Ashramavasika Parva, Adhyaya 5, Verse 1
विदितं भवतामेतद्यथा वृत्तः कुरुक्षयः
ममापराधात्तत्सर्वमिति ज्ञेयं तु कौरवाः
Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.
विदितं भवतामेतद्यथा वृत्तः कुरुक्षयः
ममापराधात्तत्सर्वमिति ज्ञेयं तु कौरवाः
योऽहं दुष्टमतिं मूढं ज्ञातीनां भयवर्धनम्
दुर्योधनं कौरवाणामाधिपत्येऽभ्यषेचयम्
यच्चाहं वासुदेवस्य वाक्यं नाश्रौषमर्थवत्
वध्यतां साध्वयं पापः सामात्य इति दुर्मतिः
पुत्रस्नेहाभिभूतश्च हितमुक्तो मनीषिभिः
विदुरेणाथ भीष्मेण द्रोणेन च कृपेण च
पदे पदे भगवता व्यासेन च महात्मना
संजयेनाथ गान्धार्या तदिदं तप्यतेऽद्य माम्
यच्चाहं पाण्डुपुत्रेषु गुणवत्सु महात्मसु
न दत्तवाञ्श्रियं दीप्तां पितृपैतामहीमिमाम्
विनाशं पश्यमानो हि सर्वराज्ञां गदाग्रजः
एतच्छ्रेयः स परमममन्यत जनार्दनः
सोऽहमेतान्यलीकानि निवृत्तान्यात्मनः सदा
हृदये शल्यभूतानि धारयामि सहस्रशः
विशेषतस्तु दह्यामि वर्षं पञ्चदशं हि वै
अस्य पापस्य शुद्ध्यर्थं नियतोऽस्मि सुदुर्मतिः
चतुर्थे नियते काले कदाचिदपि चाष्टमे
तृष्णाविनयनं भुञ्जे गान्धारी वेद तन्मम
करोत्याहारमिति मां सर्वः परिजनः सदा
युधिष्ठिरभयाद्वेत्ति भृशं तप्यति पाण्डवः
भूमौ शये जप्यपरो दर्भेष्वजिनसंवृतः
नियमव्यपदेशेन गान्धारी च यशस्विनी
हतं पुत्रशतं शूरं संग्रामेष्वपलायिनम्
नानुतप्यामि तच्चाहं क्षत्रधर्मं हि तं विदुः
इत्युक्त्वा धर्मराजानमभ्यभाषत कौरवः
भद्रं ते यादवीमातर्वाक्यं चेदं निबोध मे
सुखमस्म्युषितः पुत्र त्वया सुपरिपालितः
महादानानि दत्तानि श्राद्धानि च पुनः पुनः
प्रकृष्टं मे वयः पुत्र पुण्यं चीर्णं यथाबलम्
गान्धारी हतपुत्रेयं धैर्येणोदीक्षते च माम्
द्रौपद्या ह्यपकर्तारस्तव चैश्वर्यहारिणः
समतीता नृशंसास्ते धर्मेण निहता युधि
न तेषु प्रतिकर्तव्यं पश्यामि कुरुनन्दन
सर्वे शस्त्रजिताँल्लोकान्गतास्तेऽभिमुखं हताः
आत्मनस्तु हितं मुख्यं प्रतिकर्तव्यमद्य मे
गान्धार्याश्चैव राजेन्द्र तदनुज्ञातुमर्हसि
त्वं हि धर्मभृतां श्रेष्ठः सततं धर्मवत्सलः
राजा गुरुः प्राणभृतां तस्मादेतद्ब्रवीम्यहम्
अनुज्ञातस्त्वया वीर संश्रयेयं वनान्यहम्
चीरवल्कलभृद्राजन्गान्धार्या सहितोऽनया
तवाशिषः प्रयुञ्जानो भविष्यामि वनेचरः
उचितं नः कुले तात सर्वेषां भरतर्षभ
पुत्रेष्वैश्वर्यमाधाय वयसोऽन्ते वनं नृप
तत्राहं वायुभक्षो वा निराहारोऽपि वा वसन्
पत्न्या सहानया वीर चरिष्यामि तपः परम्
त्वं चापि फलभाक्तात तपसः पार्थिवो ह्यसि
फलभाजो हि राजानः कल्याणस्येतरस्य वा