Ashvamedhika Parva, Adhyaya 84, Verse 1
मागधेनार्चितो राजन्पाण्डवः श्वेतवाहनः
दक्षिणां दिशमास्थाय चारयामास तं हयम्
Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.
मागधेनार्चितो राजन्पाण्डवः श्वेतवाहनः
दक्षिणां दिशमास्थाय चारयामास तं हयम्
ततः स पुनरावृत्य हयः कामचरो बली
आससाद पुरीं रम्यां चेदीनां शुक्तिसाह्वयाम्
शरभेणार्चितस्तत्र शिशुपालात्मजेन सः
युद्धपूर्वेण मानेन पूजया च महाबलः
तत्रार्चितो ययौ राजंस्तदा स तुरगोत्तमः
काशीनन्ध्रान्कोसलांश्च किरातानथ तङ्गणान्
तत्र पूजां यथान्यायं प्रतिगृह्य स पाण्डवः
पुनरावृत्य कौन्तेयो दशार्णानगमत्तदा
तत्र चित्राङ्गदो नाम बलवान्वसुधाधिपः
तेन युद्धमभूत्तस्य विजयस्यातिभैरवम्
तं चापि वशमानीय किरीटी पुरुषर्षभः
निषादराज्ञो विषयमेकलव्यस्य जग्मिवान्
एकलव्यसुतश्चैनं युद्धेन जगृहे तदा
ततश्चक्रे निषादैः स संग्रामं रोमहर्षणम्
ततस्तमपि कौन्तेयः समरेष्वपराजितः
जिगाय समरे वीरो यज्ञविघ्नार्थमुद्यतम्
स तं जित्वा महाराज नैषादिं पाकशासनिः
अर्चितः प्रययौ भूयो दक्षिणं सलिलार्णवम्
तत्रापि द्रविडैरन्ध्रै रौद्रैर्माहिषकैरपि
तथा कोल्लगिरेयैश्च युद्धमासीत्किरीटिनः
तुरगस्य वशेनाथ सुराष्ट्रानभितो ययौ
गोकर्णमपि चासाद्य प्रभासमपि जग्मिवान्
ततो द्वारवतीं रम्यां वृष्णिवीराभिरक्षिताम्
आससाद हयः श्रीमान्कुरुराजस्य यज्ञियः
तमुन्मथ्य हयश्रेष्ठं यादवानां कुमारकाः
प्रययुस्तांस्तदा राजन्नुग्रसेनो न्यवारयत्
ततः पुर्या विनिष्क्रम्य वृष्ण्यन्धकपतिस्तदा
सहितो वसुदेवेन मातुलेन किरीटिनः
तौ समेत्य कुरुश्रेष्ठं विधिवत्प्रीतिपूर्वकम्
परया भरतश्रेष्ठं पूजया समवस्थितौ
ततस्ताभ्यामनुज्ञातो ययौ येन हयो गतः
ततः स पश्चिमं देशं समुद्रस्य तदा हयः
क्रमेण व्यचरत्स्फीतं ततः पञ्चनदं ययौ
तस्मादपि स कौरव्य गान्धारविषयं हयः
विचचार यथाकामं कौन्तेयानुगतस्तदा
तत्र गान्धारराजेन युद्धमासीन्महात्मनः
घोरं शकुनिपुत्रेण पूर्ववैरानुसारिणा