Mahabharata

Ashvamedhika Parva, Adhyaya 90

Containing 39 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashvamedhika Parva, Adhyaya 90, Verse 1

स प्रविश्य यथान्यायं पाण्डवानां निवेशनम्

पितामहीमभ्यवदत्साम्ना परमवल्गुना

Mahabharata

Ashvamedhika Parva, Adhyaya 90, Verse 2

तथा चित्राङ्गदा देवी कौरव्यस्यात्मजापि च

पृथां कृष्णां च सहिते विनयेनाभिजग्मतुः

सुभद्रां च यथान्यायं याश्चान्याः कुरुयोषितः

Mahabharata

Ashvamedhika Parva, Adhyaya 90, Verse 3

ददौ कुन्ती ततस्ताभ्यां रत्नानि विविधानि च

द्रौपदी च सुभद्रा च याश्चाप्यन्या ददुः स्त्रियः

Mahabharata

Ashvamedhika Parva, Adhyaya 90, Verse 4

ऊषतुस्तत्र ते देव्यौ महार्हशयनासने

सुपूजिते स्वयं कुन्त्या पार्थस्य प्रियकाम्यया

Mahabharata

Ashvamedhika Parva, Adhyaya 90, Verse 5

स च राजा महावीर्यः पूजितो बभ्रुवाहनः

धृतराष्ट्रं महीपालमुपतस्थे यथाविधि

Mahabharata

Ashvamedhika Parva, Adhyaya 90, Verse 6

युधिष्ठिरं च राजानं भीमादींश्चापि पाण्डवान्

उपगम्य महातेजा विनयेनाभ्यवादयत्

Mahabharata

Ashvamedhika Parva, Adhyaya 90, Verse 7

स तैः प्रेम्णा परिष्वक्तः पूजितश्च यथाविधि

धनं चास्मै ददुर्भूरि प्रीयमाणा महारथाः

Mahabharata

Ashvamedhika Parva, Adhyaya 90, Verse 8

तथैव स महीपालः कृष्णं चक्रगदाधरम्

प्रद्युम्न इव गोविन्दं विनयेनोपतस्थिवान्

Mahabharata

Ashvamedhika Parva, Adhyaya 90, Verse 9

तस्मै कृष्णो ददौ राज्ञे महार्हमभिपूजितम्

रथं हेमपरिष्कारं दिव्याश्वयुजमुत्तमम्

Mahabharata

Ashvamedhika Parva, Adhyaya 90, Verse 10

धर्मराजश्च भीमश्च यमजौ फल्गुनस्तथा

पृथक्पृथगतीवैनं मानार्हं समपूजयन्

Mahabharata

Ashvamedhika Parva, Adhyaya 90, Verse 11

ततस्तृतीये दिवसे सत्यवत्याः सुतो मुनिः

युधिष्ठिरं समभ्येत्य वाग्मी वचनमब्रवीत्

Mahabharata

Ashvamedhika Parva, Adhyaya 90, Verse 12

अद्य प्रभृति कौन्तेय यजस्व समयो हि ते

मुहूर्तो यज्ञियः प्राप्तश्चोदयन्ति च याजकाः

Mahabharata

Ashvamedhika Parva, Adhyaya 90, Verse 13

अहीनो नाम राजेन्द्र क्रतुस्तेऽयं विकल्पवान्

बहुत्वात्काञ्चनस्यास्य ख्यातो बहुसुवर्णकः

Mahabharata

Ashvamedhika Parva, Adhyaya 90, Verse 14

एवमेव महाराज दक्षिणां त्रिगुणां कुरु

त्रित्वं व्रजतु ते राजन्ब्राह्मणा ह्यत्र कारणम्

Mahabharata

Ashvamedhika Parva, Adhyaya 90, Verse 15

त्रीनश्वमेधानत्र त्वं संप्राप्य बहुदक्षिणान्

ज्ञातिवध्याकृतं पापं प्रहास्यसि नराधिप

Mahabharata

Ashvamedhika Parva, Adhyaya 90, Verse 16

पवित्रं परमं ह्येतत्पावनानां च पावनम्

यदश्वमेधावभृथं प्राप्स्यसे कुरुनन्दन

Mahabharata

Ashvamedhika Parva, Adhyaya 90, Verse 17

इत्युक्तः स तु तेजस्वी व्यासेनामिततेजसा

दीक्षां विवेश धर्मात्मा वाजिमेधाप्तये तदा

नराधिपः प्रायजत वाजिमेधं महाक्रतुम्

Mahabharata

Ashvamedhika Parva, Adhyaya 90, Verse 18

तत्र वेदविदो राजंश्चक्रुः कर्माणि याजकाः

परिक्रमन्तः शास्त्रज्ञा विधिवत्साधुशिक्षिताः

Mahabharata

Ashvamedhika Parva, Adhyaya 90, Verse 19

न तेषां स्खलितं तत्र नासीदपहुतं तथा

क्रमयुक्तं च युक्तं च चक्रुस्तत्र द्विजर्षभाः

Mahabharata

Ashvamedhika Parva, Adhyaya 90, Verse 20

कृत्वा प्रवर्ग्यं धर्मज्ञा यथावद्द्विजसत्तमाः

चक्रुस्ते विधिवद्राजंस्तथैवाभिषवं द्विजाः

Mahabharata

Ashvamedhika Parva, Adhyaya 90, Verse 21

अभिषूय ततो राजन्सोमं सोमपसत्तमाः

सवनान्यानुपूर्व्येण चक्रुः शास्त्रानुसारिणः

Mahabharata

Ashvamedhika Parva, Adhyaya 90, Verse 22

न तत्र कृपणः कश्चिन्न दरिद्रो बभूव ह

क्षुधितो दुःखितो वापि प्राकृतो वापि मानवः

Mahabharata

Ashvamedhika Parva, Adhyaya 90, Verse 23

भोजनं भोजनार्थिभ्यो दापयामास नित्यदा

भीमसेनो महातेजाः सततं राजशासनात्

Mahabharata

Ashvamedhika Parva, Adhyaya 90, Verse 24

संस्तरे कुशलाश्चापि सर्वकर्माणि याजकाः

दिवसे दिवसे चक्रुर्यथाशास्त्रार्थचक्षुषः

Mahabharata

Ashvamedhika Parva, Adhyaya 90, Verse 25

नाषडङ्गविदत्रासीत्सदस्यस्तस्य धीमतः

नाव्रतो नानुपाध्यायो न च वादाक्षमो द्विजः

Mahabharata

Ashvamedhika Parva, Adhyaya 90, Verse 26

ततो यूपोच्छ्रये प्राप्ते षड्बैल्वान्भरतर्षभ

खादिरान्बिल्वसमितांस्तावतः सर्ववर्णिनः

Mahabharata

Ashvamedhika Parva, Adhyaya 90, Verse 27

देवदारुमयौ द्वौ तु यूपौ कुरुपतेः क्रतौ

श्लेष्मातकमयं चैकं याजकाः समकारयन्

Mahabharata

Ashvamedhika Parva, Adhyaya 90, Verse 28

शोभार्थं चापरान्यूपान्काञ्चनान्पुरुषर्षभ

स भीमः कारयामास धर्मराजस्य शासनात्

Mahabharata

Ashvamedhika Parva, Adhyaya 90, Verse 29

ते व्यराजन्त राजर्षे वासोभिरुपशोभिताः

नरेन्द्राभिगता देवान्यथा सप्तर्षयो दिवि

Mahabharata

Ashvamedhika Parva, Adhyaya 90, Verse 30

इष्टकाः काञ्चनीश्चात्र चयनार्थं कृताभवन्

शुशुभे चयनं तत्र दक्षस्येव प्रजापतेः