Mahabharata

Ashramavasika Parva, Adhyaya 15

Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashramavasika Parva, Adhyaya 15, Verse 1

एवमुक्तास्तु ते तेन पौरजानपदा जनाः

वृद्धेन राज्ञा कौरव्य नष्टसंज्ञा इवाभवन्

Mahabharata

Ashramavasika Parva, Adhyaya 15, Verse 2

तूष्णींभूतांस्ततस्तांस्तु बाष्पकण्ठान्महीपतिः

धृतराष्ट्रो महीपालः पुनरेवाभ्यभाषत

Mahabharata

Ashramavasika Parva, Adhyaya 15, Verse 3

वृद्धं मां हतपुत्रं च धर्मपत्न्या सहानया

विलपन्तं बहुविधं कृपणं चैव सत्तमाः

Mahabharata

Ashramavasika Parva, Adhyaya 15, Verse 4

पित्रा स्वयमनुज्ञातं कृष्णद्वैपायनेन वै

वनवासाय धर्मज्ञा धर्मज्ञेन नृपेण च

Mahabharata

Ashramavasika Parva, Adhyaya 15, Verse 5

सोऽहं पुनः पुनर्याचे शिरसावनतोऽनघाः

गान्धार्या सहितं तन्मां समनुज्ञातुमर्हथ

Mahabharata

Ashramavasika Parva, Adhyaya 15, Verse 6

श्रुत्वा तु कुरुराजस्य वाक्यानि करुणानि ते

रुरुदुः सर्वतो राजन्समेताः कुरुजाङ्गलाः

Mahabharata

Ashramavasika Parva, Adhyaya 15, Verse 7

उत्तरीयैः करैश्चापि संछाद्य वदनानि ते

रुरुदुः शोकसंतप्ता मुहूर्तं पितृमातृवत्

Mahabharata

Ashramavasika Parva, Adhyaya 15, Verse 8

हृदयैः शून्यभूतैस्ते धृतराष्ट्रप्रवासजम्

दुःखं संधारयन्तः स्म नष्टसंज्ञा इवाभवन्

Mahabharata

Ashramavasika Parva, Adhyaya 15, Verse 9

ते विनीय तमायासं कुरुराजवियोगजम्

शनैः शनैस्तदान्योन्यमब्रुवन्स्वमतान्युत

Mahabharata

Ashramavasika Parva, Adhyaya 15, Verse 10

ततः संधाय ते सर्वे वाक्यान्यथ समासतः

एकस्मिन्ब्राह्मणे राजन्नावेश्योचुर्नराधिपम्

Mahabharata

Ashramavasika Parva, Adhyaya 15, Verse 11

ततः स्वचरणे वृद्धः संमतोऽर्थविशारदः

साम्बाख्यो बह्वृचो राजन्वक्तुं समुपचक्रमे

Mahabharata

Ashramavasika Parva, Adhyaya 15, Verse 12

अनुमान्य महाराजं तत्सदः संप्रभाष्य च

विप्रः प्रगल्भो मेधावी स राजानमुवाच ह

Mahabharata

Ashramavasika Parva, Adhyaya 15, Verse 13

राजन्वाक्यं जनस्यास्य मयि सर्वं समर्पितम्

वक्ष्यामि तदहं वीर तज्जुषस्व नराधिप

Mahabharata

Ashramavasika Parva, Adhyaya 15, Verse 14

यथा वदसि राजेन्द्र सर्वमेतत्तथा विभो

नात्र मिथ्या वचः किंचित्सुहृत्त्वं नः परस्परम्

Mahabharata

Ashramavasika Parva, Adhyaya 15, Verse 15

न जात्वस्य तु वंशस्य राज्ञां कश्चित्कदाचन

राजासीद्यः प्रजापालः प्रजानामप्रियो भवेत्

Mahabharata

Ashramavasika Parva, Adhyaya 15, Verse 16

पितृवद्भ्रातृवच्चैव भवन्तः पालयन्ति नः

न च दुर्योधनः किंचिदयुक्तं कृतवान्नृप

Mahabharata

Ashramavasika Parva, Adhyaya 15, Verse 17

यथा ब्रवीति धर्मज्ञो मुनिः सत्यवतीसुतः

तथा कुरु महाराज स हि नः परमो गुरुः

Mahabharata

Ashramavasika Parva, Adhyaya 15, Verse 18

त्यक्ता वयं तु भवता दुःखशोकपरायणाः

भविष्यामश्चिरं राजन्भवद्गुणशतैर्हृताः

Mahabharata

Ashramavasika Parva, Adhyaya 15, Verse 19

यथा शंतनुना गुप्ता राज्ञा चित्राङ्गदेन च

भीष्मवीर्योपगूढेन पित्रा च तव पार्थिव

Mahabharata

Ashramavasika Parva, Adhyaya 15, Verse 20

भवद्बुद्धियुजा चैव पाण्डुना पृथिवीक्षिता

तथा दुर्योधनेनापि राज्ञा सुपरिपालिताः

Mahabharata

Ashramavasika Parva, Adhyaya 15, Verse 21

न स्वल्पमपि पुत्रस्ते व्यलीकं कृतवान्नृप

पितरीव सुविश्वस्तास्तस्मिन्नपि नराधिपे

वयमास्म यथा सम्यग्भवतो विदितं तथा

Mahabharata

Ashramavasika Parva, Adhyaya 15, Verse 22

तथा वर्षसहस्राय कुन्तीपुत्रेण धीमता

पाल्यमाना धृतिमता सुखं विन्दामहे नृप

Mahabharata

Ashramavasika Parva, Adhyaya 15, Verse 23

राजर्षीणां पुराणानां भवतां वंशधारिणाम्

कुरुसंवरणादीनां भरतस्य च धीमतः

Mahabharata

Ashramavasika Parva, Adhyaya 15, Verse 24

वृत्तं समनुयात्येष धर्मात्मा भूरिदक्षिणः

नात्र वाच्यं महाराज सुसूक्ष्ममपि विद्यते

Mahabharata

Ashramavasika Parva, Adhyaya 15, Verse 25

उषिताः स्म सुखं नित्यं भवता परिपालिताः

सुसूक्ष्मं च व्यलीकं ते सपुत्रस्य न विद्यते

Mahabharata

Ashramavasika Parva, Adhyaya 15, Verse 26

यत्तु ज्ञातिविमर्देऽस्मिन्नात्थ दुर्योधनं प्रति

भवन्तमनुनेष्यामि तत्रापि कुरुनन्दन