Mahabharata

Ashramavasika Parva, Adhyaya 18

Containing 12 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashramavasika Parva, Adhyaya 18, Verse 1

भीम ज्येष्ठो गुरुर्मे त्वं नातोऽन्यद्वक्तुमुत्सहे

धृतराष्ट्रो हि राजर्षिः सर्वथा मानमर्हति

Mahabharata

Ashramavasika Parva, Adhyaya 18, Verse 2

न स्मरन्त्यपराद्धानि स्मरन्ति सुकृतानि च

असंभिन्नार्थमर्यादाः साधवः पुरुषोत्तमाः

Mahabharata

Ashramavasika Parva, Adhyaya 18, Verse 3

इदं मद्वचनात्क्षत्तः कौरवं ब्रूहि पार्थिवम्

यावदिच्छति पुत्राणां दातुं तावद्ददाम्यहम्

Mahabharata

Ashramavasika Parva, Adhyaya 18, Verse 4

भीष्मादीनां च सर्वेषां सुहृदामुपकारिणाम्

मम कोशादिति विभो मा भूद्भीमः सुदुर्मनाः

Mahabharata

Ashramavasika Parva, Adhyaya 18, Verse 5

इत्युक्ते धर्मराजस्तमर्जुनं प्रत्यपूजयत्

भीमसेनः कटाक्षेण वीक्षां चक्रे धनंजयम्

Mahabharata

Ashramavasika Parva, Adhyaya 18, Verse 6

ततः स विदुरं धीमान्वाक्यमाह युधिष्ठिरः

न भीमसेने कोपं स नृपतिः कर्तुमर्हति

Mahabharata

Ashramavasika Parva, Adhyaya 18, Verse 7

परिक्लिष्टो हि भीमोऽयं हिमवृष्ट्यातपादिभिः

दुःखैर्बहुविधैर्धीमानरण्ये विदितं तव

Mahabharata

Ashramavasika Parva, Adhyaya 18, Verse 8

किं तु मद्वचनाद्ब्रूहि राजानं भरतर्षभम्

यद्यदिच्छसि यावच्च गृह्यतां मद्गृहादिति

Mahabharata

Ashramavasika Parva, Adhyaya 18, Verse 9

यन्मात्सर्यमयं भीमः करोति भृशदुःखितः

न तन्मनसि कर्तव्यमिति वाच्यः स पार्थिवः

Mahabharata

Ashramavasika Parva, Adhyaya 18, Verse 10

यन्ममास्ति धनं किंचिदर्जुनस्य च वेश्मनि

तस्य स्वामी महाराज इति वाच्यः स पार्थिवः

Mahabharata

Ashramavasika Parva, Adhyaya 18, Verse 11

ददातु राजा विप्रेभ्यो यथेष्टं क्रियतां व्ययः

पुत्राणां सुहृदां चैव गच्छत्वानृण्यमद्य सः

Mahabharata

Ashramavasika Parva, Adhyaya 18, Verse 12

इदं चापि शरीरं मे तवायत्तं जनाधिप

धनानि चेति विद्धि त्वं क्षत्तर्नास्त्यत्र संशयः