Mahabharata

Ashvamedhika Parva, Adhyaya 95

Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashvamedhika Parva, Adhyaya 95, Verse 1

धर्मागतेन त्यागेन भगवन्सर्वमस्ति चेत्

एतन्मे सर्वमाचक्ष्व कुशलो ह्यसि भाषितुम्

Mahabharata

Ashvamedhika Parva, Adhyaya 95, Verse 2

ततोञ्छवृत्तेर्यद्वृत्तं सक्तुदाने फलं महत्

कथितं मे महद्ब्रह्मंस्तथ्यमेतदसंशयम्

Mahabharata

Ashvamedhika Parva, Adhyaya 95, Verse 3

कथं हि सर्वयज्ञेषु निश्चयः परमो भवेत्

एतदर्हसि मे वक्तुं निखिलेन द्विजर्षभ

Mahabharata

Ashvamedhika Parva, Adhyaya 95, Verse 4

अत्राप्युदाहरन्तीममितिहासं पुरातनम्

अगस्त्यस्य महायज्ञे पुरावृत्तमरिंदम

Mahabharata

Ashvamedhika Parva, Adhyaya 95, Verse 5

पुरागस्त्यो महातेजा दीक्षां द्वादशवार्षिकीम्

प्रविवेश महाराज सर्वभूतहिते रतः

Mahabharata

Ashvamedhika Parva, Adhyaya 95, Verse 6

तत्राग्निकल्पा होतार आसन्सत्रे महात्मनः

मूलाहारा निराहाराः साश्मकुट्टा मरीचिपाः

Mahabharata

Ashvamedhika Parva, Adhyaya 95, Verse 7

परिघृष्टिका वैघसिकाः संप्रक्षालास्तथैव च

यतयो भिक्षवश्चात्र बभूवुः पर्यवस्थिताः

Mahabharata

Ashvamedhika Parva, Adhyaya 95, Verse 8

सर्वे प्रत्यक्षधर्माणो जितक्रोधा जितेन्द्रियाः

दमे स्थिताश्च ते सर्वे दम्भमोहविवर्जिताः

Mahabharata

Ashvamedhika Parva, Adhyaya 95, Verse 9

वृत्ते शुद्धे स्थिता नित्यमिन्द्रियैश्चाप्यवाहिताः

उपासते स्म तं यज्ञं भुञ्जानास्ते महर्षयः

Mahabharata

Ashvamedhika Parva, Adhyaya 95, Verse 10

यथाशक्त्या भगवता तदन्नं समुपार्जितम्

तस्मिन्सत्रे तु यत्किंचिदयोग्यं तत्र नाभवत्

तथा ह्यनेकैर्मुनिभिर्महान्तः क्रतवः कृताः

Mahabharata

Ashvamedhika Parva, Adhyaya 95, Verse 11

एवंविधेस्त्वगस्त्यस्य वर्तमाने महाध्वरे

न ववर्ष सहस्राक्षस्तदा भरतसत्तम

Mahabharata

Ashvamedhika Parva, Adhyaya 95, Verse 12

ततः कर्मान्तरे राजन्नगस्त्यस्य महात्मनः

कथेयमभिनिर्वृत्ता मुनीनां भावितात्मनाम्

Mahabharata

Ashvamedhika Parva, Adhyaya 95, Verse 13

अगस्त्यो यजमानोऽसौ ददात्यन्नं विमत्सरः

न च वर्षति पर्जन्यः कथमन्नं भविष्यति

Mahabharata

Ashvamedhika Parva, Adhyaya 95, Verse 14

सत्रं चेदं महद्विप्रा मुनेर्द्वादशवार्षिकम्

न वर्षिष्यति देवश्च वर्षाण्येतानि द्वादश

Mahabharata

Ashvamedhika Parva, Adhyaya 95, Verse 15

एतद्भवन्तः संचिन्त्य महर्षेरस्य धीमतः

अगस्त्यस्यातितपसः कर्तुमर्हन्त्यनुग्रहम्

Mahabharata

Ashvamedhika Parva, Adhyaya 95, Verse 16

इत्येवमुक्ते वचने ततोऽगस्त्यः प्रतापवान्

प्रोवाचेदं वचो वाग्मी प्रसाद्य शिरसा मुनीन्

Mahabharata

Ashvamedhika Parva, Adhyaya 95, Verse 17

यदि द्वादशवर्षाणि न वर्षिष्यति वासवः

चिन्तायज्ञं करिष्यामि विधिरेष सनातनः

Mahabharata

Ashvamedhika Parva, Adhyaya 95, Verse 18

यदि द्वादशवर्षाणि न वर्षिष्यति वासवः

व्यायामेनाहरिष्यामि यज्ञानन्यानतिव्रतान्

Mahabharata

Ashvamedhika Parva, Adhyaya 95, Verse 19

बीजयज्ञो मयायं वै बहुवर्षसमाचितः

बीजैः कृतैः करिष्ये च नात्र विघ्नो भविष्यति

Mahabharata

Ashvamedhika Parva, Adhyaya 95, Verse 20

नेदं शक्यं वृथा कर्तुं मम सत्रं कथंचन

वर्षिष्यतीह वा देवो न वा देवो भविष्यति

Mahabharata

Ashvamedhika Parva, Adhyaya 95, Verse 21

अथ वाभ्यर्थनामिन्द्रः कुर्यान्न त्विह कामतः

स्वयमिन्द्रो भविष्यामि जीवयिष्यामि च प्रजाः

Mahabharata

Ashvamedhika Parva, Adhyaya 95, Verse 22

यो यदाहारजातश्च स तथैव भविष्यति

विशेषं चैव कर्तास्मि पुनः पुनरतीव हि

Mahabharata

Ashvamedhika Parva, Adhyaya 95, Verse 23

अद्येह स्वर्णमभ्येतु यच्चान्यद्वसु दुर्लभम्

त्रिषु लोकेषु यच्चास्ति तदिहागच्छतां स्वयम्

Mahabharata

Ashvamedhika Parva, Adhyaya 95, Verse 24

दिव्याश्चाप्सरसां संघाः सगन्धर्वाः सकिंनराः

विश्वावसुश्च ये चान्ये तेऽप्युपासन्तु वः सदा

Mahabharata

Ashvamedhika Parva, Adhyaya 95, Verse 25

उत्तरेभ्यः कुरुभ्यश्च यत्किंचिद्वसु विद्यते

सर्वं तदिह यज्ञे मे स्वयमेवोपतिष्ठतु

स्वर्गं स्वर्गसदश्चैव धर्मश्च स्वयमेव तु

Mahabharata

Ashvamedhika Parva, Adhyaya 95, Verse 26

इत्युक्ते सर्वमेवैतदभवत्तस्य धीमतः

ततस्ते मुनयो दृष्ट्वा मुनेस्तस्य तपोबलम्

विस्मिता वचनं प्राहुरिदं सर्वे महार्थवत्

Mahabharata

Ashvamedhika Parva, Adhyaya 95, Verse 27

प्रीताः स्म तव वाक्येन न त्विच्छामस्तपोव्ययम्

स्वैरेव यज्ञैस्तुष्टाः स्मो न्यायेनेच्छामहे वयम्

Mahabharata

Ashvamedhika Parva, Adhyaya 95, Verse 28

यज्ञान्दीक्षास्तथा होमान्यच्चान्यन्मृगयामहे

तन्नोऽस्तु स्वकृतैर्यज्ञैर्नान्यतो मृगयामहे

Mahabharata

Ashvamedhika Parva, Adhyaya 95, Verse 29

न्यायेनोपार्जिताहाराः स्वकर्मनिरता वयम्

वेदांश्च ब्रह्मचर्येण न्यायतः प्रार्थयामहे

Mahabharata

Ashvamedhika Parva, Adhyaya 95, Verse 30

न्यायेनोत्तरकालं च गृहेभ्यो निःसृता वयम्

धर्मदृष्टैर्विधिद्वारैस्तपस्तप्स्यामहे वयम्