Mahabharata

Ashramavasika Parva, Adhyaya 9

Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashramavasika Parva, Adhyaya 9, Verse 1

ततो राज्ञाभ्यनुज्ञातो धृतराष्ट्रः प्रतापवान्

ययौ स्वभवनं राजा गान्धार्यानुगतस्तदा

Mahabharata

Ashramavasika Parva, Adhyaya 9, Verse 2

मन्दप्राणगतिर्धीमान्कृच्छ्रादिव समुद्धरन्

पदातिः स महीपालो जीर्णो गजपतिर्यथा

Mahabharata

Ashramavasika Parva, Adhyaya 9, Verse 3

तमन्वगच्छद्विदुरो विद्वान्सूतश्च संजयः

स चापि परमेष्वासः कृपः शारद्वतस्तथा

Mahabharata

Ashramavasika Parva, Adhyaya 9, Verse 4

स प्रविश्य गृहं राजा कृतपूर्वाह्णिकक्रियः

तर्पयित्वा द्विजश्रेष्ठानाहारमकरोत्तदा

Mahabharata

Ashramavasika Parva, Adhyaya 9, Verse 5

गान्धारी चैव धर्मज्ञा कुन्त्या सह मनस्विनी

वधूभिरुपचारेण पूजिताभुङ्क्त भारत

Mahabharata

Ashramavasika Parva, Adhyaya 9, Verse 6

कृताहारं कृताहाराः सर्वे ते विदुरादयः

पाण्डवाश्च कुरुश्रेष्ठमुपातिष्ठन्त तं नृपम्

Mahabharata

Ashramavasika Parva, Adhyaya 9, Verse 7

ततोऽब्रवीन्महाराज कुन्तीपुत्रमुपह्वरे

निषण्णं पाणिना पृष्ठे संस्पृशन्नम्बिकासुतः

Mahabharata

Ashramavasika Parva, Adhyaya 9, Verse 8

अप्रमादस्त्वया कार्यः सर्वथा कुरुनन्दन

अष्टाङ्गे राजशार्दूल राज्ये धर्मपुरस्कृते

Mahabharata

Ashramavasika Parva, Adhyaya 9, Verse 9

तत्तु शक्यं यथा तात रक्षितुं पाण्डुनन्दन

राज्यं धर्मं च कौन्तेय विद्वानसि निबोध तत्

Mahabharata

Ashramavasika Parva, Adhyaya 9, Verse 10

विद्यावृद्धान्सदैव त्वमुपासीथा युधिष्ठिर

शृणुयास्ते च यद्ब्रूयुः कुर्याश्चैवाविचारयन्

Mahabharata

Ashramavasika Parva, Adhyaya 9, Verse 11

प्रातरुत्थाय तान्राजन्पूजयित्वा यथाविधि

कृत्यकाले समुत्पन्ने पृच्छेथाः कार्यमात्मनः

Mahabharata

Ashramavasika Parva, Adhyaya 9, Verse 12

ते तु संमानिता राजंस्त्वया राज्यहितार्थिना

प्रवक्ष्यन्ति हितं तात सर्वं कौरवनन्दन

Mahabharata

Ashramavasika Parva, Adhyaya 9, Verse 13

इन्द्रियाणि च सर्वाणि वाजिवत्परिपालय

हिताय वै भविष्यन्ति रक्षितं द्रविणं यथा

Mahabharata

Ashramavasika Parva, Adhyaya 9, Verse 14

अमात्यानुपधातीतान्पितृपैतामहाञ्शुचीन्

दान्तान्कर्मसु सर्वेषु मुख्यान्मुख्येषु योजयेः

Mahabharata

Ashramavasika Parva, Adhyaya 9, Verse 15

चारयेथाश्च सततं चारैरविदितैः परान्

परीक्षितैर्बहुविधं स्वराष्ट्रेषु परेषु च

Mahabharata

Ashramavasika Parva, Adhyaya 9, Verse 16

पुरं च ते सुगुप्तं स्याद्दृढप्राकारतोरणम्

अट्टाट्टालकसंबाधं षट्पथं सर्वतोदिशम्

Mahabharata

Ashramavasika Parva, Adhyaya 9, Verse 17

तस्य द्वाराणि कार्याणि पर्याप्तानि बृहन्ति च

सर्वतः सुविभक्तानि यन्त्रैरारक्षितानि च

Mahabharata

Ashramavasika Parva, Adhyaya 9, Verse 18

पुरुषैरलमर्थज्ञैर्विदितैः कुलशीलतः

आत्मा च रक्ष्यः सततं भोजनादिषु भारत

Mahabharata

Ashramavasika Parva, Adhyaya 9, Verse 19

विहाराहारकालेषु माल्यशय्यासनेषु च

स्त्रियश्च ते सुगुप्ताः स्युर्वृद्धैराप्तैरधिष्ठिताः

शीलवद्भिः कुलीनैश्च विद्वद्भिश्च युधिष्ठिर

Mahabharata

Ashramavasika Parva, Adhyaya 9, Verse 20

मन्त्रिणश्चैव कुर्वीथा द्विजान्विद्याविशारदान्

विनीतांश्च कुलीनांश्च धर्मार्थकुशलानृजून्

Mahabharata

Ashramavasika Parva, Adhyaya 9, Verse 21

तैः सार्धं मन्त्रयेथास्त्वं नात्यर्थं बहुभिः सह

समस्तैरपि च व्यस्तैर्व्यपदेशेन केनचित्

Mahabharata

Ashramavasika Parva, Adhyaya 9, Verse 22

सुसंवृतं मन्त्रगृहं स्थलं चारुह्य मन्त्रयेः

अरण्ये निःशलाके वा न च रात्रौ कथंचन

Mahabharata

Ashramavasika Parva, Adhyaya 9, Verse 23

वानराः पक्षिणश्चैव ये मनुष्यानुकारिणः

सर्वे मन्त्रगृहे वर्ज्या ये चापि जडपङ्गुकाः

Mahabharata

Ashramavasika Parva, Adhyaya 9, Verse 24

मन्त्रभेदे हि ये दोषा भवन्ति पृथिवीक्षिताम्

न ते शक्याः समाधातुं कथंचिदिति मे मतिः

Mahabharata

Ashramavasika Parva, Adhyaya 9, Verse 25

दोषांश्च मन्त्रभेदेषु ब्रूयास्त्वं मन्त्रिमण्डले

अभेदे च गुणान्राजन्पुनः पुनररिंदम

Mahabharata

Ashramavasika Parva, Adhyaya 9, Verse 26

पौरजानपदानां च शौचाशौचं युधिष्ठिर

यथा स्याद्विदितं राजंस्तथा कार्यमरिंदम