Mahabharata

Ashvamedhika Parva, Adhyaya 82

Containing 32 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashvamedhika Parva, Adhyaya 82, Verse 1

किमागमनकृत्यं ते कौरव्यकुलनन्दिनि

मणिपूरपतेर्मातुस्तथैव च रणाजिरे

Mahabharata

Ashvamedhika Parva, Adhyaya 82, Verse 2

कच्चित्कुशलकामासि राज्ञोऽस्य भुजगात्मजे

मम वा चञ्चलापाङ्गे कच्चित्त्वं शुभमिच्छसि

Mahabharata

Ashvamedhika Parva, Adhyaya 82, Verse 3

कच्चित्ते पृथुलश्रोणि नाप्रियं शुभदर्शने

अकार्षमहमज्ञानादयं वा बभ्रुवाहनः

Mahabharata

Ashvamedhika Parva, Adhyaya 82, Verse 4

कच्चिच्च राजपुत्री ते सपत्नी चैत्रवाहिनी

चित्राङ्गदा वरारोहा नापराध्यति किंचन

Mahabharata

Ashvamedhika Parva, Adhyaya 82, Verse 5

तमुवाचोरगपतेर्दुहिता प्रहसन्त्यथ

न मे त्वमपराद्धोऽसि न नृपो बभ्रुवाहनः

न जनित्री तथास्येयं मम या प्रेष्यवत्स्थिता

Mahabharata

Ashvamedhika Parva, Adhyaya 82, Verse 6

श्रूयतां यद्यथा चेदं मया सर्वं विचेष्टितम्

न मे कोपस्त्वया कार्यः शिरसा त्वां प्रसादये

Mahabharata

Ashvamedhika Parva, Adhyaya 82, Verse 7

त्वत्प्रीत्यर्थं हि कौरव्य कृतमेतन्मयानघ

यत्तच्छृणु महाबाहो निखिलेन धनंजय

Mahabharata

Ashvamedhika Parva, Adhyaya 82, Verse 8

महाभारतयुद्धे यत्त्वया शांतनवो नृपः

अधर्मेण हतः पार्थ तस्यैषा निष्कृतिः कृता

Mahabharata

Ashvamedhika Parva, Adhyaya 82, Verse 9

न हि भीष्मस्त्वया वीर युध्यमानो निपातितः

शिखण्डिना तु संसक्तस्तमाश्रित्य हतस्त्वया

Mahabharata

Ashvamedhika Parva, Adhyaya 82, Verse 10

तस्य शान्तिमकृत्वा तु त्यजेस्त्वं यदि जीवितम्

कर्मणा तेन पापेन पतेथा निरये ध्रुवम्

Mahabharata

Ashvamedhika Parva, Adhyaya 82, Verse 11

एषा तु विहिता शान्तिः पुत्राद्यां प्राप्तवानसि

वसुभिर्वसुधापाल गङ्गया च महामते

Mahabharata

Ashvamedhika Parva, Adhyaya 82, Verse 12

पुरा हि श्रुतमेतद्वै वसुभिः कथितं मया

गङ्गायास्तीरमागम्य हते शांतनवे नृपे

Mahabharata

Ashvamedhika Parva, Adhyaya 82, Verse 13

आप्लुत्य देवा वसवः समेत्य च महानदीम्

इदमूचुर्वचो घोरं भागीरथ्या मते तदा

Mahabharata

Ashvamedhika Parva, Adhyaya 82, Verse 14

एष शांतनवो भीष्मो निहतः सव्यसाचिना

अयुध्यमानः संग्रामे संसक्तोऽन्येन भामिनि

Mahabharata

Ashvamedhika Parva, Adhyaya 82, Verse 15

तदनेनाभिषङ्गेण वयमप्यर्जुनं शुभे

शापेन योजयामेति तथास्त्विति च साब्रवीत्

Mahabharata

Ashvamedhika Parva, Adhyaya 82, Verse 16

तदहं पितुरावेद्य भृशं प्रव्यथितेन्द्रिया

अभवं स च तच्छ्रुत्वा विषादमगमत्परम्

Mahabharata

Ashvamedhika Parva, Adhyaya 82, Verse 17

पिता तु मे वसून्गत्वा त्वदर्थं समयाचत

पुनः पुनः प्रसाद्यैनांस्त एनमिदमब्रुवन्

Mahabharata

Ashvamedhika Parva, Adhyaya 82, Verse 18

पुनस्तस्य महाभाग मणिपूरेश्वरो युवा

स एनं रणमध्यस्थं शरैः पातयिता भुवि

Mahabharata

Ashvamedhika Parva, Adhyaya 82, Verse 19

एवं कृते स नागेन्द्र मुक्तशापो भविष्यति

गच्छेति वसुभिश्चोक्तो मम चेदं शशंस सः

Mahabharata

Ashvamedhika Parva, Adhyaya 82, Verse 20

तच्छ्रुत्वा त्वं मया तस्माच्छापादसि विमोक्षितः

न हि त्वां देवराजोऽपि समरेषु पराजयेत्

Mahabharata

Ashvamedhika Parva, Adhyaya 82, Verse 21

आत्मा पुत्रः स्मृतस्तस्मात्तेनेहासि पराजितः

नात्र दोषो मम मतः कथं वा मन्यसे विभो

Mahabharata

Ashvamedhika Parva, Adhyaya 82, Verse 22

इत्येवमुक्तो विजयः प्रसन्नात्माब्रवीदिदम्

सर्वं मे सुप्रियं देवि यदेतत्कृतवत्यसि

Mahabharata

Ashvamedhika Parva, Adhyaya 82, Verse 23

इत्युक्त्वाथाब्रवीत्पुत्रं मणिपूरेश्वरं जयः

चित्राङ्गदायाः शृण्वन्त्याः कौरव्यदुहितुस्तथा

Mahabharata

Ashvamedhika Parva, Adhyaya 82, Verse 24

युधिष्ठिरस्याश्वमेधः परां चैत्रीं भविष्यति

तत्रागच्छेः सहामात्यो मातृभ्यां सहितो नृप

Mahabharata

Ashvamedhika Parva, Adhyaya 82, Verse 25

इत्येवमुक्तः पार्थेन स राजा बभ्रुवाहनः

उवाच पितरं धीमानिदमस्राविलेक्षणः

Mahabharata

Ashvamedhika Parva, Adhyaya 82, Verse 26

उपयास्यामि धर्मज्ञ भवतः शासनादहम्

अश्वमेधे महायज्ञे द्विजातिपरिवेषकः

Mahabharata

Ashvamedhika Parva, Adhyaya 82, Verse 27

मम त्वनुग्रहार्थाय प्रविशस्व पुरं स्वकम्

भार्याभ्यां सह शत्रुघ्न मा भूत्तेऽत्र विचारणा

Mahabharata

Ashvamedhika Parva, Adhyaya 82, Verse 28

उषित्वेह विशल्यस्त्वं सुखं स्वे वेश्मनि प्रभो

पुनरश्वानुगमनं कर्तासि जयतां वर

Mahabharata

Ashvamedhika Parva, Adhyaya 82, Verse 29

इत्युक्तः स तु पुत्रेण तदा वानरकेतनः

स्मयन्प्रोवाच कौन्तेयस्तदा चित्राङ्गदासुतम्

Mahabharata

Ashvamedhika Parva, Adhyaya 82, Verse 30

विदितं ते महाबाहो यथा दीक्षां चराम्यहम्

न स तावत्प्रवेक्ष्यामि पुरं ते पृथुलोचन