Mahabharata

Ashvamedhika Parva, Adhyaya 81

Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashvamedhika Parva, Adhyaya 81, Verse 1

प्रायोपविष्टे नृपतौ मणिपूरेश्वरे तदा

पितृशोकसमाविष्टे सह मात्रा परंतप

Mahabharata

Ashvamedhika Parva, Adhyaya 81, Verse 2

उलूपी चिन्तयामास तदा संजीवनं मणिम्

स चोपातिष्ठत तदा पन्नगानां परायणम्

Mahabharata

Ashvamedhika Parva, Adhyaya 81, Verse 3

तं गृहीत्वा तु कौरव्य नागराजपतेः सुता

मनःप्रह्लादनीं वाचं सैनिकानामथाब्रवीत्

Mahabharata

Ashvamedhika Parva, Adhyaya 81, Verse 4

उत्तिष्ठ मा शुचः पुत्र नैष जिष्णुस्त्वया हतः

अजेयः पुरुषैरेष देवैर्वापि सवासवैः

Mahabharata

Ashvamedhika Parva, Adhyaya 81, Verse 5

मया तु मोहिनी नाम मायैषा संप्रयोजिता

प्रियार्थं पुरुषेन्द्रस्य पितुस्तेऽद्य यशस्विनः

Mahabharata

Ashvamedhika Parva, Adhyaya 81, Verse 6

जिज्ञासुर्ह्येष वै पुत्र बलस्य तव कौरवः

संग्रामे युध्यतो राजन्नागतः परवीरहा

Mahabharata

Ashvamedhika Parva, Adhyaya 81, Verse 7

तस्मादसि मया पुत्र युद्धार्थं परिचोदितः

मा पापमात्मनः पुत्र शङ्केथास्त्वण्वपि प्रभो

Mahabharata

Ashvamedhika Parva, Adhyaya 81, Verse 8

ऋषिरेष महातेजाः पुरुषः शाश्वतोऽव्ययः

नैनं शक्तो हि संग्रामे जेतुं शक्रोऽपि पुत्रक

Mahabharata

Ashvamedhika Parva, Adhyaya 81, Verse 9

अयं तु मे मणिर्दिव्यः समानीतो विशां पते

मृतान्मृतान्पन्नगेन्द्रान्यो जीवयति नित्यदा

Mahabharata

Ashvamedhika Parva, Adhyaya 81, Verse 10

एतमस्योरसि त्वं तु स्थापयस्व पितुः प्रभो

संजीवितं पुनः पुत्र ततो द्रष्टासि पाण्डवम्

Mahabharata

Ashvamedhika Parva, Adhyaya 81, Verse 11

इत्युक्तः स्थापयामास तस्योरसि मणिं तदा

पार्थस्यामिततेजाः स पितुः स्नेहादपापकृत्

Mahabharata

Ashvamedhika Parva, Adhyaya 81, Verse 12

तस्मिन्न्यस्ते मणौ वीर जिष्णुरुज्जीवितः प्रभुः

सुप्तोत्थित इवोत्तस्थौ मृष्टलोहितलोचनः

Mahabharata

Ashvamedhika Parva, Adhyaya 81, Verse 13

तमुत्थितं महात्मानं लब्धसंज्ञं मनस्विनम्

समीक्ष्य पितरं स्वस्थं ववन्दे बभ्रुवाहनः

Mahabharata

Ashvamedhika Parva, Adhyaya 81, Verse 14

उत्थिते पुरुषव्याघ्रे पुनर्लक्ष्मीवति प्रभो

दिव्याः सुमनसः पुण्या ववृषे पाकशासनः

Mahabharata

Ashvamedhika Parva, Adhyaya 81, Verse 15

अनाहता दुन्दुभयः प्रणेदुर्मेघनिस्वनाः

साधु साध्विति चाकाशे बभूव सुमहान्स्वनः

Mahabharata

Ashvamedhika Parva, Adhyaya 81, Verse 16

उत्थाय तु महाबाहुः पर्याश्वस्तो धनंजयः

बभ्रुवाहनमालिङ्ग्य समाजिघ्रत मूर्धनि

Mahabharata

Ashvamedhika Parva, Adhyaya 81, Verse 17

ददर्श चाविदूरेऽस्य मातरं शोककर्शिताम्

उलूप्या सह तिष्ठन्तीं ततोऽपृच्छद्धनंजयः

Mahabharata

Ashvamedhika Parva, Adhyaya 81, Verse 18

किमिदं लक्ष्यते सर्वं शोकविस्मयहर्षवत्

रणाजिरममित्रघ्न यदि जानासि शंस मे

Mahabharata

Ashvamedhika Parva, Adhyaya 81, Verse 19

जननी च किमर्थं ते रणभूमिमुपागता

नागेन्द्रदुहिता चेयमुलूपी किमिहागता

Mahabharata

Ashvamedhika Parva, Adhyaya 81, Verse 20

जानाम्यहमिदं युद्धं त्वया मद्वचनात्कृतम्

स्त्रीणामागमने हेतुमहमिच्छामि वेदितुम्

Mahabharata

Ashvamedhika Parva, Adhyaya 81, Verse 21

तमुवाच ततः पृष्टो मणिपूरपतिस्तदा

प्रसाद्य शिरसा विद्वानुलूपी पृच्छ्यतामिति