Ashvamedhika Parva, Adhyaya 79, Verse 1
ततो बहुविधं भीरुर्विलप्य कमलेक्षणा
मुमोह दुःखाद्दुर्धर्षा निपपात च भूतले
Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततो बहुविधं भीरुर्विलप्य कमलेक्षणा
मुमोह दुःखाद्दुर्धर्षा निपपात च भूतले
प्रतिलभ्य च सा संज्ञां देवी दिव्यवपुर्धरा
उलूपीं पन्नगसुतां दृष्ट्वेदं वाक्यमब्रवीत्
उलूपि पश्य भर्तारं शयानं निहतं रणे
त्वत्कृते मम पुत्रेण बालेन समितिंजयम्
ननु त्वमार्ये धर्मज्ञा ननु चासि पतिव्रता
यत्त्वत्कृतेऽयं पतितः पतिस्ते निहतो रणे
किं तु सर्वापराधोऽयं यदि तेऽद्य धनंजयः
क्षमस्व याच्यमाना मे संजीवय धनंजयम्
ननु त्वमार्ये धर्मज्ञा त्रैलोक्यविदिता शुभे
यद्घातयित्वा भर्तारं पुत्रेणेह न शोचसि
नाहं शोचामि तनयं निहतं पन्नगात्मजे
पतिमेव तु शोचामि यस्यातिथ्यमिदं कृतम्
इत्युक्त्वा सा तदा देवीमुलूपीं पन्नगात्मजाम्
भर्तारमभिगम्येदमित्युवाच यशस्विनी
उत्तिष्ठ कुरुमुख्यस्य प्रियकाम मम प्रिय
अयमश्वो महाबाहो मया ते परिमोक्षितः
ननु नाम त्वया वीर धर्मराजस्य यज्ञियः
अयमश्वोऽनुसर्तव्यः स शेषे किं महीतले
त्वयि प्राणाः समायत्ताः कुरूणां कुरुनन्दन
स कस्मात्प्राणदोऽन्येषां प्राणान्संत्यक्तवानसि
उलूपि साधु संपश्य भर्तारं निहतं रणे
पुत्रं चैनं समुत्साह्य घातयित्वा न शोचसि
कामं स्वपितु बालोऽयं भूमौ प्रेतगतिं गतः
लोहिताक्षो गुडाकेशो विजयः साधु जीवतु
नापराधोऽस्ति सुभगे नराणां बहुभार्यता
नारीणां तु भवत्येतन्मा ते भूद्बुद्धिरीदृशी
सख्यं ह्येतत्कृतं धात्रा शाश्वतं चाव्ययं च ह
सख्यं समभिजानीहि सत्यं संगतमस्तु ते
पुत्रेण घातयित्वेमं पतिं यदि न मेऽद्य वै
जीवन्तं दर्शयस्यद्य परित्यक्ष्यामि जीवितम्
साहं दुःखान्विता भीरु पतिपुत्रविनाकृता
इहैव प्रायमाशिष्ये प्रेक्षन्त्यास्ते न संशयः
इत्युक्त्वा पन्नगसुतां सपत्नीं चैत्रवाहिनी
ततः प्रायमुपासीना तूष्णीमासीज्जनाधिप