Mahabharata

Ashramavasika Parva, Adhyaya 1

Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashramavasika Parva, Adhyaya 1, Verse 1

प्राप्य राज्यं महाभागाः पाण्डवा मे पितामहाः

कथमासन्महाराजे धृतराष्ट्रे महात्मनि

Mahabharata

Ashramavasika Parva, Adhyaya 1, Verse 2

स हि राजा हतामात्यो हतपुत्रो निराश्रयः

कथमासीद्धतैश्वर्यो गान्धारी च यशस्विनी

Mahabharata

Ashramavasika Parva, Adhyaya 1, Verse 3

कियन्तं चैव कालं ते पितरो मम पूर्वकाः

स्थिता राज्ये महात्मानस्तन्मे व्याख्यातुमर्हसि

Mahabharata

Ashramavasika Parva, Adhyaya 1, Verse 4

प्राप्य राज्यं महात्मानः पाण्डवा हतशत्रवः

धृतराष्ट्रं पुरस्कृत्य पृथिवीं पर्यपालयन्

Mahabharata

Ashramavasika Parva, Adhyaya 1, Verse 5

धृतराष्ट्रमुपातिष्ठद्विदुरः संजयस्तथा

युयुत्सुश्चापि मेधावी वैश्यापुत्रः स कौरवः

Mahabharata

Ashramavasika Parva, Adhyaya 1, Verse 6

पाण्डवाः सर्वकार्याणि संपृच्छन्ति स्म तं नृपम्

चक्रुस्तेनाभ्यनुज्ञाता वर्षाणि दश पञ्च च

Mahabharata

Ashramavasika Parva, Adhyaya 1, Verse 7

सदा हि गत्वा ते वीराः पर्युपासन्त तं नृपम्

पादाभिवन्दनं कृत्वा धर्मराजमते स्थिताः

ते मूर्ध्नि समुपाघ्राताः सर्वकार्याणि चक्रिरे

Mahabharata

Ashramavasika Parva, Adhyaya 1, Verse 8

कुन्तिभोजसुता चैव गान्धारीमन्ववर्तत

द्रौपदी च सुभद्रा च याश्चान्याः पाण्डवस्त्रियः

समां वृत्तिमवर्तन्त तयोः श्वश्र्वोर्यथाविधि

Mahabharata

Ashramavasika Parva, Adhyaya 1, Verse 9

शयनानि महार्हाणि वासांस्याभरणानि च

राजार्हाणि च सर्वाणि भक्ष्यभोज्यान्यनेकशः

युधिष्ठिरो महाराज धृतराष्ट्रेऽभ्युपाहरत्

Mahabharata

Ashramavasika Parva, Adhyaya 1, Verse 10

तथैव कुन्ती गान्धार्यां गुरुवृत्तिमवर्तत

विदुरः संजयश्चैव युयुत्सुश्चैव कौरवः

उपासते स्म तं वृद्धं हतपुत्रं जनाधिपम्

Mahabharata

Ashramavasika Parva, Adhyaya 1, Verse 11

स्यालो द्रोणस्य यश्चैको दयितो ब्राह्मणो महान्

स च तस्मिन्महेष्वासः कृपः समभवत्तदा

Mahabharata

Ashramavasika Parva, Adhyaya 1, Verse 12

व्यासश्च भगवान्नित्यं वासं चक्रे नृपेण ह

कथाः कुर्वन्पुराणर्षिर्देवर्षिनृपरक्षसाम्

Mahabharata

Ashramavasika Parva, Adhyaya 1, Verse 13

धर्मयुक्तानि कार्याणि व्यवहारान्वितानि च

धृतराष्ट्राभ्यनुज्ञातो विदुरस्तान्यकारयत्

Mahabharata

Ashramavasika Parva, Adhyaya 1, Verse 14

सामन्तेभ्यः प्रियाण्यस्य कार्याणि सुगुरूण्यपि

प्राप्यन्तेऽर्थैः सुलघुभिः प्रभावाद्विदुरस्य वै

Mahabharata

Ashramavasika Parva, Adhyaya 1, Verse 15

अकरोद्बन्धमोक्षांश्च वध्यानां मोक्षणं तथा

न च धर्मात्मजो राजा कदाचित्किंचिदब्रवीत्

Mahabharata

Ashramavasika Parva, Adhyaya 1, Verse 16

विहारयात्रासु पुनः कुरुराजो युधिष्ठिरः

सर्वान्कामान्महातेजाः प्रददावम्बिकासुते

Mahabharata

Ashramavasika Parva, Adhyaya 1, Verse 17

आरालिकाः सूपकारा रागखाण्डविकास्तथा

उपातिष्ठन्त राजानं धृतराष्ट्रं यथा पुरा

Mahabharata

Ashramavasika Parva, Adhyaya 1, Verse 18

वासांसि च महार्हाणि माल्यानि विविधानि च

उपाजह्रुर्यथान्यायं धृतराष्ट्रस्य पाण्डवाः

Mahabharata

Ashramavasika Parva, Adhyaya 1, Verse 19

मैरेयं मधु मांसानि पानकानि लघूनि च

चित्रान्भक्ष्यविकारांश्च चक्रुरस्य यथा पुरा

Mahabharata

Ashramavasika Parva, Adhyaya 1, Verse 20

ये चापि पृथिवीपालाः समाजग्मुः समन्ततः

उपातिष्ठन्त ते सर्वे कौरवेन्द्रं यथा पुरा

Mahabharata

Ashramavasika Parva, Adhyaya 1, Verse 21

कुन्ती च द्रौपदी चैव सात्वती चैव भामिनी

उलूपी नागकन्या च देवी चित्राङ्गदा तथा

Mahabharata

Ashramavasika Parva, Adhyaya 1, Verse 22

धृष्टकेतोश्च भगिनी जरासंधस्य चात्मजा

किंकराः स्मोपतिष्ठन्ति सर्वाः सुबलजां तथा

Mahabharata

Ashramavasika Parva, Adhyaya 1, Verse 23

यथा पुत्रवियुक्तोऽयं न किंचिद्दुःखमाप्नुयात्

इति राजान्वशाद्भ्रातॄन्नित्यमेव युधिष्ठिरः

Mahabharata

Ashramavasika Parva, Adhyaya 1, Verse 24

एवं ते धर्मराजस्य श्रुत्वा वचनमर्थवत्

सविशेषमवर्तन्त भीममेकं विना तदा

Mahabharata

Ashramavasika Parva, Adhyaya 1, Verse 25

न हि तत्तस्य वीरस्य हृदयादपसर्पति

धृतराष्ट्रस्य दुर्बुद्धेर्यद्वृत्तं द्यूतकारितम्