Mahabharata

Ashramavasika Parva, Adhyaya 4

Containing 15 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashramavasika Parva, Adhyaya 4, Verse 1

युधिष्ठिरस्य नृपतेर्दुर्योधनपितुस्तथा

नान्तरं ददृशू राजन्पुरुषाः प्रणयं प्रति

Mahabharata

Ashramavasika Parva, Adhyaya 4, Verse 2

यदा तु कौरवो राजा पुत्रं सस्मार बालिशम्

तदा भीमं हृदा राजन्नपध्याति स पार्थिवः

Mahabharata

Ashramavasika Parva, Adhyaya 4, Verse 3

तथैव भीमसेनोऽपि धृतराष्ट्रं जनाधिपम्

नामर्षयत राजेन्द्र सदैवातुष्टवद्धृदा

Mahabharata

Ashramavasika Parva, Adhyaya 4, Verse 4

अप्रकाशान्यप्रियाणि चकारास्य वृकोदरः

आज्ञां प्रत्यहरच्चापि कृतकैः पुरुषैः सदा

Mahabharata

Ashramavasika Parva, Adhyaya 4, Verse 5

अथ भीमः सुहृन्मध्ये बाहुशब्दं तथाकरोत्

संश्रवे धृतराष्ट्रस्य गान्धार्याश्चाप्यमर्षणः

Mahabharata

Ashramavasika Parva, Adhyaya 4, Verse 6

स्मृत्वा दुर्योधनं शत्रुं कर्णदुःशासनावपि

प्रोवाचाथ सुसंरब्धो भीमः स परुषं वचः

Mahabharata

Ashramavasika Parva, Adhyaya 4, Verse 7

अन्धस्य नृपतेः पुत्रा मया परिघबाहुना

नीता लोकममुं सर्वे नानाशस्त्रात्तजीविताः

Mahabharata

Ashramavasika Parva, Adhyaya 4, Verse 8

इमौ तौ परिघप्रख्यौ भुजौ मम दुरासदौ

ययोरन्तरमासाद्य धार्तराष्ट्राः क्षयं गताः

Mahabharata

Ashramavasika Parva, Adhyaya 4, Verse 9

ताविमौ चन्दनेनाक्तौ वन्दनीयौ च मे भुजौ

याभ्यां दुर्योधनो नीतः क्षयं ससुतबान्धवः

Mahabharata

Ashramavasika Parva, Adhyaya 4, Verse 10

एताश्चान्याश्च विविधाः शल्यभूता जनाधिपः

वृकोदरस्य ता वाचः श्रुत्वा निर्वेदमागमत्

Mahabharata

Ashramavasika Parva, Adhyaya 4, Verse 11

सा च बुद्धिमती देवी कालपर्यायवेदिनी

गान्धारी सर्वधर्मज्ञा तान्यलीकानि शुश्रुवे

Mahabharata

Ashramavasika Parva, Adhyaya 4, Verse 12

ततः पञ्चदशे वर्षे समतीते नराधिपः

राजा निर्वेदमापेदे भीमवाग्बाणपीडितः

Mahabharata

Ashramavasika Parva, Adhyaya 4, Verse 13

नान्वबुध्यत तद्राजा कुन्तीपुत्रो युधिष्ठिरः

श्वेताश्वो वाथ कुन्ती वा द्रौपदी वा यशस्विनी

Mahabharata

Ashramavasika Parva, Adhyaya 4, Verse 14

माद्रीपुत्रौ च भीमस्य चित्तज्ञावन्वमोदताम्

राज्ञस्तु चित्तं रक्षन्तौ नोचतुः किंचिदप्रियम्

Mahabharata

Ashramavasika Parva, Adhyaya 4, Verse 15

ततः समानयामास धृतराष्ट्रः सुहृज्जनम्

बाष्पसंदिग्धमत्यर्थमिदमाह वचो भृशम्