Mahabharata

Ashramavasika Parva, Adhyaya 8

Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashramavasika Parva, Adhyaya 8, Verse 1

युधिष्ठिर महाबाहो यदाह कुरुनन्दनः

धृतराष्ट्रो महात्मा त्वां तत्कुरुष्वाविचारयन्

Mahabharata

Ashramavasika Parva, Adhyaya 8, Verse 2

अयं हि वृद्धो नृपतिर्हतपुत्रो विशेषतः

नेदं कृच्छ्रं चिरतरं सहेदिति मतिर्मम

Mahabharata

Ashramavasika Parva, Adhyaya 8, Verse 3

गान्धारी च महाभागा प्राज्ञा करुणवेदिनी

पुत्रशोकं महाराज धैर्येणोद्वहते भृशम्

Mahabharata

Ashramavasika Parva, Adhyaya 8, Verse 4

अहमप्येतदेव त्वां ब्रवीमि कुरु मे वचः

अनुज्ञां लभतां राजा मा वृथेह मरिष्यति

Mahabharata

Ashramavasika Parva, Adhyaya 8, Verse 5

राजर्षीणां पुराणानामनुयातु गतिं नृपः

राजर्षीणां हि सर्वेषामन्ते वनमुपाश्रयः

Mahabharata

Ashramavasika Parva, Adhyaya 8, Verse 6

इत्युक्तः स तदा राजा व्यासेनाद्भुतकर्मणा

प्रत्युवाच महातेजा धर्मराजो युधिष्ठिरः

Mahabharata

Ashramavasika Parva, Adhyaya 8, Verse 7

भगवानेव नो मान्यो भगवानेव नो गुरुः

भगवानस्य राज्यस्य कुलस्य च परायणम्

Mahabharata

Ashramavasika Parva, Adhyaya 8, Verse 8

अहं तु पुत्रो भगवान्पिता राजा गुरुश्च मे

निदेशवर्ती च पितुः पुत्रो भवति धर्मतः

Mahabharata

Ashramavasika Parva, Adhyaya 8, Verse 9

इत्युक्तः स तु तं प्राह व्यासो धर्मभृतां वरः

युधिष्ठिरं महातेजाः पुनरेव विशां पते

Mahabharata

Ashramavasika Parva, Adhyaya 8, Verse 10

एवमेतन्महाबाहो यथा वदसि भारत

राजायं वृद्धतां प्राप्तः प्रमाणे परमे स्थितः

Mahabharata

Ashramavasika Parva, Adhyaya 8, Verse 11

सोऽयं मयाभ्यनुज्ञातस्त्वया च पृथिवीपते

करोतु स्वमभिप्रायं मास्य विघ्नकरो भव

Mahabharata

Ashramavasika Parva, Adhyaya 8, Verse 12

एष एव परो धर्मो राजर्षीणां युधिष्ठिर

समरे वा भवेन्मृत्युर्वने वा विधिपूर्वकम्

Mahabharata

Ashramavasika Parva, Adhyaya 8, Verse 13

पित्रा तु तव राजेन्द्र पाण्डुना पृथिवीक्षिता

शिष्यभूतेन राजायं गुरुवत्पर्युपासितः

Mahabharata

Ashramavasika Parva, Adhyaya 8, Verse 14

क्रतुभिर्दक्षिणावद्भिरन्नपर्वतशोभितैः

महद्भिरिष्टं भोगाश्च भुक्ताः पुत्राश्च पालिताः

Mahabharata

Ashramavasika Parva, Adhyaya 8, Verse 15

पुत्रसंस्थं च विपुलं राज्यं विप्रोषिते त्वयि

त्रयोदशसमा भुक्तं दत्तं च विविधं वसु

Mahabharata

Ashramavasika Parva, Adhyaya 8, Verse 16

त्वया चायं नरव्याघ्र गुरुशुश्रूषया नृपः

आराधितः सभृत्येन गान्धारी च यशस्विनी

Mahabharata

Ashramavasika Parva, Adhyaya 8, Verse 17

अनुजानीहि पितरं समयोऽस्य तपोविधौ

न मन्युर्विद्यते चास्य सुसूक्ष्मोऽपि युधिष्ठिर

Mahabharata

Ashramavasika Parva, Adhyaya 8, Verse 18

एतावदुक्त्वा वचनमनुज्ञाप्य च पार्थिवम्

तथास्त्विति च तेनोक्तः कौन्तेयेन ययौ वनम्

Mahabharata

Ashramavasika Parva, Adhyaya 8, Verse 19

गते भगवति व्यासे राजा पाण्डुसुतस्ततः

प्रोवाच पितरं वृद्धं मन्दं मन्दमिवानतः

Mahabharata

Ashramavasika Parva, Adhyaya 8, Verse 20

यदाह भगवान्व्यासो यच्चापि भवतो मतम्

यदाह च महेष्वासः कृपो विदुर एव च

Mahabharata

Ashramavasika Parva, Adhyaya 8, Verse 21

युयुत्सुः संजयश्चैव तत्कर्तास्म्यहमञ्जसा

सर्वे ह्येतेऽनुमान्या मे कुलस्यास्य हितैषिणः

Mahabharata

Ashramavasika Parva, Adhyaya 8, Verse 22

इदं तु याचे नृपते त्वामहं शिरसा नतः

क्रियतां तावदाहारस्ततो गच्छाश्रमं प्रति