Ashvamedhika Parva, Adhyaya 76, Verse 1
सैन्धवैरभवद्युद्धं ततस्तस्य किरीटिनः
हतशेषैर्महाराज हतानां च सुतैरपि
Containing 32 sacred Sanskrit shlokas with multi-author commentaries and translations.
सैन्धवैरभवद्युद्धं ततस्तस्य किरीटिनः
हतशेषैर्महाराज हतानां च सुतैरपि
तेऽवतीर्णमुपश्रुत्य विषयं श्वेतवाहनम्
प्रत्युद्ययुरमृष्यन्तो राजानः पाण्डवर्षभम्
अश्वं च तं परामृश्य विषयान्ते विषोपमाः
न भयं चक्रिरे पार्थाद्भीमसेनादनन्तरात्
तेऽविदूराद्धनुष्पाणिं यज्ञियस्य हयस्य च
बीभत्सुं प्रत्यपद्यन्त पदातिनमवस्थितम्
ततस्ते तु महावीर्या राजानः पर्यवारयन्
जिगीषन्तो नरव्याघ्राः पूर्वं विनिकृता युधि
ते नामान्यथ गोत्राणि कर्माणि विविधानि च
कीर्तयन्तस्तदा पार्थं शरवर्षैरवाकिरन्
ते किरन्तः शरांस्तीक्ष्णान्वारणेन्द्रनिवारणान्
रणे जयमभीप्सन्तः कौन्तेयं पर्यवारयन्
तेऽसमीक्ष्यैव तं वीरमुग्रकर्माणमाहवे
सर्वे युयुधिरे वीरा रथस्थास्तं पदातिनम्
ते तमाजघ्निरे वीरं निवातकवचान्तकम्
संशप्तकनिहन्तारं हन्तारं सैन्धवस्य च
ततो रथसहस्रेण हयानामयुतेन च
कोष्ठकीकृत्य कौन्तेयं संप्रहृष्टमयोधयन्
संस्मरन्तो वधं वीराः सिन्धुराजस्य धीमतः
जयद्रथस्य कौरव्य समरे सव्यसाचिना
ततः पर्जन्यवत्सर्वे शरवृष्टिमवासृजन्
तैः कीर्णः शुशुभे पार्थो रविर्मेघान्तरे यथा
स शरैः समवच्छन्नो ददृशे पाण्डवर्षभः
पञ्जरान्तरसंचारी शकुन्त इव भारत
ततो हाहाकृतं सर्वं कौन्तेये शरपीडिते
त्रैलोक्यमभवद्राजन्रविश्चासीद्रजोरुणः
ततो ववौ महाराज मारुतो रोमहर्षणः
राहुरग्रसदादित्यं युगपत्सोममेव च
उल्काश्च जघ्निरे सूर्यं विकीर्यन्त्यः समन्ततः
वेपथुश्चाभवद्राजन्कैलासस्य महागिरेः
मुमुचुश्चास्रमत्युष्णं दुःखशोकसमन्विताः
सप्तर्षयो जातभयास्तथा देवर्षयोऽपि च
शशश्चाशु विनिर्भिद्य मण्डलं शशिनोऽपतत्
विपरीतस्तदा राजंस्तस्मिन्नुत्पातलक्षणे
रासभारुणसंकाशा धनुष्मन्तः सविद्युतः
आवृत्य गगनं मेघा मुमुचुर्मांसशोणितम्
एवमासीत्तदा वीरे शरवर्षाभिसंवृते
लोकेऽस्मिन्भरतश्रेष्ठ तदद्भुतमिवाभवत्
तस्य तेनावकीर्णस्य शरजालेन सर्वशः
मोहात्पपात गाण्डीवमावापश्च करादपि
तस्मिन्मोहमनुप्राप्ते शरजालं महत्तरम्
सैन्धवा मुमुचुस्तूर्णं गतसत्त्वे महारथे
ततो मोहसमापन्नं ज्ञात्वा पार्थं दिवौकसः
सर्वे वित्रस्तमनसस्तस्य शान्तिपराभवन्
ततो देवर्षयः सर्वे तथा सप्तर्षयोऽपि च
ब्रह्मर्षयश्च विजयं जेपुः पार्थस्य धीमतः
ततः प्रदीपिते देवैः पार्थतेजसि पार्थिव
तस्थावचलवद्धीमान्संग्रामे परमास्त्रवित्
विचकर्ष धनुर्दिव्यं ततः कौरवनन्दनः
यन्त्रस्येवेह शब्दोऽभून्महांस्तस्य पुनः पुनः
ततः स शरवर्षाणि प्रत्यमित्रान्प्रति प्रभुः
ववर्ष धनुषा पार्थो वर्षाणीव सुरेश्वरः
ततस्ते सैन्धवा योधाः सर्व एव सराजकाः
नादृश्यन्त शरैः कीर्णाः शलभैरिव पावकाः
तस्य शब्देन वित्रेसुर्भयार्ताश्च विदुद्रुवुः
मुमुचुश्चाश्रु शोकार्ताः सुषुपुश्चापि सैन्धवाः
तांस्तु सर्वान्नरश्रेष्ठः सर्वतो विचरन्बली
अलातचक्रवद्राजञ्शरजालैः समर्पयत्