Mahabharata

Ashramavasika Parva, Adhyaya 17

Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashramavasika Parva, Adhyaya 17, Verse 1

व्युषितायां रजन्यां तु धृतराष्ट्रोऽम्बिकासुतः

विदुरं प्रेषयामास युधिष्ठिरनिवेशनम्

Mahabharata

Ashramavasika Parva, Adhyaya 17, Verse 2

स गत्वा राजवचनादुवाचाच्युतमीश्वरम्

युधिष्ठिरं महातेजाः सर्वबुद्धिमतां वरः

Mahabharata

Ashramavasika Parva, Adhyaya 17, Verse 3

धृतराष्ट्रो महाराज वनवासाय दीक्षितः

गमिष्यति वनं राजन्कार्त्तिकीमागतामिमाम्

Mahabharata

Ashramavasika Parva, Adhyaya 17, Verse 4

स त्वा कुरुकुलश्रेष्ठ किंचिदर्थमभीप्सति

श्राद्धमिच्छति दातुं स गाङ्गेयस्य महात्मनः

Mahabharata

Ashramavasika Parva, Adhyaya 17, Verse 5

द्रोणस्य सोमदत्तस्य बाह्लीकस्य च धीमतः

पुत्राणां चैव सर्वेषां ये चास्य सुहृदो हताः

यदि चाभ्यनुजानीषे सैन्धवापसदस्य च

Mahabharata

Ashramavasika Parva, Adhyaya 17, Verse 6

एतच्छ्रुत्वा तु वचनं विदुरस्य युधिष्ठिरः

हृष्टः संपूजयामास गुडाकेशश्च पाण्डवः

Mahabharata

Ashramavasika Parva, Adhyaya 17, Verse 7

न तु भीमो दृढक्रोधस्तद्वचो जगृहे तदा

विदुरस्य महातेजा दुर्योधनकृतं स्मरन्

Mahabharata

Ashramavasika Parva, Adhyaya 17, Verse 8

अभिप्रायं विदित्वा तु भीमसेनस्य फल्गुनः

किरीटी किंचिदानम्य भीमं वचनमब्रवीत्

Mahabharata

Ashramavasika Parva, Adhyaya 17, Verse 9

भीम राजा पिता वृद्धो वनवासाय दीक्षितः

दातुमिच्छति सर्वेषां सुहृदामौर्ध्वदेहिकम्

Mahabharata

Ashramavasika Parva, Adhyaya 17, Verse 10

भवता निर्जितं वित्तं दातुमिच्छति कौरवः

भीष्मादीनां महाबाहो तदनुज्ञातुमर्हसि

Mahabharata

Ashramavasika Parva, Adhyaya 17, Verse 11

दिष्ट्या त्वद्य महाबाहो धृतराष्ट्रः प्रयाचति

याचितो यः पुरास्माभिः पश्य कालस्य पर्ययम्

Mahabharata

Ashramavasika Parva, Adhyaya 17, Verse 12

योऽसौ पृथिव्याः कृत्स्नाया भर्ता भूत्वा नराधिपः

परैर्विनिहतापत्यो वनं गन्तुमभीप्सति

Mahabharata

Ashramavasika Parva, Adhyaya 17, Verse 13

मा तेऽन्यत्पुरुषव्याघ्र दानाद्भवतु दर्शनम्

अयशस्यमतोऽन्यत्स्यादधर्म्यं च महाभुज

Mahabharata

Ashramavasika Parva, Adhyaya 17, Verse 14

राजानमुपतिष्ठस्व ज्येष्ठं भ्रातरमीश्वरम्

अर्हस्त्वमसि दातुं वै नादातुं भरतर्षभ

एवं ब्रुवाणं कौन्तेयं धर्मराजोऽभ्यपूजयत्

Mahabharata

Ashramavasika Parva, Adhyaya 17, Verse 15

भीमसेनस्तु सक्रोधः प्रोवाचेदं वचस्तदा

वयं भीष्मस्य कुर्मेह प्रेतकार्याणि फल्गुन

Mahabharata

Ashramavasika Parva, Adhyaya 17, Verse 16

सोमदत्तस्य नृपतेर्भूरिश्रवस एव च

बाह्लीकस्य च राजर्षेर्द्रोणस्य च महात्मनः

Mahabharata

Ashramavasika Parva, Adhyaya 17, Verse 17

अन्येषां चैव सुहृदां कुन्ती कर्णाय दास्यति

श्राद्धानि पुरुषव्याघ्र मादात्कौरवको नृपः

Mahabharata

Ashramavasika Parva, Adhyaya 17, Verse 18

इति मे वर्तते बुद्धिर्मा वो नन्दन्तु शत्रवः

कष्टात्कष्टतरं यान्तु सर्वे दुर्योधनादयः

यैरियं पृथिवी सर्वा घातिता कुलपांसनैः

Mahabharata

Ashramavasika Parva, Adhyaya 17, Verse 19

कुतस्त्वमद्य विस्मृत्य वैरं द्वादशवार्षिकम्

अज्ञातवासगमनं द्रौपदीशोकवर्धनम्

क्व तदा धृतराष्ट्रस्य स्नेहोऽस्मास्वभवत्तदा

Mahabharata

Ashramavasika Parva, Adhyaya 17, Verse 20

कृष्णाजिनोपसंवीतो हृताभरणभूषणः

सार्धं पाञ्चालपुत्र्या त्वं राजानमुपजग्मिवान्

क्व तदा द्रोणभीष्मौ तौ सोमदत्तोऽपि वाभवत्

Mahabharata

Ashramavasika Parva, Adhyaya 17, Verse 21

यत्र त्रयोदश समा वने वन्येन जीवसि

न तदा त्वा पिता ज्येष्ठः पितृत्वेनाभिवीक्षते

Mahabharata

Ashramavasika Parva, Adhyaya 17, Verse 22

किं ते तद्विस्मृतं पार्थ यदेष कुलपांसनः

दुर्वृत्तो विदुरं प्राह द्यूते किं जितमित्युत

Mahabharata

Ashramavasika Parva, Adhyaya 17, Verse 23

तमेवंवादिनं राजा कुन्तीपुत्रो युधिष्ठिरः

उवाच भ्रातरं धीमाञ्जोषमास्वेति भर्त्सयन्