Mahabharata

Ashvamedhika Parva, Adhyaya 92

Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashvamedhika Parva, Adhyaya 92, Verse 1

पितामहस्य मे यज्ञे धर्मपुत्रस्य धीमतः

यदाश्चर्यमभूत्किंचित्तद्भवान्वक्तुमर्हति

Mahabharata

Ashvamedhika Parva, Adhyaya 92, Verse 2

श्रूयतां राजशार्दूल महदाश्चर्यमुत्तमम्

अश्वमेधे महायज्ञे निवृत्ते यदभूद्विभो

Mahabharata

Ashvamedhika Parva, Adhyaya 92, Verse 3

तर्पितेषु द्विजाग्र्येषु ज्ञातिसंबन्धिबन्धुषु

दीनान्धकृपणे चापि तदा भरतसत्तम

Mahabharata

Ashvamedhika Parva, Adhyaya 92, Verse 4

घुष्यमाणे महादाने दिक्षु सर्वासु भारत

पतत्सु पुष्पवर्षेषु धर्मराजस्य मूर्धनि

Mahabharata

Ashvamedhika Parva, Adhyaya 92, Verse 5

बिलान्निष्क्रम्य नकुलो रुक्मपार्श्वस्तदानघ

वज्राशनिसमं नादममुञ्चत विशां पते

Mahabharata

Ashvamedhika Parva, Adhyaya 92, Verse 6

सकृदुत्सृज्य तं नादं त्रासयानो मृगद्विजान्

मानुषं वचनं प्राह धृष्टो बिलशयो महान्

Mahabharata

Ashvamedhika Parva, Adhyaya 92, Verse 7

सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो नराधिपाः

उञ्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः

Mahabharata

Ashvamedhika Parva, Adhyaya 92, Verse 8

तस्य तद्वचनं श्रुत्वा नकुलस्य विशां पते

विस्मयं परमं जग्मुः सर्वे ते ब्राह्मणर्षभाः

Mahabharata

Ashvamedhika Parva, Adhyaya 92, Verse 9

ततः समेत्य नकुलं पर्यपृच्छन्त ते द्विजाः

कुतस्त्वं समनुप्राप्तो यज्ञं साधुसमागमम्

Mahabharata

Ashvamedhika Parva, Adhyaya 92, Verse 10

किं बलं परमं तुभ्यं किं श्रुतं किं परायणम्

कथं भवन्तं विद्याम यो नो यज्ञं विगर्हसे

Mahabharata

Ashvamedhika Parva, Adhyaya 92, Verse 11

अविलुप्यागमं कृत्स्नं विधिज्ञैर्याजकैः कृतम्

यथागमं यथान्यायं कर्तव्यं च यथाकृतम्

Mahabharata

Ashvamedhika Parva, Adhyaya 92, Verse 12

पूजार्हाः पूजिताश्चात्र विधिवच्छास्त्रचक्षुषा

मन्त्रपूतं हुतश्चाग्निर्दत्तं देयममत्सरम्

Mahabharata

Ashvamedhika Parva, Adhyaya 92, Verse 13

तुष्टा द्विजर्षभाश्चात्र दानैर्बहुविधैरपि

क्षत्रियाश्च सुयुद्धेन श्राद्धैरपि पितामहाः

Mahabharata

Ashvamedhika Parva, Adhyaya 92, Verse 14

पालनेन विशस्तुष्टाः कामैस्तुष्टा वरस्त्रियः

अनुक्रोशैस्तथा शूद्रा दानशेषैः पृथग्जनाः

Mahabharata

Ashvamedhika Parva, Adhyaya 92, Verse 15

ज्ञातिसंबन्धिनस्तुष्टाः शौचेन च नृपस्य नः

देवा हविर्भिः पुण्यैश्च रक्षणैः शरणागताः

Mahabharata

Ashvamedhika Parva, Adhyaya 92, Verse 16

यदत्र तथ्यं तद्ब्रूहि सत्यसंध द्विजातिषु

यथाश्रुतं यथादृष्टं पृष्टो ब्राह्मणकाम्यया

Mahabharata

Ashvamedhika Parva, Adhyaya 92, Verse 17

श्रद्धेयवाक्यः प्राज्ञस्त्वं दिव्यं रूपं बिभर्षि च

समागतश्च विप्रैस्त्वं तत्त्वतो वक्तुमर्हसि

Mahabharata

Ashvamedhika Parva, Adhyaya 92, Verse 18

इति पृष्टो द्विजैस्तैः स प्रहस्य नकुलोऽब्रवीत्

नैषानृता मया वाणी प्रोक्ता दर्पेण वा द्विजाः

Mahabharata

Ashvamedhika Parva, Adhyaya 92, Verse 19

यन्मयोक्तमिदं किंचिद्युष्माभिश्चाप्युपश्रुतम्

सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो नराधिपाः

उञ्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः

Mahabharata

Ashvamedhika Parva, Adhyaya 92, Verse 20

इत्यवश्यं मयैतद्वो वक्तव्यं द्विजपुंगवाः

शृणुताव्यग्रमनसः शंसतो मे द्विजर्षभाः

Mahabharata

Ashvamedhika Parva, Adhyaya 92, Verse 21

अनुभूतं च दृष्टं च यन्मयाद्भुतमुत्तमम्

उञ्छवृत्तेर्यथावृत्तं कुरुक्षेत्रनिवासिनः

Mahabharata

Ashvamedhika Parva, Adhyaya 92, Verse 22

स्वर्गं येन द्विजः प्राप्तः सभार्यः ससुतस्नुषः

यथा चार्धं शरीरस्य ममेदं काञ्चनीकृतम्