Mahabharata

Ashramavasika Parva, Adhyaya 13

Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashramavasika Parva, Adhyaya 13, Verse 1

एवमेतत्करिष्यामि यथात्थ पृथिवीपते

भूयश्चैवानुशास्योऽहं भवता पार्थिवर्षभ

Mahabharata

Ashramavasika Parva, Adhyaya 13, Verse 2

भीष्मे स्वर्गमनुप्राप्ते गते च मधुसूदने

विदुरे संजये चैव कोऽन्यो मां वक्तुमर्हति

Mahabharata

Ashramavasika Parva, Adhyaya 13, Verse 3

यत्तु मामनुशास्तीह भवानद्य हिते स्थितः

कर्तास्म्येतन्महीपाल निर्वृतो भव भारत

Mahabharata

Ashramavasika Parva, Adhyaya 13, Verse 4

एवमुक्तः स राजर्षिर्धर्मराजेन धीमता

कौन्तेयं समनुज्ञातुमियेष भरतर्षभ

Mahabharata

Ashramavasika Parva, Adhyaya 13, Verse 5

पुत्र विश्रम्यतां तावन्ममापि बलवाञ्श्रमः

इत्युक्त्वा प्राविशद्राजा गान्धार्या भवनं तदा

Mahabharata

Ashramavasika Parva, Adhyaya 13, Verse 6

तमासनगतं देवी गान्धारी धर्मचारिणी

उवाच काले कालज्ञा प्रजापतिसमं पतिम्

Mahabharata

Ashramavasika Parva, Adhyaya 13, Verse 7

अनुज्ञातः स्वयं तेन व्यासेनापि महर्षिणा

युधिष्ठिरस्यानुमते कदारण्यं गमिष्यसि

Mahabharata

Ashramavasika Parva, Adhyaya 13, Verse 8

गान्धार्यहमनुज्ञातः स्वयं पित्रा महात्मना

युधिष्ठिरस्यानुमते गन्तास्मि नचिराद्वनम्

Mahabharata

Ashramavasika Parva, Adhyaya 13, Verse 9

अहं हि नाम सर्वेषां तेषां दुर्द्यूतदेविनाम्

पुत्राणां दातुमिच्छामि प्रेत्यभावानुगं वसु

सर्वप्रकृतिसांनिध्यं कारयित्वा स्ववेश्मनि

Mahabharata

Ashramavasika Parva, Adhyaya 13, Verse 10

इत्युक्त्वा धर्मराजाय प्रेषयामास पार्थिवः

स च तद्वचनात्सर्वं समानिन्ये महीपतिः

Mahabharata

Ashramavasika Parva, Adhyaya 13, Verse 11

ततो निष्क्रम्य नृपतिस्तस्मादन्तःपुरात्तदा

सर्वं सुहृज्जनं चैव सर्वाश्च प्रकृतीस्तथा

समवेतांश्च तान्सर्वान्पौरजानपदानथ

Mahabharata

Ashramavasika Parva, Adhyaya 13, Verse 12

ब्राह्मणांश्च महीपालान्नानादेशसमागतान्

ततः प्राह महातेजा धृतराष्ट्रो महीपतिः

Mahabharata

Ashramavasika Parva, Adhyaya 13, Verse 13

शृण्वन्त्येकाग्रमनसो ब्राह्मणाः कुरुजाङ्गलाः

क्षत्रियाश्चैव वैश्याश्च शूद्राश्चैव समागताः

Mahabharata

Ashramavasika Parva, Adhyaya 13, Verse 14

भवन्तः कुरवश्चैव बहुकालं सहोषिताः

परस्परस्य सुहृदः परस्परहिते रताः

Mahabharata

Ashramavasika Parva, Adhyaya 13, Verse 15

यदिदानीमहं ब्रूयामस्मिन्काल उपस्थिते

तथा भवद्भिः कर्तव्यमविचार्य वचो मम

Mahabharata

Ashramavasika Parva, Adhyaya 13, Verse 16

अरण्यगमने बुद्धिर्गान्धारीसहितस्य मे

व्यासस्यानुमते राज्ञस्तथा कुन्तीसुतस्य च

भवन्तोऽप्यनुजानन्तु मा वोऽन्या भूद्विचारणा

Mahabharata

Ashramavasika Parva, Adhyaya 13, Verse 17

अस्माकं भवतां चैव येयं प्रीतिर्हि शाश्वती

न चान्येष्वस्ति देशेषु राज्ञामिति मतिर्मम

Mahabharata

Ashramavasika Parva, Adhyaya 13, Verse 18

श्रान्तोऽस्मि वयसानेन तथा पुत्रविनाकृतः

उपवासकृशश्चास्मि गान्धारीसहितोऽनघाः

Mahabharata

Ashramavasika Parva, Adhyaya 13, Verse 19

युधिष्ठिरगते राज्ये प्राप्तश्चास्मि सुखं महत्

मन्ये दुर्योधनैश्वर्याद्विशिष्टमिति सत्तमाः

Mahabharata

Ashramavasika Parva, Adhyaya 13, Verse 20

मम त्वन्धस्य वृद्धस्य हतपुत्रस्य का गतिः

ऋते वनं महाभागास्तन्मानुज्ञातुमर्हथ

Mahabharata

Ashramavasika Parva, Adhyaya 13, Verse 21

तस्य तद्वचनं श्रुत्वा सर्वे ते कुरुजाङ्गलाः

बाष्पसंदिग्धया वाचा रुरुदुर्भरतर्षभ

Mahabharata

Ashramavasika Parva, Adhyaya 13, Verse 22

तानविब्रुवतः किंचिद्दुःखशोकपरायणान्

पुनरेव महातेजा धृतराष्ट्रोऽब्रवीदिदम्