Mahabharata

Ashramavasika Parva, Adhyaya 2

Containing 13 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashramavasika Parva, Adhyaya 2, Verse 1

एवं संपूजितो राजा पाण्डवैरम्बिकासुतः

विजहार यथापूर्वमृषिभिः पर्युपासितः

Mahabharata

Ashramavasika Parva, Adhyaya 2, Verse 2

ब्रह्मदेयाग्रहारांश्च प्रददौ स कुरूद्वहः

तच्च कुन्तीसुतो राजा सर्वमेवान्वमोदत

Mahabharata

Ashramavasika Parva, Adhyaya 2, Verse 3

आनृशंस्यपरो राजा प्रीयमाणो युधिष्ठिरः

उवाच स तदा भ्रातॄनमात्यांश्च महीपतिः

Mahabharata

Ashramavasika Parva, Adhyaya 2, Verse 4

मया चैव भवद्भिश्च मान्य एष नराधिपः

निदेशे धृतराष्ट्रस्य यः स्थास्यति स मे सुहृत्

विपरीतश्च मे शत्रुर्निरस्यश्च भवेन्नरः

Mahabharata

Ashramavasika Parva, Adhyaya 2, Verse 5

परिदृष्टेषु चाहःसु पुत्राणां श्राद्धकर्मणि

ददातु राजा सर्वेषां यावदस्य चिकीर्षितम्

Mahabharata

Ashramavasika Parva, Adhyaya 2, Verse 6

ततः स राजा कौरव्यो धृतराष्ट्रो महामनाः

ब्राह्मणेभ्यो महार्हेभ्यो ददौ वित्तान्यनेकशः

Mahabharata

Ashramavasika Parva, Adhyaya 2, Verse 7

धर्मराजश्च भीमश्च सव्यसाची यमावपि

तत्सर्वमन्ववर्तन्त धृतराष्ट्रव्यपेक्षया

Mahabharata

Ashramavasika Parva, Adhyaya 2, Verse 8

कथं नु राजा वृद्धः सन्पुत्रशोकसमाहतः

शोकमस्मत्कृतं प्राप्य न म्रियेतेति चिन्त्यते

Mahabharata

Ashramavasika Parva, Adhyaya 2, Verse 9

यावद्धि कुरुमुख्यस्य जीवत्पुत्रस्य वै सुखम्

बभूव तदवाप्नोतु भोगांश्चेति व्यवस्थिताः

Mahabharata

Ashramavasika Parva, Adhyaya 2, Verse 10

ततस्ते सहिताः सर्वे भ्रातरः पञ्च पाण्डवाः

तथाशीलाः समातस्थुर्धृतराष्ट्रस्य शासने

Mahabharata

Ashramavasika Parva, Adhyaya 2, Verse 11

धृतराष्ट्रश्च तान्वीरान्विनीतान्विनये स्थितान्

शिष्यवृत्तौ स्थितान्नित्यं गुरुवत्पर्यपश्यत

Mahabharata

Ashramavasika Parva, Adhyaya 2, Verse 12

गान्धारी चैव पुत्राणां विविधैः श्राद्धकर्मभिः

आनृण्यमगमत्कामान्विप्रेभ्यः प्रतिपाद्य वै

Mahabharata

Ashramavasika Parva, Adhyaya 2, Verse 13

एवं धर्मभृतां श्रेष्ठो धर्मराजो युधिष्ठिरः

भ्रातृभिः सहितो धीमान्पूजयामास तं नृपम्