Ashramavasika Parva, Adhyaya 12, Verse 1
संधिविग्रहमप्यत्र पश्येथा राजसत्तम
द्वियोनिं त्रिविधोपायं बहुकल्पं युधिष्ठिर
Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.
संधिविग्रहमप्यत्र पश्येथा राजसत्तम
द्वियोनिं त्रिविधोपायं बहुकल्पं युधिष्ठिर
राजेन्द्र पर्युपासीथाश्छित्त्वा द्वैविध्यमात्मनः
तुष्टपुष्टबलः शत्रुरात्मवानिति च स्मरेत्
पर्युपासनकाले तु विपरीतं विधीयते
आमर्दकाले राजेन्द्र व्यपसर्पस्ततो वरः
व्यसनं भेदनं चैव शत्रूणां कारयेत्ततः
कर्शनं भीषणं चैव युद्धे चापि बहुक्षयम्
प्रयास्यमानो नृपतिस्त्रिविधं परिचिन्तयेत्
आत्मनश्चैव शत्रोश्च शक्तिं शास्त्रविशारदः
उत्साहप्रभुशक्तिभ्यां मन्त्रशक्त्या च भारत
उपपन्नो नरो यायाद्विपरीतमतोऽन्यथा
आददीत बलं राजा मौलं मित्रबलं तथा
अटवीबलं भृतं चैव तथा श्रेणीबलं च यत्
तत्र मित्रबलं राजन्मौलेन न विशिष्यते
श्रेणीबलं भृतं चैव तुल्य एवेति मे मतिः
तथा चारबलं चैव परस्परसमं नृप
विज्ञेयं बलकालेषु राज्ञा काल उपस्थिते
आपदश्चापि बोद्धव्या बहुरूपा नराधिप
भवन्ति राज्ञां कौरव्य यास्ताः पृथगतः शृणु
विकल्पा बहवो राजन्नापदां पाण्डुनन्दन
सामादिभिरुपन्यस्य शमयेत्तान्नृपः सदा
यात्रां यायाद्बलैर्युक्तो राजा षड्भिः परंतप
संयुक्तो देशकालाभ्यां बलैरात्मगुणैस्तथा
तुष्टपुष्टबलो यायाद्राजा वृद्ध्युदये रतः
आहूतश्चाप्यथो यायादनृतावपि पार्थिवः
स्थूणाश्मानं वाजिरथप्रधानां; ध्वजद्रुमैः संवृतकूलरोधसम्
पदातिनागैर्बहुकर्दमां नदीं; सपत्ननाशे नृपतिः प्रयायात्
अथोपपत्त्या शकटं पद्मं वज्रं च भारत
उशना वेद यच्छास्त्रं तत्रैतद्विहितं विभो
सादयित्वा परबलं कृत्वा च बलहर्षणम्
स्वभूमौ योजयेद्युद्धं परभूमौ तथैव च
लब्धं प्रशमयेद्राजा निक्षिपेद्धनिनो नरान्
ज्ञात्वा स्वविषयं तं च सामादिभिरुपक्रमेत्
सर्वथैव महाराज शरीरं धारयेदिह
प्रेत्येह चैव कर्तव्यमात्मनिःश्रेयसं परम्
एवं कुर्वञ्शुभा वाचो लोकेऽस्मिञ्शृणुते नृपः
प्रेत्य स्वर्गं तथाप्नोति प्रजा धर्मेण पालयन्
एवं त्वया कुरुश्रेष्ठ वर्तितव्यं प्रजाहितम्
उभयोर्लोकयोस्तात प्राप्तये नित्यमेव च
भीष्मेण पूर्वमुक्तोऽसि कृष्णेन विदुरेण च
मयाप्यवश्यं वक्तव्यं प्रीत्या ते नृपसत्तम
एतत्सर्वं यथान्यायं कुर्वीथा भूरिदक्षिण
प्रियस्तथा प्रजानां त्वं स्वर्गे सुखमवाप्स्यसि
अश्वमेधसहस्रेण यो यजेत्पृथिवीपतिः
पालयेद्वापि धर्मेण प्रजास्तुल्यं फलं लभेत्