Mahabharata

Ashramavasika Parva, Adhyaya 3

Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashramavasika Parva, Adhyaya 3, Verse 1

स राजा सुमहातेजा वृद्धः कुरुकुलोद्वहः

नापश्यत तदा किंचिदप्रियं पाण्डुनन्दने

Mahabharata

Ashramavasika Parva, Adhyaya 3, Verse 2

वर्तमानेषु सद्वृत्तिं पाण्डवेषु महात्मसु

प्रीतिमानभवद्राजा धृतराष्ट्रोऽम्बिकासुतः

Mahabharata

Ashramavasika Parva, Adhyaya 3, Verse 3

सौबलेयी च गान्धारी पुत्रशोकमपास्य तम्

सदैव प्रीतिमत्यासीत्तनयेषु निजेष्विव

Mahabharata

Ashramavasika Parva, Adhyaya 3, Verse 4

प्रियाण्येव तु कौरव्यो नाप्रियाणि कुरूद्वह

वैचित्रवीर्ये नृपतौ समाचरति नित्यदा

Mahabharata

Ashramavasika Parva, Adhyaya 3, Verse 5

यद्यद्ब्रूते च किंचित्स धृतराष्ट्रो नराधिपः

गुरु वा लघु वा कार्यं गान्धारी च यशस्विनी

Mahabharata

Ashramavasika Parva, Adhyaya 3, Verse 6

तत्स राजा महाराज पाण्डवानां धुरंधरः

पूजयित्वा वचस्तत्तदकार्षीत्परवीरहा

Mahabharata

Ashramavasika Parva, Adhyaya 3, Verse 7

तेन तस्याभवत्प्रीतो वृत्तेन स नराधिपः

अन्वतप्यच्च संस्मृत्य पुत्रं मन्दमचेतसम्

Mahabharata

Ashramavasika Parva, Adhyaya 3, Verse 8

सदा च प्रातरुत्थाय कृतजप्यः शुचिर्नृपः

आशास्ते पाण्डुपुत्राणां समरेष्वपराजयम्

Mahabharata

Ashramavasika Parva, Adhyaya 3, Verse 9

ब्राह्मणान्वाचयित्वा च हुत्वा चैव हुताशनम्

आयुष्यं पाण्डुपुत्राणामाशास्ते स नराधिपः

Mahabharata

Ashramavasika Parva, Adhyaya 3, Verse 10

न तां प्रीतिं परामाप पुत्रेभ्यः स महीपतिः

यां प्रीतिं पाण्डुपुत्रेभ्यः समवाप तदा नृपः

Mahabharata

Ashramavasika Parva, Adhyaya 3, Verse 11

ब्राह्मणानां च वृद्धानां क्षत्रियाणां च भारत

तथा विट्शूद्रसंघानामभवत्सुप्रियस्तदा

Mahabharata

Ashramavasika Parva, Adhyaya 3, Verse 12

यच्च किंचित्पुरा पापं धृतराष्ट्रसुतैः कृतम्

अकृत्वा हृदि तद्राजा तं नृपं सोऽन्ववर्तत

Mahabharata

Ashramavasika Parva, Adhyaya 3, Verse 13

यश्च कश्चिन्नरः किंचिदप्रियं चाम्बिकासुते

कुरुते द्वेष्यतामेति स कौन्तेयस्य धीमतः

Mahabharata

Ashramavasika Parva, Adhyaya 3, Verse 14

न राज्ञो धृतराष्ट्रस्य न च दुर्योधनस्य वै

उवाच दुष्कृतं किंचिद्युधिष्ठिरभयान्नरः

Mahabharata

Ashramavasika Parva, Adhyaya 3, Verse 15

धृत्या तुष्टो नरेन्द्रस्य गान्धारी विदुरस्तथा

शौचेन चाजातशत्रोर्न तु भीमस्य शत्रुहन्

Mahabharata

Ashramavasika Parva, Adhyaya 3, Verse 16

अन्ववर्तत भीमोऽपि निष्टनन्धर्मजं नृपम्

धृतराष्ट्रं च संप्रेक्ष्य सदा भवति दुर्मनाः

Mahabharata

Ashramavasika Parva, Adhyaya 3, Verse 17

राजानमनुवर्तन्तं धर्मपुत्रं महामतिम्

अन्ववर्तत कौरव्यो हृदयेन पराङ्मुखः