Ashramavasika Parva, Adhyaya 11, Verse 1
मण्डलानि च बुध्येथाः परेषामात्मनस्तथा
उदासीनगुणानां च मध्यमानां तथैव च
Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.
मण्डलानि च बुध्येथाः परेषामात्मनस्तथा
उदासीनगुणानां च मध्यमानां तथैव च
चतुर्णां शत्रुजातानां सर्वेषामाततायिनाम्
मित्रं चामित्रमित्रं च बोद्धव्यं तेऽरिकर्शन
तथामात्या जनपदा दुर्गाणि विषमाणि च
बलानि च कुरुश्रेष्ठ भवन्त्येषां यथेच्छकम्
ते च द्वादश कौन्तेय राज्ञां वै विविधात्मकाः
मन्त्रिप्रधानाश्च गुणाः षष्टिर्द्वादश च प्रभो
एतन्मण्डलमित्याहुराचार्या नीतिकोविदाः
अत्र षाड्गुण्यमायत्तं युधिष्ठिर निबोध तत्
वृद्धिक्षयौ च विज्ञेयौ स्थानं च कुरुनन्दन
द्विसप्तत्या महाबाहो ततः षाड्गुण्यचारिणः
यदा स्वपक्षो बलवान्परपक्षस्तथाबलः
विगृह्य शत्रून्कौन्तेय यायात्क्षितिपतिस्तदा
यदा स्वपक्षोऽबलवांस्तदा संधिं समाश्रयेत्
द्रव्याणां संचयश्चैव कर्तव्यः स्यान्महांस्तथा
यदा समर्थो यानाय नचिरेणैव भारत
तदा सर्वं विधेयं स्यात्स्थानं च न विभाजयेत्
भूमिरल्पफला देया विपरीतस्य भारत
हिरण्यं कुप्यभूयिष्ठं मित्रं क्षीणमकोशवत्
विपरीतान्न गृह्णीयात्स्वयं संधिविशारदः
संध्यर्थं राजपुत्रं च लिप्सेथा भरतर्षभ
विपरीतस्तु तेऽदेयः पुत्र कस्यांचिदापदि
तस्य प्रमोक्षे यत्नं च कुर्याः सोपायमन्त्रवित्
प्रकृतीनां च कौन्तेय राजा दीनां विभावयेत्
क्रमेण युगपद्द्वंद्वं व्यसनानां बलाबलम्
पीडनं स्तम्भनं चैव कोशभङ्गस्तथैव च
कार्यं यत्नेन शत्रूणां स्वराष्ट्रं रक्षता स्वयम्
न च हिंस्योऽभ्युपगतः सामन्तो वृद्धिमिच्छता
कौन्तेय तं न हिंसेत यो महीं विजिगीषते
गणानां भेदने योगं गच्छेथाः सह मन्त्रिभिः
साधुसंग्रहणाच्चैव पापनिग्रहणात्तथा
दुर्बलाश्चापि सततं नावष्टभ्या बलीयसा
तिष्ठेथा राजशार्दूल वैतसीं वृत्तिमास्थितः
यद्येवमभियायाच्च दुर्बलं बलवान्नृपः
सामादिभिरुपायैस्तं क्रमेण विनिवर्तयेत्
अशक्नुवंस्तु युद्धाय निष्पतेत्सह मन्त्रिभिः
कोशेन पौरैर्दण्डेन ये चान्ये प्रियकारिणः
असंभवे तु सर्वस्य यथामुख्येन निष्पतेत्
क्रमेणानेन मोक्षः स्याच्छरीरमपि केवलम्