Mahabharata

Ashramavasika Parva, Adhyaya 6

Containing 28 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashramavasika Parva, Adhyaya 6, Verse 1

न मां प्रीणयते राज्यं त्वय्येवं दुःखिते नृप

धिङ्मामस्तु सुदुर्बुद्धिं राज्यसक्तं प्रमादिनम्

Mahabharata

Ashramavasika Parva, Adhyaya 6, Verse 2

योऽहं भवन्तं दुःखार्तमुपवासकृशं नृप

यताहारं क्षितिशयं नाविन्दं भ्रातृभिः सह

Mahabharata

Ashramavasika Parva, Adhyaya 6, Verse 3

अहोऽस्मि वञ्चितो मूढो भवता गूढबुद्धिना

विश्वासयित्वा पूर्वं मां यदिदं दुःखमश्नुथाः

Mahabharata

Ashramavasika Parva, Adhyaya 6, Verse 4

किं मे राज्येन भोगैर्वा किं यज्ञैः किं सुखेन वा

यस्य मे त्वं महीपाल दुःखान्येतान्यवाप्तवान्

Mahabharata

Ashramavasika Parva, Adhyaya 6, Verse 5

पीडितं चापि जानामि राज्यमात्मानमेव च

अनेन वचसा तुभ्यं दुःखितस्य जनेश्वर

Mahabharata

Ashramavasika Parva, Adhyaya 6, Verse 6

भवान्पिता भवान्माता भवान्नः परमो गुरुः

भवता विप्रहीणा हि क्व नु तिष्ठामहे वयम्

Mahabharata

Ashramavasika Parva, Adhyaya 6, Verse 7

औरसो भवतः पुत्रो युयुत्सुर्नृपसत्तम

अस्तु राजा महाराज यं चान्यं मन्यते भवान्

Mahabharata

Ashramavasika Parva, Adhyaya 6, Verse 8

अहं वनं गमिष्यामि भवान्राज्यं प्रशास्त्विदम्

न मामयशसा दग्धं भूयस्त्वं दग्धुमर्हसि

Mahabharata

Ashramavasika Parva, Adhyaya 6, Verse 9

नाहं राजा भवान्राजा भवता परवानहम्

कथं गुरुं त्वां धर्मज्ञमनुज्ञातुमिहोत्सहे

Mahabharata

Ashramavasika Parva, Adhyaya 6, Verse 10

न मन्युर्हृदि नः कश्चिद्दुर्योधनकृतेऽनघ

भवितव्यं तथा तद्धि वयं ते चैव मोहिताः

Mahabharata

Ashramavasika Parva, Adhyaya 6, Verse 11

वयं हि पुत्रा भवतो यथा दुर्योधनादयः

गान्धारी चैव कुन्ती च निर्विशेषे मते मम

Mahabharata

Ashramavasika Parva, Adhyaya 6, Verse 12

स मां त्वं यदि राजेन्द्र परित्यज्य गमिष्यसि

पृष्ठतस्त्वानुयास्यामि सत्येनात्मानमालभे

Mahabharata

Ashramavasika Parva, Adhyaya 6, Verse 13

इयं हि वसुसंपूर्णा मही सागरमेखला

भवता विप्रहीणस्य न मे प्रीतिकरी भवेत्

Mahabharata

Ashramavasika Parva, Adhyaya 6, Verse 14

भवदीयमिदं सर्वं शिरसा त्वां प्रसादये

त्वदधीनाः स्म राजेन्द्र व्येतु ते मानसो ज्वरः

Mahabharata

Ashramavasika Parva, Adhyaya 6, Verse 15

भवितव्यमनुप्राप्तं मन्ये त्वां तज्जनाधिप

दिष्ट्या शुश्रूषमाणस्त्वां मोक्ष्यामि मनसो ज्वरम्

Mahabharata

Ashramavasika Parva, Adhyaya 6, Verse 16

तापस्ये मे मनस्तात वर्तते कुरुनन्दन

उचितं हि कुलेऽस्माकमरण्यगमनं प्रभो

Mahabharata

Ashramavasika Parva, Adhyaya 6, Verse 17

चिरमस्म्युषितः पुत्र चिरं शुश्रूषितस्त्वया

वृद्धं मामभ्यनुज्ञातुं त्वमर्हसि जनाधिप

Mahabharata

Ashramavasika Parva, Adhyaya 6, Verse 18

इत्युक्त्वा धर्मराजानं वेपमानः कृताञ्जलिम्

उवाच वचनं राजा धृतराष्ट्रोऽम्बिकासुतः

Mahabharata

Ashramavasika Parva, Adhyaya 6, Verse 19

संजयं च महामात्रं कृपं चापि महारथम्

अनुनेतुमिहेच्छामि भवद्भिः पृथिवीपतिम्

Mahabharata

Ashramavasika Parva, Adhyaya 6, Verse 20

ग्लायते मे मनो हीदं मुखं च परिशुष्यति

वयसा च प्रकृष्टेन वाग्व्यायामेन चैव हि

Mahabharata

Ashramavasika Parva, Adhyaya 6, Verse 21

इत्युक्त्वा स तु धर्मात्मा वृद्धो राजा कुरूद्वहः

गान्धारीं शिश्रिये धीमान्सहसैव गतासुवत्

Mahabharata

Ashramavasika Parva, Adhyaya 6, Verse 22

तं तु दृष्ट्वा तथासीनं निश्चेष्टं कुरुपार्थिवम्

आर्तिं राजा ययौ तूर्णं कौन्तेयः परवीरहा

Mahabharata

Ashramavasika Parva, Adhyaya 6, Verse 23

यस्य नागसहस्रेण दशसंख्येन वै बलम्

सोऽयं नारीमुपाश्रित्य शेते राजा गतासुवत्

Mahabharata

Ashramavasika Parva, Adhyaya 6, Verse 24

आयसी प्रतिमा येन भीमसेनस्य वै पुरा

चूर्णीकृता बलवता स बलार्थी श्रितः स्त्रियम्

Mahabharata

Ashramavasika Parva, Adhyaya 6, Verse 25

धिगस्तु मामधर्मज्ञं धिग्बुद्धिं धिक्च मे श्रुतम्

यत्कृते पृथिवीपालः शेतेऽयमतथोचितः

Mahabharata

Ashramavasika Parva, Adhyaya 6, Verse 26

अहमप्युपवत्स्यामि यथैवायं गुरुर्मम

यदि राजा न भुङ्क्तेऽयं गान्धारी च यशस्विनी

Mahabharata

Ashramavasika Parva, Adhyaya 6, Verse 27

ततोऽस्य पाणिना राजा जलशीतेन पाण्डवः

उरो मुखं च शनकैः पर्यमार्जत धर्मवित्

Mahabharata

Ashramavasika Parva, Adhyaya 6, Verse 28

तेन रत्नौषधिमता पुण्येन च सुगन्धिना

पाणिस्पर्शेन राज्ञस्तु राजा संज्ञामवाप ह