Ashramavasika Parva, Adhyaya 14, Verse 1
शंतनुः पालयामास यथावत्पृथिवीमिमाम्
तथा विचित्रवीर्यश्च भीष्मेण परिपालितः
पालयामास वस्तातो विदितं वो नसंशयः
Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.
शंतनुः पालयामास यथावत्पृथिवीमिमाम्
तथा विचित्रवीर्यश्च भीष्मेण परिपालितः
पालयामास वस्तातो विदितं वो नसंशयः
यथा च पाण्डुर्भ्राता मे दयितो भवतामभूत्
स चापि पालयामास यथावत्तच्च वेत्थ ह
मया च भवतां सम्यक्छुश्रूषा या कृतानघाः
असम्यग्वा महाभागास्तत्क्षन्तव्यमतन्द्रितैः
यच्च दुर्योधनेनेदं राज्यं भुक्तमकण्टकम्
अपि तत्र न वो मन्दो दुर्बुद्धिरपराद्धवान्
तस्यापराधाद्दुर्बुद्धेरभिमानान्महीक्षिताम्
विमर्दः सुमहानासीदनयान्मत्कृतादथ
तन्मया साधु वापीदं यदि वासाधु वै कृतम्
तद्वो हृदि न कर्तव्यं मामनुज्ञातुमर्हथ
वृद्धोऽयं हतपुत्रोऽयं दुःखितोऽयं जनाधिपः
पूर्वराज्ञां च पुत्रोऽयमिति कृत्वानुजानत
इयं च कृपणा वृद्धा हतपुत्रा तपस्विनी
गान्धारी पुत्रशोकार्ता तुल्यं याचति वो मया
हतपुत्राविमौ वृद्धौ विदित्वा दुःखितौ तथा
अनुजानीत भद्रं वो व्रजावः शरणं च वः
अयं च कौरवो राजा कुन्तीपुत्रो युधिष्ठिरः
सर्वैर्भवद्भिर्द्रष्टव्यः समेषु विषमेषु च
न जातु विषमं चैव गमिष्यति कदाचन
चत्वारः सचिवा यस्य भ्रातरो विपुलौजसः
लोकपालोपमा ह्येते सर्वे धर्मार्थदर्शिनः
ब्रह्मेव भगवानेष सर्वभूतजगत्पतिः
युधिष्ठिरो महातेजा भवतः पालयिष्यति
अवश्यमेव वक्तव्यमिति कृत्वा ब्रवीमि वः
एष न्यासो मया दत्तः सर्वेषां वो युधिष्ठिरः
भवन्तोऽस्य च वीरस्य न्यासभूता मया कृताः
यद्येव तैः कृतं किंचिद्व्यलीकं वा सुतैर्मम
यद्यन्येन मदीयेन तदनुज्ञातुमर्हथ
भवद्भिर्हि न मे मन्युः कृतपूर्वः कथंचन
अत्यन्तगुरुभक्तानामेषोऽञ्जलिरिदं नमः
तेषामस्थिरबुद्धीनां लुब्धानां कामचारिणाम्
कृते याचामि वः सर्वान्गान्धारीसहितोऽनघाः
इत्युक्तास्तेन ते राज्ञा पौरजानपदा जनाः
नोचुर्बाष्पकलाः किंचिद्वीक्षां चक्रुः परस्परम्