Ashvamedhika Parva, Adhyaya 87, Verse 1
तस्मिन्यज्ञे प्रवृत्ते तु वाग्मिनो हेतुवादिनः
हेतुवादान्बहून्प्राहुः परस्परजिगीषवः
Containing 16 sacred Sanskrit shlokas with multi-author commentaries and translations.
तस्मिन्यज्ञे प्रवृत्ते तु वाग्मिनो हेतुवादिनः
हेतुवादान्बहून्प्राहुः परस्परजिगीषवः
ददृशुस्तं नृपतयो यज्ञस्य विधिमुत्तमम्
देवेन्द्रस्येव विहितं भीमेन कुरुनन्दन
ददृशुस्तोरणान्यत्र शातकुम्भमयानि ते
शय्यासनविहारांश्च सुबहून्रत्नभूषितान्
घटान्पात्रीः कटाहानि कलशान्वर्धमानकान्
न हि किंचिदसौवर्णमपश्यंस्तत्र पार्थिवाः
यूपांश्च शास्त्रपठितान्दारवान्हेमभूषितान्
उपकॢप्तान्यथाकालं विधिवद्भूरिवर्चसः
स्थलजा जलजा ये च पशवः केचन प्रभो
सर्वानेव समानीतांस्तानपश्यन्त ते नृपाः
गाश्चैव महिषीश्चैव तथा वृद्धाः स्त्रियोऽपि च
औदकानि च सत्त्वानि श्वापदानि वयांसि च
जरायुजान्यण्डजानि स्वेदजान्युद्भिदानि च
पर्वतानूपवन्यानि भूतानि ददृशुश्च ते
एवं प्रमुदितं सर्वं पशुगोधनधान्यतः
यज्ञवाटं नृपा दृष्ट्वा परं विस्मयमागमन्
ब्राह्मणानां विशां चैव बहुमृष्टान्नमृद्धिमत्
पूर्णे शतसहस्रे तु विप्राणां तत्र भुञ्जताम्
दुन्दुभिर्मेघनिर्घोषो मुहुर्मुहुरताड्यत
विननादासकृत्सोऽथ दिवसे दिवसे तदा
एवं स ववृते यज्ञो धर्मराजस्य धीमतः
अन्नस्य बहवो राजन्नुत्सर्गाः पर्वतोपमाः
दधिकुल्याश्च ददृशुः सर्पिषश्च ह्रदाञ्जनाः
जम्बूद्वीपो हि सकलो नानाजनपदायुतः
राजन्नदृश्यतैकस्थो राज्ञस्तस्मिन्महाक्रतौ
तत्र जातिसहस्राणि पुरुषाणां ततस्ततः
गृहीत्वा धनमाजग्मुर्बहूनि भरतर्षभ
राजानः स्रग्विणश्चापि सुमृष्टमणिकुण्डलाः
पर्यवेषन्द्विजाग्र्यांस्ताञ्शतशोऽथ सहस्रशः
विविधान्यन्नपानानि पुरुषा येऽनुयायिनः
तेषां नृपोपभोज्यानि ब्राह्मणेभ्यो ददुः स्म ते