Mahabharata

Ashramavasika Parva, Adhyaya 10

Containing 16 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashramavasika Parva, Adhyaya 10, Verse 1

व्यवहाराश्च ते तात नित्यमाप्तैरधिष्ठिताः

योज्यास्तुष्टैर्हितै राजन्नित्यं चारैरनुष्ठिताः

Mahabharata

Ashramavasika Parva, Adhyaya 10, Verse 2

परिमाणं विदित्वा च दण्डं दण्ड्येषु भारत

प्रणयेयुर्यथान्यायं पुरुषास्ते युधिष्ठिर

Mahabharata

Ashramavasika Parva, Adhyaya 10, Verse 3

आदानरुचयश्चैव परदाराभिमर्शकाः

उग्रदण्डप्रधानाश्च मिथ्या व्याहारिणस्तथा

Mahabharata

Ashramavasika Parva, Adhyaya 10, Verse 4

आक्रोष्टारश्च लुब्धाश्च हन्तारः साहसप्रियाः

सभाविहारभेत्तारो वर्णानां च प्रदूषकाः

हिरण्यदण्ड्या वध्याश्च कर्तव्या देशकालतः

Mahabharata

Ashramavasika Parva, Adhyaya 10, Verse 5

प्रातरेव हि पश्येथा ये कुर्युर्व्ययकर्म ते

अलंकारमथो भोज्यमत ऊर्ध्वं समाचरेः

Mahabharata

Ashramavasika Parva, Adhyaya 10, Verse 6

पश्येथाश्च ततो योधान्सदा त्वं परिहर्षयन्

दूतानां च चराणां च प्रदोषस्ते सदा भवेत्

Mahabharata

Ashramavasika Parva, Adhyaya 10, Verse 7

सदा चापररात्रं ते भवेत्कार्यार्थनिर्णये

मध्यरात्रे विहारस्ते मध्याह्ने च सदा भवेत्

Mahabharata

Ashramavasika Parva, Adhyaya 10, Verse 8

सर्वे त्वात्ययिकाः कालाः कार्याणां भरतर्षभ

तथैवालंकृतः काले तिष्ठेथा भूरिदक्षिणः

चक्रवत्कर्मणां तात पर्यायो ह्येष नित्यशः

Mahabharata

Ashramavasika Parva, Adhyaya 10, Verse 9

कोशस्य संचये यत्नं कुर्वीथा न्यायतः सदा

द्विविधस्य महाराज विपरीतं विवर्जयेः

Mahabharata

Ashramavasika Parva, Adhyaya 10, Verse 10

चारैर्विदित्वा शत्रूंश्च ये ते राज्यान्तरायिणः

तानाप्तैः पुरुषैर्दूराद्घातयेथाः परस्परम्

Mahabharata

Ashramavasika Parva, Adhyaya 10, Verse 11

कर्मदृष्ट्याथ भृत्यांस्त्वं वरयेथाः कुरूद्वह

कारयेथाश्च कर्माणि युक्तायुक्तैरधिष्ठितैः

Mahabharata

Ashramavasika Parva, Adhyaya 10, Verse 12

सेनाप्रणेता च भवेत्तव तात दृढव्रतः

शूरः क्लेशसहश्चैव प्रियश्च तव मानवः

Mahabharata

Ashramavasika Parva, Adhyaya 10, Verse 13

सर्वे जानपदाश्चैव तव कर्माणि पाण्डव

पौरोगवाश्च सभ्याश्च कुर्युर्ये व्यवहारिणः

Mahabharata

Ashramavasika Parva, Adhyaya 10, Verse 14

स्वरन्ध्रं पररन्ध्रं च स्वेषु चैव परेषु च

उपलक्षयितव्यं ते नित्यमेव युधिष्ठिर

Mahabharata

Ashramavasika Parva, Adhyaya 10, Verse 15

देशान्तरस्थाश्च नरा विक्रान्ताः सर्वकर्मसु

मात्राभिरनुरूपाभिरनुग्राह्या हितास्त्वया

Mahabharata

Ashramavasika Parva, Adhyaya 10, Verse 16

गुणार्थिनां गुणः कार्यो विदुषां ते जनाधिप

अविचाल्याश्च ते ते स्युर्यथा मेरुर्महागिरिः