Mahabharata

Ashvamedhika Parva, Adhyaya 88

Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashvamedhika Parva, Adhyaya 88, Verse 1

समागतान्वेदविदो राज्ञश्च पृथिवीश्वरान्

दृष्ट्वा युधिष्ठिरो राजा भीमसेनमथाब्रवीत्

Mahabharata

Ashvamedhika Parva, Adhyaya 88, Verse 2

उपयाता नरव्याघ्रा य इमे जगदीश्वराः

एतेषां क्रियतां पूजा पूजार्हा हि नरेश्वराः

Mahabharata

Ashvamedhika Parva, Adhyaya 88, Verse 3

इत्युक्तः स तथा चक्रे नरेन्द्रेण यशस्विना

भीमसेनो महातेजा यमाभ्यां सह भारत

Mahabharata

Ashvamedhika Parva, Adhyaya 88, Verse 4

अथाभ्यगच्छद्गोविन्दो वृष्णिभिः सह धर्मजम्

बलदेवं पुरस्कृत्य सर्वप्राणभृतां वरः

Mahabharata

Ashvamedhika Parva, Adhyaya 88, Verse 5

युयुधानेन सहितः प्रद्युम्नेन गदेन च

निशठेनाथ साम्बेन तथैव कृतवर्मणा

Mahabharata

Ashvamedhika Parva, Adhyaya 88, Verse 6

तेषामपि परां पूजां चक्रे भीमो महाभुजः

विविशुस्ते च वेश्मानि रत्नवन्ति नरर्षभाः

Mahabharata

Ashvamedhika Parva, Adhyaya 88, Verse 7

युधिष्ठिरसमीपे तु कथान्ते मधुसूदनः

अर्जुनं कथयामास बहुसंग्रामकर्शितम्

Mahabharata

Ashvamedhika Parva, Adhyaya 88, Verse 8

स तं पप्रच्छ कौन्तेयः पुनः पुनररिंदमम्

धर्मराड्भ्रातरं जिष्णुं समाचष्ट जगत्पतिः

Mahabharata

Ashvamedhika Parva, Adhyaya 88, Verse 9

आगमद्द्वारकावासी ममाप्तः पुरुषो नृप

योऽद्राक्षीत्पाण्डवश्रेष्ठं बहुसंग्रामकर्शितम्

Mahabharata

Ashvamedhika Parva, Adhyaya 88, Verse 10

समीपे च महाबाहुमाचष्ट च मम प्रभो

कुरु कार्याणि कौन्तेय हयमेधार्थसिद्धये

Mahabharata

Ashvamedhika Parva, Adhyaya 88, Verse 11

इत्युक्तः प्रत्युवाचैनं धर्मराजो युधिष्ठिरः

दिष्ट्या स कुशली जिष्णुरुपयाति च माधव

Mahabharata

Ashvamedhika Parva, Adhyaya 88, Verse 12

तव यत्संदिदेशासौ पाण्डवानां बलाग्रणीः

तदाख्यातुमिहेच्छामि भवता यदुनन्दन

Mahabharata

Ashvamedhika Parva, Adhyaya 88, Verse 13

इत्युक्ते राजशार्दूल वृष्ण्यन्धकपतिस्तदा

प्रोवाचेदं वचो वाग्मी धर्मात्मानं युधिष्ठिरम्

Mahabharata

Ashvamedhika Parva, Adhyaya 88, Verse 14

इदमाह महाराज पार्थवाक्यं नरः स माम्

वाच्यो युधिष्ठिरः कृष्ण काले वाक्यमिदं मम

Mahabharata

Ashvamedhika Parva, Adhyaya 88, Verse 15

आगमिष्यन्ति राजानः सर्वतः कौरवान्प्रति

तेषामेकैकशः पूजा कार्येत्येतत्क्षमं हि नः

Mahabharata

Ashvamedhika Parva, Adhyaya 88, Verse 16

इत्येतद्वचनाद्राजा विज्ञाप्यो मम मानद

न तदात्ययिकं हि स्याद्यदर्घ्यानयने भवेत्

Mahabharata

Ashvamedhika Parva, Adhyaya 88, Verse 17

कर्तुमर्हति तद्राजा भवांश्चाप्यनुमन्यताम्

राजद्वेषाद्विनश्येयुर्नेमा राजन्प्रजाः पुनः

Mahabharata

Ashvamedhika Parva, Adhyaya 88, Verse 18

इदमन्यच्च कौन्तेय वचः स पुरुषोऽब्रवीत्

धनंजयस्य नृपते तन्मे निगदतः शृणु

Mahabharata

Ashvamedhika Parva, Adhyaya 88, Verse 19

उपयास्यति यज्ञं नो मणिपूरपतिर्नृपः

पुत्रो मम महातेजा दयितो बभ्रुवाहनः

Mahabharata

Ashvamedhika Parva, Adhyaya 88, Verse 20

तं भवान्मदपेक्षार्थं विधिवत्प्रतिपूजयेत्

स हि भक्तोऽनुरक्तश्च मम नित्यमिति प्रभो

Mahabharata

Ashvamedhika Parva, Adhyaya 88, Verse 21

इत्येतद्वचनं श्रुत्वा धर्मराजो युधिष्ठिरः

अभिनन्द्यास्य तद्वाक्यमिदं वचनमब्रवीत्