Ashramavasika Parva, Adhyaya 10, Verse 1
व्यवहाराश्च ते तात नित्यमाप्तैरधिष्ठिताः
योज्यास्तुष्टैर्हितै राजन्नित्यं चारैरनुष्ठिताः
Containing 16 sacred Sanskrit shlokas with multi-author commentaries and translations.
व्यवहाराश्च ते तात नित्यमाप्तैरधिष्ठिताः
योज्यास्तुष्टैर्हितै राजन्नित्यं चारैरनुष्ठिताः
परिमाणं विदित्वा च दण्डं दण्ड्येषु भारत
प्रणयेयुर्यथान्यायं पुरुषास्ते युधिष्ठिर
आदानरुचयश्चैव परदाराभिमर्शकाः
उग्रदण्डप्रधानाश्च मिथ्या व्याहारिणस्तथा
आक्रोष्टारश्च लुब्धाश्च हन्तारः साहसप्रियाः
सभाविहारभेत्तारो वर्णानां च प्रदूषकाः
हिरण्यदण्ड्या वध्याश्च कर्तव्या देशकालतः
प्रातरेव हि पश्येथा ये कुर्युर्व्ययकर्म ते
अलंकारमथो भोज्यमत ऊर्ध्वं समाचरेः
पश्येथाश्च ततो योधान्सदा त्वं परिहर्षयन्
दूतानां च चराणां च प्रदोषस्ते सदा भवेत्
सदा चापररात्रं ते भवेत्कार्यार्थनिर्णये
मध्यरात्रे विहारस्ते मध्याह्ने च सदा भवेत्
सर्वे त्वात्ययिकाः कालाः कार्याणां भरतर्षभ
तथैवालंकृतः काले तिष्ठेथा भूरिदक्षिणः
चक्रवत्कर्मणां तात पर्यायो ह्येष नित्यशः
कोशस्य संचये यत्नं कुर्वीथा न्यायतः सदा
द्विविधस्य महाराज विपरीतं विवर्जयेः
चारैर्विदित्वा शत्रूंश्च ये ते राज्यान्तरायिणः
तानाप्तैः पुरुषैर्दूराद्घातयेथाः परस्परम्
कर्मदृष्ट्याथ भृत्यांस्त्वं वरयेथाः कुरूद्वह
कारयेथाश्च कर्माणि युक्तायुक्तैरधिष्ठितैः
सेनाप्रणेता च भवेत्तव तात दृढव्रतः
शूरः क्लेशसहश्चैव प्रियश्च तव मानवः
सर्वे जानपदाश्चैव तव कर्माणि पाण्डव
पौरोगवाश्च सभ्याश्च कुर्युर्ये व्यवहारिणः
स्वरन्ध्रं पररन्ध्रं च स्वेषु चैव परेषु च
उपलक्षयितव्यं ते नित्यमेव युधिष्ठिर
देशान्तरस्थाश्च नरा विक्रान्ताः सर्वकर्मसु
मात्राभिरनुरूपाभिरनुग्राह्या हितास्त्वया
गुणार्थिनां गुणः कार्यो विदुषां ते जनाधिप
अविचाल्याश्च ते ते स्युर्यथा मेरुर्महागिरिः