Mahabharata

Ashvamedhika Parva, Adhyaya 94

Containing 34 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashvamedhika Parva, Adhyaya 94, Verse 1

यज्ञे सक्ता नृपतयस्तपःसक्ता महर्षयः

शान्तिव्यवसिता विप्राः शमो दम इति प्रभो

Mahabharata

Ashvamedhika Parva, Adhyaya 94, Verse 2

तस्माद्यज्ञफलैस्तुल्यं न किंचिदिह विद्यते

इति मे वर्तते बुद्धिस्तथा चैतदसंशयम्

Mahabharata

Ashvamedhika Parva, Adhyaya 94, Verse 3

यज्ञैरिष्ट्वा हि बहवो राजानो द्विजसत्तम

इह कीर्तिं परां प्राप्य प्रेत्य स्वर्गमितो गताः

Mahabharata

Ashvamedhika Parva, Adhyaya 94, Verse 4

देवराजः सहस्राक्षः क्रतुभिर्भूरिदक्षिणैः

देवराज्यं महातेजाः प्राप्तवानखिलं विभुः

Mahabharata

Ashvamedhika Parva, Adhyaya 94, Verse 5

यथा युधिष्ठिरो राजा भीमार्जुनपुरःसरः

सदृशो देवराजेन समृद्ध्या विक्रमेण च

Mahabharata

Ashvamedhika Parva, Adhyaya 94, Verse 6

अथ कस्मात्स नकुलो गर्हयामास तं क्रतुम्

अश्वमेधं महायज्ञं राज्ञस्तस्य महात्मनः

Mahabharata

Ashvamedhika Parva, Adhyaya 94, Verse 7

यज्ञस्य विधिमग्र्यं वै फलं चैव नरर्षभ

गदतः शृणु मे राजन्यथावदिह भारत

Mahabharata

Ashvamedhika Parva, Adhyaya 94, Verse 8

पुरा शक्रस्य यजतः सर्व ऊचुर्महर्षयः

ऋत्विक्षु कर्मव्यग्रेषु वितते यज्ञकर्मणि

Mahabharata

Ashvamedhika Parva, Adhyaya 94, Verse 9

हूयमाने तथा वह्नौ होत्रे बहुगुणान्विते

देवेष्वाहूयमानेषु स्थितेषु परमर्षिषु

Mahabharata

Ashvamedhika Parva, Adhyaya 94, Verse 10

सुप्रतीतैस्तदा विप्रैः स्वागमैः सुस्वनैर्नृप

अश्रान्तैश्चापि लघुभिरध्वर्युवृषभैस्तथा

Mahabharata

Ashvamedhika Parva, Adhyaya 94, Verse 11

आलम्भसमये तस्मिन्गृहीतेषु पशुष्वथ

महर्षयो महाराज संबभूवुः कृपान्विताः

Mahabharata

Ashvamedhika Parva, Adhyaya 94, Verse 12

ततो दीनान्पशून्दृष्ट्वा ऋषयस्ते तपोधनाः

ऊचुः शक्रं समागम्य नायं यज्ञविधिः शुभः

Mahabharata

Ashvamedhika Parva, Adhyaya 94, Verse 13

अपविज्ञानमेतत्ते महान्तं धर्ममिच्छतः

न हि यज्ञे पशुगणा विधिदृष्टाः पुरंदर

Mahabharata

Ashvamedhika Parva, Adhyaya 94, Verse 14

धर्मोपघातकस्त्वेष समारम्भस्तव प्रभो

नायं धर्मकृतो धर्मो न हिंसा धर्म उच्यते

Mahabharata

Ashvamedhika Parva, Adhyaya 94, Verse 15

आगमेनैव ते यज्ञं कुर्वन्तु यदि हेच्छसि

विधिदृष्टेन यज्ञेन धर्मस्ते सुमहान्भवेत्

Mahabharata

Ashvamedhika Parva, Adhyaya 94, Verse 16

यज बीजैः सहस्राक्ष त्रिवर्षपरमोषितैः

एष धर्मो महाञ्शक्र चिन्त्यमानोऽधिगम्यते

Mahabharata

Ashvamedhika Parva, Adhyaya 94, Verse 17

शतक्रतुस्तु तद्वाक्यमृषिभिस्तत्त्वदर्शिभिः

उक्तं न प्रतिजग्राह मानमोहवशानुगः

Mahabharata

Ashvamedhika Parva, Adhyaya 94, Verse 18

तेषां विवादः सुमहाञ्जज्ञे शक्रमहर्षिणाम्

जङ्गमैः स्थावरैर्वापि यष्टव्यमिति भारत

Mahabharata

Ashvamedhika Parva, Adhyaya 94, Verse 19

ते तु खिन्ना विवादेन ऋषयस्तत्त्वदर्शिनः

ततः संधाय शक्रेण पप्रच्छुर्नृपतिं वसुम्

Mahabharata

Ashvamedhika Parva, Adhyaya 94, Verse 20

महाभाग कथं यज्ञेष्वागमो नृपते स्मृतः

यष्टव्यं पशुभिर्मेध्यैरथो बीजैरजैरपि

Mahabharata

Ashvamedhika Parva, Adhyaya 94, Verse 21

तच्छ्रुत्वा तु वचस्तेषामविचार्य बलाबलम्

यथोपनीतैर्यष्टव्यमिति प्रोवाच पार्थिवः

Mahabharata

Ashvamedhika Parva, Adhyaya 94, Verse 22

एवमुक्त्वा स नृपतिः प्रविवेश रसातलम्

उक्त्वेह वितथं राजंश्चेदीनामीश्वरः प्रभुः

Mahabharata

Ashvamedhika Parva, Adhyaya 94, Verse 23

अन्यायोपगतं द्रव्यमतीतं यो ह्यपण्डितः

धर्माभिकाङ्क्षी यजते न धर्मफलमश्नुते

Mahabharata

Ashvamedhika Parva, Adhyaya 94, Verse 24

धर्मवैतंसिको यस्तु पापात्मा पुरुषस्तथा

ददाति दानं विप्रेभ्यो लोकविश्वासकारकम्

Mahabharata

Ashvamedhika Parva, Adhyaya 94, Verse 25

पापेन कर्मणा विप्रो धनं लब्ध्वा निरङ्कुशः

रागमोहान्वितः सोऽन्ते कलुषां गतिमाप्नुते

Mahabharata

Ashvamedhika Parva, Adhyaya 94, Verse 26

तेन दत्तानि दानानि पापेन हतबुद्धिना

तानि सत्त्वमनासाद्य नश्यन्ति विपुलान्यपि

Mahabharata

Ashvamedhika Parva, Adhyaya 94, Verse 27

तस्याधर्मप्रवृत्तस्य हिंसकस्य दुरात्मनः

दाने न कीर्तिर्भवति प्रेत्य चेह च दुर्मतेः

Mahabharata

Ashvamedhika Parva, Adhyaya 94, Verse 28

अपि संचयबुद्धिर्हि लोभमोहवशंगतः

उद्वेजयति भूतानि हिंसया पापचेतनः

Mahabharata

Ashvamedhika Parva, Adhyaya 94, Verse 29

एवं लब्ध्वा धनं लोभाद्यजते यो ददाति च

स कृत्वा कर्मणा तेन न सिध्यति दुरागमात्

Mahabharata

Ashvamedhika Parva, Adhyaya 94, Verse 30

उञ्छं मूलं फलं शाकमुदपात्रं तपोधनाः

दानं विभवतो दत्त्वा नराः स्वर्यान्ति धर्मिणः