Ashvamedhika Parva, Adhyaya 78, Verse 1
श्रुत्वा तु नृपतिर्वीरं पितरं बभ्रुवाहनः
निर्ययौ विनयेनार्यो ब्राह्मणार्घ्यपुरःसरः
Containing 39 sacred Sanskrit shlokas with multi-author commentaries and translations.
श्रुत्वा तु नृपतिर्वीरं पितरं बभ्रुवाहनः
निर्ययौ विनयेनार्यो ब्राह्मणार्घ्यपुरःसरः
मणिपूरेश्वरं त्वेवमुपयातं धनंजयः
नाभ्यनन्दत मेधावी क्षत्रधर्ममनुस्मरन्
उवाच चैनं धर्मात्मा समन्युः फल्गुनस्तदा
प्रक्रियेयं न ते युक्ता बहिस्त्वं क्षत्रधर्मतः
संरक्ष्यमाणं तुरगं यौधिष्ठिरमुपागतम्
यज्ञियं विषयान्ते मां नायोत्सीः किं नु पुत्रक
धिक्त्वामस्तु सुदुर्बुद्धिं क्षत्रधर्माविशारदम्
यो मां युद्धाय संप्राप्तं साम्नैवाथो त्वमग्रहीः
न त्वया पुरुषार्थश्च कश्चिदस्तीह जीवता
यस्त्वं स्त्रीवद्युधा प्राप्तं साम्ना मां प्रत्यगृह्णथाः
यद्यहं न्यस्तशस्त्रस्त्वामागच्छेयं सुदुर्मते
प्रक्रियेयं ततो युक्ता भवेत्तव नराधम
तमेवमुक्तं भर्त्रा तु विदित्वा पन्नगात्मजा
अमृष्यमाणा भित्त्वोर्वीमुलूपी तमुपागमत्
सा ददर्श ततः पुत्रं विमृशन्तमधोमुखम्
संतर्ज्यमानमसकृद्भर्त्रा युद्धार्थिना विभो
ततः सा चारुसर्वाङ्गी तमुपेत्योरगात्मजा
उलूपी प्राह वचनं क्षत्रधर्मविशारदा
उलूपीं मां निबोध त्वं मातरं पन्नगात्मजाम्
कुरुष्व वचनं पुत्र धर्मस्ते भविता परः
युध्यस्वैनं कुरुश्रेष्ठं धनंजयमरिंदम
एवमेष हि ते प्रीतो भविष्यति न संशयः
एवमुद्धर्षितो मात्रा स राजा बभ्रुवाहनः
मनश्चक्रे महातेजा युद्धाय भरतर्षभ
संनह्य काञ्चनं वर्म शिरस्त्राणं च भानुमत्
तूणीरशतसंबाधमारुरोह महारथम्
सर्वोपकरणैर्युक्तं युक्तमश्वैर्मनोजवैः
सुचक्रोपस्करं धीमान्हेमभाण्डपरिष्कृतम्
परमार्चितमुच्छ्रित्य ध्वजं सिंहं हिरण्मयम्
प्रययौ पार्थमुद्दिश्य स राजा बभ्रुवाहनः
ततोऽभ्येत्य हयं वीरो यज्ञियं पार्थरक्षितम्
ग्राहयामास पुरुषैर्हयशिक्षाविशारदैः
गृहीतं वाजिनं दृष्ट्वा प्रीतात्मा स धनंजयः
पुत्रं रथस्थं भूमिष्ठः संन्यवारयदाहवे
ततः स राजा तं वीरं शरव्रातैः सहस्रशः
अर्दयामास निशितैराशीविषविषोपमैः
तयोः समभवद्युद्धं पितुः पुत्रस्य चातुलम्
देवासुररणप्रख्यमुभयोः प्रीयमाणयोः
किरीटिनं तु विव्याध शरेण नतपर्वणा
जत्रुदेशे नरव्याघ्रः प्रहसन्बभ्रुवाहनः
सोऽभ्यगात्सह पुङ्खेन वल्मीकमिव पन्नगः
विनिर्भिद्य च कौन्तेयं महीतलमथाविशत्
स गाढवेदनो धीमानालम्ब्य धनुरुत्तमम्
दिव्यं तेजः समाविश्य प्रमीत इव संबभौ
स संज्ञामुपलभ्याथ प्रशस्य पुरुषर्षभः
पुत्रं शक्रात्मजो वाक्यमिदमाह महीपते
साधु साधु महाबाहो वत्स चित्राङ्गदात्मज
सदृशं कर्म ते दृष्ट्वा प्रीतिमानस्मि पुत्रक
विमुञ्चाम्येष बाणांस्ते पुत्र युद्धे स्थिरो भव
इत्येवमुक्त्वा नाराचैरभ्यवर्षदमित्रहा
तान्स गाण्डीवनिर्मुक्तान्वज्राशनिसमप्रभान्
नाराचैरच्छिनद्राजा सर्वानेव त्रिधा त्रिधा
तस्य पार्थः शरैर्दिव्यैर्ध्वजं हेमपरिष्कृतम्
सुवर्णतालप्रतिमं क्षुरेणापाहरद्रथात्
हयांश्चास्य महाकायान्महावेगपराक्रमान्
चकार राज्ञो निर्जीवान्प्रहसन्पाण्डवर्षभः
स रथादवतीर्याशु राजा परमकोपनः
पदातिः पितरं कोपाद्योधयामास पाण्डवम्