Mahabharata

Ashramavasika Parva, Adhyaya 14

Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashramavasika Parva, Adhyaya 14, Verse 1

शंतनुः पालयामास यथावत्पृथिवीमिमाम्

तथा विचित्रवीर्यश्च भीष्मेण परिपालितः

पालयामास वस्तातो विदितं वो नसंशयः

Mahabharata

Ashramavasika Parva, Adhyaya 14, Verse 2

यथा च पाण्डुर्भ्राता मे दयितो भवतामभूत्

स चापि पालयामास यथावत्तच्च वेत्थ ह

Mahabharata

Ashramavasika Parva, Adhyaya 14, Verse 3

मया च भवतां सम्यक्छुश्रूषा या कृतानघाः

असम्यग्वा महाभागास्तत्क्षन्तव्यमतन्द्रितैः

Mahabharata

Ashramavasika Parva, Adhyaya 14, Verse 4

यच्च दुर्योधनेनेदं राज्यं भुक्तमकण्टकम्

अपि तत्र न वो मन्दो दुर्बुद्धिरपराद्धवान्

Mahabharata

Ashramavasika Parva, Adhyaya 14, Verse 5

तस्यापराधाद्दुर्बुद्धेरभिमानान्महीक्षिताम्

विमर्दः सुमहानासीदनयान्मत्कृतादथ

Mahabharata

Ashramavasika Parva, Adhyaya 14, Verse 6

तन्मया साधु वापीदं यदि वासाधु वै कृतम्

तद्वो हृदि न कर्तव्यं मामनुज्ञातुमर्हथ

Mahabharata

Ashramavasika Parva, Adhyaya 14, Verse 7

वृद्धोऽयं हतपुत्रोऽयं दुःखितोऽयं जनाधिपः

पूर्वराज्ञां च पुत्रोऽयमिति कृत्वानुजानत

Mahabharata

Ashramavasika Parva, Adhyaya 14, Verse 8

इयं च कृपणा वृद्धा हतपुत्रा तपस्विनी

गान्धारी पुत्रशोकार्ता तुल्यं याचति वो मया

Mahabharata

Ashramavasika Parva, Adhyaya 14, Verse 9

हतपुत्राविमौ वृद्धौ विदित्वा दुःखितौ तथा

अनुजानीत भद्रं वो व्रजावः शरणं च वः

Mahabharata

Ashramavasika Parva, Adhyaya 14, Verse 10

अयं च कौरवो राजा कुन्तीपुत्रो युधिष्ठिरः

सर्वैर्भवद्भिर्द्रष्टव्यः समेषु विषमेषु च

न जातु विषमं चैव गमिष्यति कदाचन

Mahabharata

Ashramavasika Parva, Adhyaya 14, Verse 11

चत्वारः सचिवा यस्य भ्रातरो विपुलौजसः

लोकपालोपमा ह्येते सर्वे धर्मार्थदर्शिनः

Mahabharata

Ashramavasika Parva, Adhyaya 14, Verse 12

ब्रह्मेव भगवानेष सर्वभूतजगत्पतिः

युधिष्ठिरो महातेजा भवतः पालयिष्यति

Mahabharata

Ashramavasika Parva, Adhyaya 14, Verse 13

अवश्यमेव वक्तव्यमिति कृत्वा ब्रवीमि वः

एष न्यासो मया दत्तः सर्वेषां वो युधिष्ठिरः

भवन्तोऽस्य च वीरस्य न्यासभूता मया कृताः

Mahabharata

Ashramavasika Parva, Adhyaya 14, Verse 14

यद्येव तैः कृतं किंचिद्व्यलीकं वा सुतैर्मम

यद्यन्येन मदीयेन तदनुज्ञातुमर्हथ

Mahabharata

Ashramavasika Parva, Adhyaya 14, Verse 15

भवद्भिर्हि न मे मन्युः कृतपूर्वः कथंचन

अत्यन्तगुरुभक्तानामेषोऽञ्जलिरिदं नमः

Mahabharata

Ashramavasika Parva, Adhyaya 14, Verse 16

तेषामस्थिरबुद्धीनां लुब्धानां कामचारिणाम्

कृते याचामि वः सर्वान्गान्धारीसहितोऽनघाः

Mahabharata

Ashramavasika Parva, Adhyaya 14, Verse 17

इत्युक्तास्तेन ते राज्ञा पौरजानपदा जनाः

नोचुर्बाष्पकलाः किंचिद्वीक्षां चक्रुः परस्परम्