Ashramavasika Parva, Adhyaya 18, Verse 1
भीम ज्येष्ठो गुरुर्मे त्वं नातोऽन्यद्वक्तुमुत्सहे
धृतराष्ट्रो हि राजर्षिः सर्वथा मानमर्हति
Containing 12 sacred Sanskrit shlokas with multi-author commentaries and translations.
भीम ज्येष्ठो गुरुर्मे त्वं नातोऽन्यद्वक्तुमुत्सहे
धृतराष्ट्रो हि राजर्षिः सर्वथा मानमर्हति
न स्मरन्त्यपराद्धानि स्मरन्ति सुकृतानि च
असंभिन्नार्थमर्यादाः साधवः पुरुषोत्तमाः
इदं मद्वचनात्क्षत्तः कौरवं ब्रूहि पार्थिवम्
यावदिच्छति पुत्राणां दातुं तावद्ददाम्यहम्
भीष्मादीनां च सर्वेषां सुहृदामुपकारिणाम्
मम कोशादिति विभो मा भूद्भीमः सुदुर्मनाः
इत्युक्ते धर्मराजस्तमर्जुनं प्रत्यपूजयत्
भीमसेनः कटाक्षेण वीक्षां चक्रे धनंजयम्
ततः स विदुरं धीमान्वाक्यमाह युधिष्ठिरः
न भीमसेने कोपं स नृपतिः कर्तुमर्हति
परिक्लिष्टो हि भीमोऽयं हिमवृष्ट्यातपादिभिः
दुःखैर्बहुविधैर्धीमानरण्ये विदितं तव
किं तु मद्वचनाद्ब्रूहि राजानं भरतर्षभम्
यद्यदिच्छसि यावच्च गृह्यतां मद्गृहादिति
यन्मात्सर्यमयं भीमः करोति भृशदुःखितः
न तन्मनसि कर्तव्यमिति वाच्यः स पार्थिवः
यन्ममास्ति धनं किंचिदर्जुनस्य च वेश्मनि
तस्य स्वामी महाराज इति वाच्यः स पार्थिवः
ददातु राजा विप्रेभ्यो यथेष्टं क्रियतां व्ययः
पुत्राणां सुहृदां चैव गच्छत्वानृण्यमद्य सः
इदं चापि शरीरं मे तवायत्तं जनाधिप
धनानि चेति विद्धि त्वं क्षत्तर्नास्त्यत्र संशयः