Mahabharata

Ashvamedhika Parva, Adhyaya 93

Containing 93 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashvamedhika Parva, Adhyaya 93, Verse 1

हन्त वो वर्तयिष्यामि दानस्य परमं फलम्

न्यायलब्धस्य सूक्ष्मस्य विप्रदत्तस्य यद्द्विजाः

Mahabharata

Ashvamedhika Parva, Adhyaya 93, Verse 2

धर्मक्षेत्रे कुरुक्षेत्रे धर्मज्ञैर्बहुभिर्वृते

उञ्छवृत्तिर्द्विजः कश्चित्कापोतिरभवत्पुरा

Mahabharata

Ashvamedhika Parva, Adhyaya 93, Verse 3

सभार्यः सह पुत्रेण सस्नुषस्तपसि स्थितः

वधूचतुर्थो वृद्धः स धर्मात्मा नियतेन्द्रियः

Mahabharata

Ashvamedhika Parva, Adhyaya 93, Verse 4

षष्ठे काले तदा विप्रो भुङ्क्ते तैः सह सुव्रतः

षष्ठे काले कदाचिच्च तस्याहारो न विद्यते

भुङ्क्तेऽन्यस्मिन्कदाचित्स षष्ठे काले द्विजोत्तमः

Mahabharata

Ashvamedhika Parva, Adhyaya 93, Verse 5

कपोतधर्मिणस्तस्य दुर्भिक्षे सति दारुणे

नाविद्यत तदा विप्राः संचयस्तान्निबोधत

क्षीणौषधिसमावायो द्रव्यहीनोऽभवत्तदा

Mahabharata

Ashvamedhika Parva, Adhyaya 93, Verse 6

काले कालेऽस्य संप्राप्ते नैव विद्येत भोजनम्

क्षुधापरिगताः सर्वे प्रातिष्ठन्त तदा तु ते

Mahabharata

Ashvamedhika Parva, Adhyaya 93, Verse 7

उञ्छंस्तदा शुक्लपक्षे मध्यं तपति भास्करे

उष्णार्तश्च क्षुधार्तश्च स विप्रस्तपसि स्थितः

उञ्छमप्राप्तवानेव सार्धं परिजनेन ह

Mahabharata

Ashvamedhika Parva, Adhyaya 93, Verse 8

स तथैव क्षुधाविष्टः स्पृष्ट्वा तोयं यथाविधि

क्षपयामास तं कालं कृच्छ्रप्राणो द्विजोत्तमः

Mahabharata

Ashvamedhika Parva, Adhyaya 93, Verse 9

अथ षष्ठे गते काले यवप्रस्थमुपार्जयत्

यवप्रस्थं च ते सक्तूनकुर्वन्त तपस्विनः

Mahabharata

Ashvamedhika Parva, Adhyaya 93, Verse 10

कृतजप्याह्विकास्ते तु हुत्वा वह्निं यथाविधि

कुडवं कुडवं सर्वे व्यभजन्त तपस्विनः

Mahabharata

Ashvamedhika Parva, Adhyaya 93, Verse 11

अथागच्छद्द्विजः कश्चिदतिथिर्भुञ्जतां तदा

ते तं दृष्ट्वातिथिं तत्र प्रहृष्टमनसोऽभवन्

Mahabharata

Ashvamedhika Parva, Adhyaya 93, Verse 12

तेऽभिवाद्य सुखप्रश्नं पृष्ट्वा तमतिथिं तदा

विशुद्धमनसो दान्ताः श्रद्धादमसमन्विताः

Mahabharata

Ashvamedhika Parva, Adhyaya 93, Verse 13

अनसूयवो गतक्रोधाः साधवो गतमत्सराः

त्यक्तमाना जितक्रोधा धर्मज्ञा द्विजसत्तमाः

Mahabharata

Ashvamedhika Parva, Adhyaya 93, Verse 14

सब्रह्मचर्यं स्वं गोत्रं समाख्याय परस्परम्

कुटीं प्रवेशयामासुः क्षुधार्तमतिथिं तदा

Mahabharata

Ashvamedhika Parva, Adhyaya 93, Verse 15

इदमर्घ्यं च पाद्यं च बृसी चेयं तवानघ

शुचयः सक्तवश्चेमे नियमोपार्जिताः प्रभो

प्रतिगृह्णीष्व भद्रं ते मया दत्ता द्विजोत्तम

Mahabharata

Ashvamedhika Parva, Adhyaya 93, Verse 16

इत्युक्तः प्रतिगृह्याथ सक्तूनां कुडवं द्विजः

भक्षयामास राजेन्द्र न च तुष्टिं जगाम सः

Mahabharata

Ashvamedhika Parva, Adhyaya 93, Verse 17

स उञ्छवृत्तिः तं प्रेक्ष्य क्षुधापरिगतं द्विजम्

आहारं चिन्तयामास कथं तुष्टो भवेदिति

Mahabharata

Ashvamedhika Parva, Adhyaya 93, Verse 18

तस्य भार्याब्रवीद्राजन्मद्भागो दीयतामिति

गच्छत्वेष यथाकामं संतुष्टो द्विजसत्तमः

Mahabharata

Ashvamedhika Parva, Adhyaya 93, Verse 19

इति ब्रुवन्तीं तां साध्वीं धर्मात्मा स द्विजर्षभः

क्षुधापरिगतां ज्ञात्वा सक्तूंस्तान्नाभ्यनन्दत

Mahabharata

Ashvamedhika Parva, Adhyaya 93, Verse 20

जानन्वृद्धां क्षुधार्तां च श्रान्तां ग्लानां तपस्विनीम्

त्वगस्थिभूतां वेपन्तीं ततो भार्यामुवाच ताम्

Mahabharata

Ashvamedhika Parva, Adhyaya 93, Verse 21

अपि कीटपतंगानां मृगाणां चैव शोभने

स्त्रियो रक्ष्याश्च पोष्याश्च नैवं त्वं वक्तुमर्हसि

Mahabharata

Ashvamedhika Parva, Adhyaya 93, Verse 22

अनुकम्पितो नरो नार्या पुष्टो रक्षित एव च

प्रपतेद्यशसो दीप्तान्न च लोकानवाप्नुयात्

Mahabharata

Ashvamedhika Parva, Adhyaya 93, Verse 23

इत्युक्ता सा ततः प्राह धर्मार्थौ नौ समौ द्विज

सक्तुप्रस्थचतुर्भागं गृहाणेमं प्रसीद मे

Mahabharata

Ashvamedhika Parva, Adhyaya 93, Verse 24

सत्यं रतिश्च धर्मश्च स्वर्गश्च गुणनिर्जितः

स्त्रीणां पतिसमाधीनं काङ्क्षितं च द्विजोत्तम

Mahabharata

Ashvamedhika Parva, Adhyaya 93, Verse 25

ऋतुर्मातुः पितुर्बीजं दैवतं परमं पतिः

भर्तुः प्रसादात्स्त्रीणां वै रतिः पुत्रफलं तथा

Mahabharata

Ashvamedhika Parva, Adhyaya 93, Verse 26

पालनाद्धि पतिस्त्वं मे भर्तासि भरणान्मम

पुत्रप्रदानाद्वरदस्तस्मात्सक्तून्गृहाण मे

Mahabharata

Ashvamedhika Parva, Adhyaya 93, Verse 27

जरापरिगतो वृद्धः क्षुधार्तो दुर्बलो भृशम्

उपवासपरिश्रान्तो यदा त्वमपि कर्शितः

Mahabharata

Ashvamedhika Parva, Adhyaya 93, Verse 28

इत्युक्तः स तया सक्तून्प्रगृह्येदं वचोऽब्रवीत्

द्विज सक्तूनिमान्भूयः प्रतिगृह्णीष्व सत्तम

Mahabharata

Ashvamedhika Parva, Adhyaya 93, Verse 29

स तान्प्रगृह्य भुक्त्वा च न तुष्टिमगमद्द्विजः

तमुञ्छवृत्तिरालक्ष्य ततश्चिन्तापरोऽभवत्

Mahabharata

Ashvamedhika Parva, Adhyaya 93, Verse 30

सक्तूनिमान्प्रगृह्य त्वं देहि विप्राय सत्तम

इत्येवं सुकृतं मन्ये तस्मादेतत्करोम्यहम्