Ashramavasika Parva, Adhyaya 16, Verse 1
न तद्दुर्योधनकृतं न च तद्भवता कृतम्
न कर्णसौबलाभ्यां च कुरवो यत्क्षयं गताः
Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.
न तद्दुर्योधनकृतं न च तद्भवता कृतम्
न कर्णसौबलाभ्यां च कुरवो यत्क्षयं गताः
दैवं तत्तु विजानीमो यन्न शक्यं प्रबाधितुम्
दैवं पुरुषकारेण न शक्यमतिवर्तितुम्
अक्षौहिण्यो महाराज दशाष्टौ च समागताः
अष्टादशाहेन हता दशभिर्योधपुंगवैः
भीष्मद्रोणकृपाद्यैश्च कर्णेन च महात्मना
युयुधानेन वीरेण धृष्टद्युम्नेन चैव ह
चतुर्भिः पाण्डुपुत्रैश्च भीमार्जुनयमैर्नृप
जनक्षयोऽयं नृपते कृतो दैवबलात्कृतैः
अवश्यमेव संग्रामे क्षत्रियेण विशेषतः
कर्तव्यं निधनं लोके शस्त्रेण क्षत्रबन्धुना
तैरियं पुरुषव्याघ्रैर्विद्याबाहुबलान्वितैः
पृथिवी निहता सर्वा सहया सरथद्विपा
न स राजापराध्नोति पुत्रस्तव महामनाः
न भवान्न च ते भृत्या न कर्णो न च सौबलः
यद्विनष्टाः कुरुश्रेष्ठा राजानश्च सहस्रशः
सर्वं दैवकृतं तद्वै कोऽत्र किं वक्तुमर्हति
गुरुर्मतो भवानस्य कृत्स्नस्य जगतः प्रभुः
धर्मात्मानमतस्तुभ्यमनुजानीमहे सुतम्
लभतां वीरलोकान्स ससहायो नराधिपः
द्विजाग्र्यैः समनुज्ञातस्त्रिदिवे मोदतां सुखी
प्राप्स्यते च भवान्पुण्यं धर्मे च परमां स्थितिम्
वेद पुण्यं च कार्त्स्न्येन सम्यग्भरतसत्तम
दृष्टापदानाश्चास्माभिः पाण्डवाः पुरुषर्षभाः
समर्थास्त्रिदिवस्यापि पालने किं पुनः क्षितेः
अनुवत्स्यन्ति चापीमाः समेषु विषमेषु च
प्रजाः कुरुकुलश्रेष्ठ पाण्डवाञ्शीलभूषणान्
ब्रह्मदेयाग्रहारांश्च परिहारांश्च पार्थिव
पूर्वराजातिसर्गांश्च पालयत्येव पाण्डवः
दीर्घदर्शी कृतप्रज्ञः सदा वैश्रवणो यथा
अक्षुद्रसचिवश्चायं कुन्तीपुत्रो महामनाः
अप्यमित्रे दयावांश्च शुचिश्च भरतर्षभ
ऋजु पश्यति मेधावी पुत्रवत्पाति नः सदा
विप्रियं च जनस्यास्य संसर्गाद्धर्मजस्य वै
न करिष्यन्ति राजर्षे तथा भीमार्जुनादयः
मन्दा मृदुषु कौरव्यास्तीक्ष्णेष्वाशीविषोपमाः
वीर्यवन्तो महात्मानः पौराणां च हिते रताः
न कुन्ती न च पाञ्चाली न चोलूपी न सात्वती
अस्मिञ्जने करिष्यन्ति प्रतिकूलानि कर्हिचित्
भवत्कृतमिमं स्नेहं युधिष्ठिरविवर्धितम्
न पृष्ठतः करिष्यन्ति पौरजानपदा जनाः
अधर्मिष्ठानपि सतः कुन्तीपुत्रा महारथाः
मानवान्पालयिष्यन्ति भूत्वा धर्मपरायणाः
स राजन्मानसं दुःखमपनीय युधिष्ठिरात्
कुरु कार्याणि धर्म्याणि नमस्ते भरतर्षभ
तस्य तद्वचनं धर्म्यमनुबन्धगुणोत्तरम्
साधु साध्विति सर्वः स जनः प्रतिगृहीतवान्
धृतराष्ट्रश्च तद्वाक्यमभिपूज्य पुनः पुनः
विसर्जयामास तदा सर्वास्तु प्रकृतीः शनैः
स तैः संपूजितो राजा शिवेनावेक्षितस्तदा
प्राञ्जलिः पूजयामास तं जनं भरतर्षभ
ततो विवेश भुवनं गान्धार्या सहितो नृपः
व्युष्टायां चैव शर्वर्यां यच्चकार निबोध तत्