Ashvamedhika Parva, Adhyaya 83, Verse 1
स तु वाजी समुद्रान्तां पर्येत्य पृथिवीमिमाम्
निवृत्तोऽभिमुखो राजन्येन नागाह्वयं पुरम्
Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.
स तु वाजी समुद्रान्तां पर्येत्य पृथिवीमिमाम्
निवृत्तोऽभिमुखो राजन्येन नागाह्वयं पुरम्
अनुगच्छंश्च तेजस्वी निवृत्तोऽथ किरीटभृत्
यदृच्छया समापेदे पुरं राजगृहं तदा
तमभ्याशगतं राजा जरासंधात्मजात्मजः
क्षत्रधर्मे स्थितो वीरः समरायाजुहाव ह
ततः पुरात्स निष्क्रम्य रथी धन्वी शरी तली
मेघसंधिः पदातिं तं धनंजयमुपाद्रवत्
आसाद्य च महातेजा मेघसंधिर्धनंजयम्
बालभावान्महाराज प्रोवाचेदं न कौशलात्
किमयं चार्यते वाजी स्त्रीमध्य इव भारत
हयमेनं हरिष्यामि प्रयतस्व विमोक्षणे
अदत्तानुनयो युद्धे यदि त्वं पितृभिर्मम
करिष्यामि तवातिथ्यं प्रहर प्रहरामि वा
इत्युक्तः प्रत्युवाचैनं पाण्डवः प्रहसन्निव
विघ्नकर्ता मया वार्य इति मे व्रतमाहितम्
भ्रात्रा ज्येष्ठेन नृपते तवापि विदितं ध्रुवम्
प्रहरस्व यथाशक्ति न मन्युर्विद्यते मम
इत्युक्तः प्राहरत्पूर्वं पाण्डवं मगधेश्वरः
किरञ्शरसहस्राणि वर्षाणीव सहस्रदृक्
ततो गाण्डीवभृच्छूरो गाण्डीवप्रेषितैः शरैः
चकार मोघांस्तान्बाणानयत्नाद्भरतर्षभ
स मोघं तस्य बाणौघं कृत्वा वानरकेतनः
शरान्मुमोच ज्वलितान्दीप्तास्यानिव पन्नगान्
ध्वजे पताकादण्डेषु रथयन्त्रे हयेषु च
अन्येषु च रथाङ्गेषु न शरीरे न सारथौ
संरक्ष्यमाणः पार्थेन शरीरे फल्गुनस्य ह
मन्यमानः स्ववीर्यं तन्मागधः प्राहिणोच्छरान्
ततो गाण्डीवभृच्छूरो मागधेन समाहतः
बभौ वासन्तिक इव पलाशः पुष्पितो महान्
अवध्यमानः सोऽभ्यघ्नन्मागधः पाण्डवर्षभम्
तेन तस्थौ स कौरव्य लोकवीरस्य दर्शने
सव्यसाची तु संक्रुद्धो विकृष्य बलवद्धनुः
हयांश्चकार निर्देहान्सारथेश्च शिरोऽहरत्
धनुश्चास्य महच्चित्रं क्षुरेण प्रचकर्त ह
हस्तावापं पताकां च ध्वजं चास्य न्यपातयत्
स राजा व्यथितो व्यश्वो विधनुर्हतसारथिः
गदामादाय कौन्तेयमभिदुद्राव वेगवान्
तस्यापतत एवाशु गदां हेमपरिष्कृताम्
शरैश्चकर्त बहुधा बहुभिर्गृध्रवाजितैः
सा गदा शकलीभूता विशीर्णमणिबन्धना
व्याली निर्मुच्यमानेव पपातास्य सहस्रधा
विरथं तं विधन्वानं गदया परिवर्जितम्
नैच्छत्ताडयितुं धीमानर्जुनः समराग्रणीः
तत एनं विमनसं क्षत्रधर्मे समास्थितम्
सान्त्वपूर्वमिदं वाक्यमब्रवीत्कपिकेतनः
पर्याप्तः क्षत्रधर्मोऽयं दर्शितः पुत्र गम्यताम्
बह्वेतत्समरे कर्म तव बालस्य पार्थिव
युधिष्ठिरस्य संदेशो न हन्तव्या नृपा इति
तेन जीवसि राजंस्त्वमपराद्धोऽपि मे रणे
इति मत्वा स चात्मानं प्रत्यादिष्टं स्म मागधः
तथ्यमित्यवगम्यैनं प्राञ्जलिः प्रत्यपूजयत्
तमर्जुनः समाश्वास्य पुनरेवेदमब्रवीत्
आगन्तव्यं परां चैत्रीमश्वमेधे नृपस्य नः
इत्युक्तः स तथेत्युक्त्वा पूजयामास तं हयम्
फल्गुनं च युधां श्रेष्ठं विधिवत्सहदेवजः
ततो यथेष्टमगमत्पुनरेव स केसरी
ततः समुद्रतीरेण वङ्गान्पुण्ड्रान्सकेरलान्
तत्र तत्र च भूरीणि म्लेच्छसैन्यान्यनेकशः
विजिग्ये धनुषा राजन्गाण्डीवेन धनंजयः