Mahabharata

Ashramavasika Parva, Adhyaya 7

Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashramavasika Parva, Adhyaya 7, Verse 1

स्पृश मां पाणिना भूयः परिष्वज च पाण्डव

जीवामीव हि संस्पर्शात्तव राजीवलोचन

Mahabharata

Ashramavasika Parva, Adhyaya 7, Verse 2

मूर्धानं च तवाघ्रातुमिच्छामि मनुजाधिप

पाणिभ्यां च परिस्प्रष्टुं प्राणा हि न जहुर्मम

Mahabharata

Ashramavasika Parva, Adhyaya 7, Verse 3

अष्टमो ह्यद्य कालोऽयमाहारस्य कृतस्य मे

येनाहं कुरुशार्दूल न शक्नोमि विचेष्टितुम्

Mahabharata

Ashramavasika Parva, Adhyaya 7, Verse 4

व्यायामश्चायमत्यर्थं कृतस्त्वामभियाचता

ततो ग्लानमनास्तात नष्टसंज्ञ इवाभवम्

Mahabharata

Ashramavasika Parva, Adhyaya 7, Verse 5

तवामृतसमस्पर्शं हस्तस्पर्शमिमं विभो

लब्ध्वा संजीवितोऽस्मीति मन्ये कुरुकुलोद्वह

Mahabharata

Ashramavasika Parva, Adhyaya 7, Verse 6

एवमुक्तस्तु कौन्तेयः पित्रा ज्येष्ठेन भारत

पस्पर्श सर्वगात्रेषु सौहार्दात्तं शनैस्तदा

Mahabharata

Ashramavasika Parva, Adhyaya 7, Verse 7

उपलभ्य ततः प्राणान्धृतराष्ट्रो महीपतिः

बाहुभ्यां संपरिष्वज्य मूर्ध्न्याजिघ्रत पाण्डवम्

Mahabharata

Ashramavasika Parva, Adhyaya 7, Verse 8

विदुरादयश्च ते सर्वे रुरुदुर्दुःखिता भृशम्

अतिदुःखाच्च राजानं नोचुः किंचन पाण्डवाः

Mahabharata

Ashramavasika Parva, Adhyaya 7, Verse 9

गान्धारी त्वेव धर्मज्ञा मनसोद्वहती भृशम्

दुःखान्यवारयद्राजन्मैवमित्येव चाब्रवीत्

Mahabharata

Ashramavasika Parva, Adhyaya 7, Verse 10

इतरास्तु स्त्रियः सर्वाः कुन्त्या सह सुदुःखिताः

नेत्रैरागतविक्लेदैः परिवार्य स्थिताभवन्

Mahabharata

Ashramavasika Parva, Adhyaya 7, Verse 11

अथाब्रवीत्पुनर्वाक्यं धृतराष्ट्रो युधिष्ठिरम्

अनुजानीहि मां राजंस्तापस्ये भरतर्षभ

Mahabharata

Ashramavasika Parva, Adhyaya 7, Verse 12

ग्लायते मे मनस्तात भूयो भूयः प्रजल्पतः

न मामतः परं पुत्र परिक्लेष्टुमिहार्हसि

Mahabharata

Ashramavasika Parva, Adhyaya 7, Verse 13

तस्मिंस्तु कौरवेन्द्रे तं तथा ब्रुवति पाण्डवम्

सर्वेषामवरोधानामार्तनादो महानभूत्

Mahabharata

Ashramavasika Parva, Adhyaya 7, Verse 14

दृष्ट्वा कृशं विवर्णं च राजानमतथोचितम्

उपवासपरिश्रान्तं त्वगस्थिपरिवारितम्

Mahabharata

Ashramavasika Parva, Adhyaya 7, Verse 15

धर्मपुत्रः स पितरं परिष्वज्य महाभुजः

शोकजं बाष्पमुत्सृज्य पुनर्वचनमब्रवीत्

Mahabharata

Ashramavasika Parva, Adhyaya 7, Verse 16

न कामये नरश्रेष्ठ जीवितं पृथिवीं तथा

यथा तव प्रियं राजंश्चिकीर्षामि परंतप

Mahabharata

Ashramavasika Parva, Adhyaya 7, Verse 17

यदि त्वहमनुग्राह्यो भवतो दयितोऽपि वा

क्रियतां तावदाहारस्ततो वेत्स्यामहे वयम्

Mahabharata

Ashramavasika Parva, Adhyaya 7, Verse 18

ततोऽब्रवीन्महातेजा धर्मपुत्रं स पार्थिवः

अनुज्ञातस्त्वया पुत्र भुञ्जीयामिति कामये

Mahabharata

Ashramavasika Parva, Adhyaya 7, Verse 19

इति ब्रुवति राजेन्द्रे धृतराष्ट्रे युधिष्ठिरम्

ऋषिः सत्यवतीपुत्रो व्यासोऽभ्येत्य वचोऽब्रवीत्