Mahabharata

Ashvamedhika Parva, Adhyaya 96

Containing 15 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashvamedhika Parva, Adhyaya 96, Verse 1

कोऽसौ नकुलरूपेण शिरसा काञ्चनेन वै

प्राह मानुषवद्वाचमेतत्पृष्टो वदस्व मे

Mahabharata

Ashvamedhika Parva, Adhyaya 96, Verse 2

एतत्पूर्वं न पृष्टोऽहं न चास्माभिः प्रभाषितम्

श्रूयतां नकुलो योऽसौ यथा वागस्य मानुषी

Mahabharata

Ashvamedhika Parva, Adhyaya 96, Verse 3

श्राद्धं संकल्पयामास जमदग्निः पुरा किल

होमधेनुस्तमागाच्च स्वयं चापि दुदोह ताम्

Mahabharata

Ashvamedhika Parva, Adhyaya 96, Verse 4

तत्क्षीरं स्थापयामास नवे भाण्डे दृढे शुचौ

तच्च क्रोधः स्वरूपेण पिठरं पर्यवर्तयत्

Mahabharata

Ashvamedhika Parva, Adhyaya 96, Verse 5

जिज्ञासुस्तमृषिश्रेष्ठं किं कुर्याद्विप्रिये कृते

इति संचिन्त्य दुर्मेधा धर्षयामास तत्पयः

Mahabharata

Ashvamedhika Parva, Adhyaya 96, Verse 6

तमाज्ञाय मुनिः क्रोधं नैवास्य चुकुपे ततः

स तु क्रोधस्तमाहेदं प्राञ्जलिर्मूर्तिमान्स्थितः

Mahabharata

Ashvamedhika Parva, Adhyaya 96, Verse 7

जितोऽस्मीति भृगुश्रेष्ठ भृगवो ह्यतिरोषणाः

लोके मिथ्याप्रवादोऽयं यत्त्वयास्मि पराजितः

Mahabharata

Ashvamedhika Parva, Adhyaya 96, Verse 8

सोऽहं त्वयि स्थितो ह्यद्य क्षमावति महात्मनि

बिभेमि तपसः साधो प्रसादं कुरु मे विभो

Mahabharata

Ashvamedhika Parva, Adhyaya 96, Verse 9

साक्षाद्दृष्टोऽसि मे क्रोध गच्छ त्वं विगतज्वरः

न ममापकृतं तेऽद्य न मन्युर्विद्यते मम

Mahabharata

Ashvamedhika Parva, Adhyaya 96, Verse 10

यानुद्दिश्य तु संकल्पः पयसोऽस्य कृतो मया

पितरस्ते महाभागास्तेभ्यो बुध्यस्व गम्यताम्

Mahabharata

Ashvamedhika Parva, Adhyaya 96, Verse 11

इत्युक्तो जातसंत्रासः स तत्रान्तरधीयत

पितॄणामभिषङ्गात्तु नकुलत्वमुपागतः

Mahabharata

Ashvamedhika Parva, Adhyaya 96, Verse 12

स तान्प्रसादयामास शापस्यान्तो भवेदिति

तैश्चाप्युक्तो यदा धर्मं क्षेप्स्यसे मोक्ष्यसे तदा

Mahabharata

Ashvamedhika Parva, Adhyaya 96, Verse 13

तैश्चोक्तो यज्ञियान्देशान्धर्मारण्यानि चैव ह

जुगुप्सन्परिधावन्स यज्ञं तं समुपासदत्

Mahabharata

Ashvamedhika Parva, Adhyaya 96, Verse 14

धर्मपुत्रमथाक्षिप्य सक्तुप्रस्थेन तेन सः

मुक्तः शापात्ततः क्रोधो धर्मो ह्यासीद्युधिष्ठिरः

Mahabharata

Ashvamedhika Parva, Adhyaya 96, Verse 15

एवमेतत्तदा वृत्तं तस्य यज्ञे महात्मनः

पश्यतां चापि नस्तत्र नकुलोऽन्तर्हितस्तदा