Mahabharata

Ashvamedhika Parva, Adhyaya 80

Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashvamedhika Parva, Adhyaya 80, Verse 1

तथा विलप्योपरता भर्तुः पादौ प्रगृह्य सा

उपविष्टाभवद्देवी सोच्छ्वासं पुत्रमीक्षती

Mahabharata

Ashvamedhika Parva, Adhyaya 80, Verse 2

ततः संज्ञां पुनर्लब्ध्वा स राजा बभ्रुवाहनः

मातरं तामथालोक्य रणभूमावथाब्रवीत्

Mahabharata

Ashvamedhika Parva, Adhyaya 80, Verse 3

इतो दुःखतरं किं नु यन्मे माता सुखैधिता

भूमौ निपतितं वीरमनुशेते मृतं पतिम्

Mahabharata

Ashvamedhika Parva, Adhyaya 80, Verse 4

निहन्तारं रणेऽरीणां सर्वशस्त्रभृतां वरम्

मया विनिहतं संख्ये प्रेक्षते दुर्मरं बत

Mahabharata

Ashvamedhika Parva, Adhyaya 80, Verse 5

अहोऽस्या हृदयं देव्या दृढं यन्न विदीर्यते

व्यूढोरस्कं महाबाहुं प्रेक्षन्त्या निहतं पतिम्

Mahabharata

Ashvamedhika Parva, Adhyaya 80, Verse 6

दुर्मरं पुरुषेणेह मन्ये ह्यध्वन्यनागते

यत्र नाहं न मे माता विप्रयुज्येत जीवितात्

Mahabharata

Ashvamedhika Parva, Adhyaya 80, Verse 7

अहो धिक्कुरुवीरस्य ह्युरःस्थं काञ्चनं भुवि

व्यपविद्धं हतस्येह मया पुत्रेण पश्यत

Mahabharata

Ashvamedhika Parva, Adhyaya 80, Verse 8

भो भो पश्यत मे वीरं पितरं ब्राह्मणा भुवि

शयानं वीरशयने मया पुत्रेण पातितम्

Mahabharata

Ashvamedhika Parva, Adhyaya 80, Verse 9

ब्राह्मणाः कुरुमुख्यस्य प्रयुक्ता हयसारिणः

कुर्वन्तु शान्तिकां त्वद्य रणे योऽयं मया हतः

Mahabharata

Ashvamedhika Parva, Adhyaya 80, Verse 10

व्यादिशन्तु च किं विप्राः प्रायश्चित्तमिहाद्य मे

सुनृशंसस्य पापस्य पितृहन्तू रणाजिरे

Mahabharata

Ashvamedhika Parva, Adhyaya 80, Verse 11

दुश्चरा द्वादश समा हत्वा पितरमद्य वै

ममेह सुनृशंसस्य संवीतस्यास्य चर्मणा

Mahabharata

Ashvamedhika Parva, Adhyaya 80, Verse 12

शिरःकपाले चास्यैव भुञ्जतः पितुरद्य मे

प्रायश्चित्तं हि नास्त्यन्यद्धत्वाद्य पितरं मम

Mahabharata

Ashvamedhika Parva, Adhyaya 80, Verse 13

पश्य नागोत्तमसुते भर्तारं निहतं मया

कृतं प्रियं मया तेऽद्य निहत्य समरेऽर्जुनम्

Mahabharata

Ashvamedhika Parva, Adhyaya 80, Verse 14

सोऽहमप्यद्य यास्यामि गतिं पितृनिषेविताम्

न शक्नोम्यात्मनात्मानमहं धारयितुं शुभे

Mahabharata

Ashvamedhika Parva, Adhyaya 80, Verse 15

सा त्वं मयि मृते मातस्तथा गाण्डीवधन्वनि

भव प्रीतिमती देवि सत्येनात्मानमालभे

Mahabharata

Ashvamedhika Parva, Adhyaya 80, Verse 16

इत्युक्त्वा स तदा राजा दुःखशोकसमाहतः

उपस्पृश्य महाराज दुःखाद्वचनमब्रवीत्

Mahabharata

Ashvamedhika Parva, Adhyaya 80, Verse 17

शृण्वन्तु सर्वभूतानि स्थावराणि चराणि च

त्वं च मातर्यथा सत्यं ब्रवीमि भुजगोत्तमे

Mahabharata

Ashvamedhika Parva, Adhyaya 80, Verse 18

यदि नोत्तिष्ठति जयः पिता मे भरतर्षभः

अस्मिन्नेव रणोद्देशे शोषयिष्ये कलेवरम्

Mahabharata

Ashvamedhika Parva, Adhyaya 80, Verse 19

न हि मे पितरं हत्वा निष्कृतिर्विद्यते क्वचित्

नरकं प्रतिपत्स्यामि ध्रुवं गुरुवधार्दितः

Mahabharata

Ashvamedhika Parva, Adhyaya 80, Verse 20

वीरं हि क्षत्रियं हत्वा गोशतेन प्रमुच्यते

पितरं तु निहत्यैवं दुस्तरा निष्कृतिर्मया

Mahabharata

Ashvamedhika Parva, Adhyaya 80, Verse 21

एष ह्येको महातेजाः पाण्डुपुत्रो धनंजयः

पिता च मम धर्मात्मा तस्य मे निष्कृतिः कुतः

Mahabharata

Ashvamedhika Parva, Adhyaya 80, Verse 22

इत्येवमुक्त्वा नृपते धनंजयसुतो नृपः

उपस्पृश्याभवत्तूष्णीं प्रायोपेतो महामतिः