मराजश्च पुत्रस्ते राज्यं प्राणान्धनानि च
अनुजानाति राजर्षे यच्चान्यदपि किंचन
भीमस्तु सर्वदुःखानि संस्मृत्य बहुलान्युत
कृच्छ्रादिव महाबाहुरनुमन्ये विनिःश्वसन्
स राज्ञा धर्मशीलेन भ्रात्रा बीभत्सुना तथा
अनुनीतो महाबाहुः सौहृदे स्थापितोऽपि च
न च मन्युस्त्वया कार्य इति त्वां प्राह धर्मराट्
संस्मृत्य भीमस्तद्वैरं यदन्यायवदाचरेत्
एवंप्रायो हि धर्मोऽयं क्षत्रियाणां नराधिप
युद्धे क्षत्रियधर्मे च निरतोऽयं वृकोदरः
वृकोदरकृते चाहमर्जुनश्च पुनः पुनः
प्रसादयाव नृपते भवान्प्रभुरिहास्ति यत्
प्रददातु भवान्वित्तं यावदिच्छसि पार्थिव
त्वमीश्वरो नो राज्यस्य प्राणानां चेति भारत
ब्रह्मदेयाग्रहारांश्च पुत्राणां चौर्ध्वदेहिकम्
इतो रत्नानि गाश्चैव दासीदासमजाविकम्
आनयित्वा कुरुश्रेष्ठो ब्राह्मणेभ्यः प्रयच्छतु
दीनान्धकृपणेभ्यश्च तत्र तत्र नृपाज्ञया
बह्वन्नरसपानाढ्याः सभा विदुर कारय
गवां निपानान्यन्यच्च विविधं पुण्यकर्म यत्
इति मामब्रवीद्राजा पार्थश्चैव धनंजयः
यदत्रानन्तरं कार्यं तद्भवान्वक्तुमर्हति
इत्युक्तो विदुरेणाथ धृतराष्ट्रोऽभिनन्द्य तत्
मनश्चक्रे महादाने कार्त्तिक्यां जनमेजय