Ashvamedhika Parva, Adhyaya 89, Verse 1
श्रुतं प्रियमिदं कृष्ण यत्त्वमर्हसि भाषितुम्
तन्मेऽमृतरसप्रख्यं मनो ह्लादयते विभो
Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.
श्रुतं प्रियमिदं कृष्ण यत्त्वमर्हसि भाषितुम्
तन्मेऽमृतरसप्रख्यं मनो ह्लादयते विभो
बहूनि किल युद्धानि विजयस्य नराधिपैः
पुनरासन्हृषीकेश तत्र तत्रेति मे श्रुतम्
मन्निमित्तं हि स सदा पार्थः सुखविवर्जितः
अतीव विजयो धीमानिति मे दूयते मनः
संचिन्तयामि वार्ष्णेय सदा कुन्तीसुतं रहः
किं नु तस्य शरीरेऽस्ति सर्वलक्षणपूजिते
अनिष्टं लक्षणं कृष्ण येन दुःखान्युपाश्नुते
अतीव दुःखभागी स सततं कुन्तिनन्दनः
न च पश्यामि बीभत्सोर्निन्द्यं गात्रेषु किंचन
श्रोतव्यं चेन्मयैतद्वै तन्मे व्याख्यातुमर्हसि
इत्युक्तः स हृषीकेशो ध्यात्वा सुमहदन्तरम्
राजानं भोजराजन्यवर्धनो विष्णुरब्रवीत्
न ह्यस्य नृपते किंचिदनिष्टमुपलक्षये
ऋते पुरुषसिंहस्य पिण्डिकेऽस्यातिकायतः
ताभ्यां स पुरुषव्याघ्रो नित्यमध्वसु युज्यते
न ह्यन्यदनुपश्यामि येनासौ दुःखभाग्जयः
इत्युक्तः स कुरुश्रेष्ठस्तथ्यं कृष्णेन धीमता
प्रोवाच वृष्णिशार्दूलमेवमेतदिति प्रभो
कृष्णा तु द्रौपदी कृष्णं तिर्यक्सासूयमैक्षत
प्रतिजग्राह तस्यास्तं प्रणयं चापि केशिहा
सख्युः सखा हृषीकेशः साक्षादिव धनंजयः
तत्र भीमादयस्ते तु कुरवो यादवास्तथा
रेमुः श्रुत्वा विचित्रार्था धनंजयकथा विभो
तथा कथयतामेव तेषामर्जुनसंकथाः
उपायाद्वचनान्मर्त्यो विजयस्य महात्मनः
सोऽभिगम्य कुरुश्रेष्ठं नमस्कृत्य च बुद्धिमान्
उपायातं नरव्याघ्रमर्जुनं प्रत्यवेदयत्
तच्छ्रुत्वा नृपतिस्तस्य हर्षबाष्पाकुलेक्षणः
प्रियाख्याननिमित्तं वै ददौ बहु धनं तदा
ततो द्वितीये दिवसे महाञ्शब्दो व्यवर्धत
आयाति पुरुषव्याघ्रे पाण्डवानां धुरंधरे
ततो रेणुः समुद्भूतो विबभौ तस्य वाजिनः
अभितो वर्तमानस्य यथोच्चैःश्रवसस्तथा
तत्र हर्षकला वाचो नराणां शुश्रुवेऽर्जुनः
दिष्ट्यासि पार्थ कुशली धन्यो राजा युधिष्ठिरः
कोऽन्यो हि पृथिवीं कृत्स्नामवजित्य सपार्थिवाम्
चारयित्वा हयश्रेष्ठमुपायायादृतेऽर्जुनम्
ये व्यतीता महात्मानो राजानः सगरादयः
तेषामपीदृशं कर्म न किंचिदनुशुश्रुम
नैतदन्ये करिष्यन्ति भविष्याः पृथिवीक्षितः
यत्त्वं कुरुकुलश्रेष्ठ दुष्करं कृतवानिह
इत्येवं वदतां तेषां नॄणां श्रुतिसुखा गिरः
शृण्वन्विवेश धर्मात्मा फल्गुनो यज्ञसंस्तरम्
ततो राजा सहामात्यः कृष्णश्च यदुनन्दनः
धृतराष्ट्रं पुरस्कृत्य ते तं प्रत्युद्ययुस्तदा
सोऽभिवाद्य पितुः पादौ धर्मराजस्य धीमतः
भीमादींश्चापि संपूज्य पर्यष्वजत केशवम्
तैः समेत्यार्चितस्तान्स प्रत्यर्च्य च यथाविधि
विशश्रामाथ धर्मात्मा तीरं लब्ध्वेव पारगः
एतस्मिन्नेव काले तु स राजा बभ्रुवाहनः
मातृभ्यां सहितो धीमान्कुरूनभ्याजगाम ह
स समेत्य कुरून्सर्वान्सर्वैस्तैरभिनन्दितः
प्रविवेश पितामह्याः कुन्त्या भवनमुत्तमम्