Ashvamedhika Parva, Adhyaya 75, Verse 1
एवं त्रिरात्रमभवत्तद्युद्धं भरतर्षभ
अर्जुनस्य नरेन्द्रेण वृत्रेणेव शतक्रतोः
Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.
एवं त्रिरात्रमभवत्तद्युद्धं भरतर्षभ
अर्जुनस्य नरेन्द्रेण वृत्रेणेव शतक्रतोः
ततश्चतुर्थे दिवसे वज्रदत्तो महाबलः
जहास सस्वनं हासं वाक्यं चेदमथाब्रवीत्
अर्जुनार्जुन तिष्ठस्व न मे जीवन्विमोक्ष्यसे
त्वां निहत्य करिष्यामि पितुस्तोयं यथाविधि
त्वया वृद्धो मम पिता भगदत्तः पितुः सखा
हतो वृद्धोऽपचायित्वाच्छिशुं मामद्य योधय
इत्येवमुक्त्वा संक्रुद्धो वज्रदत्तो नराधिपः
प्रेषयामास कौरव्य वारणं पाण्डवं प्रति
संप्रेष्यमाणो नागेन्द्रो वज्रदत्तेन धीमता
उत्पतिष्यन्निवाकाशमभिदुद्राव पाण्डवम्
अग्रहस्तप्रमुक्तेन शीकरेण स फल्गुनम्
समुक्षत महाराज शैलं नील इवाम्बुदः
स तेन प्रेषितो राज्ञा मेघवन्निनदन्मुहुः
मुखाडम्बरघोषेण समाद्रवत फल्गुनम्
स नृत्यन्निव नागेन्द्रो वज्रदत्तप्रचोदितः
आससाद द्रुतं राजन्कौरवाणां महारथम्
तमापतन्तं संप्रेक्ष्य वज्रदत्तस्य वारणम्
गाण्डीवमाश्रित्य बली न व्यकम्पत शत्रुहा
चुक्रोध बलवच्चापि पाण्डवस्तस्य भूपतेः
कार्यविघ्नमनुस्मृत्य पूर्ववैरं च भारत
ततस्तं वारणं क्रुद्धः शरजालेन पाण्डवः
निवारयामास तदा वेलेव मकरालयम्
स नागप्रवरो वीर्यादर्जुनेन निवारितः
तस्थौ शरैर्वितुन्नाङ्गः श्वाविच्छललितो यथा
निवारितं गजं दृष्ट्वा भगदत्तात्मजो नृपः
उत्ससर्ज शितान्बाणानर्जुने क्रोधमूर्छितः
अर्जुनस्तु महाराज शरैः शरविघातिभिः
वारयामास तानस्तांस्तदद्भुतमिवाभवत्
ततः पुनरतिक्रुद्धो राजा प्राग्ज्योतिषाधिपः
प्रेषयामास नागेन्द्रं बलवच्छ्वसनोपमम्
तमापतन्तं संप्रेक्ष्य बलवान्पाकशासनिः
नाराचमग्निसंकाशं प्राहिणोद्वारणं प्रति
स तेन वारणो राजन्मर्मण्यभिहतो भृशम्
पपात सहसा भूमौ वज्ररुग्ण इवाचलः
स पतञ्शुशुभे नागो धनंजयशराहतः
विशन्निव महाशैलो महीं वज्रप्रपीडितः
तस्मिन्निपतिते नागे वज्रदत्तस्य पाण्डवः
तं न भेतव्यमित्याह ततो भूमिगतं नृपम्
अब्रवीद्धि महातेजाः प्रस्थितं मां युधिष्ठिरः
राजानस्ते न हन्तव्या धनंजय कथंचन
सर्वमेतन्नरव्याघ्र भवत्वेतावता कृतम्
योधाश्चापि न हन्तव्या धनंजय रणे त्वया
वक्तव्याश्चापि राजानः सर्वैः सह सुहृज्जनैः
युधिष्ठिरस्याश्वमेधो भवद्भिरनुभूयताम्
इति भ्रातृवचः श्रुत्वा न हन्मि त्वां जनाधिप
उत्तिष्ठ न भयं तेऽस्ति स्वस्तिमान्गच्छ पार्थिव
आगच्छेथा महाराज परां चैत्रीमुपस्थिताम्
तदाश्वमेधो भविता धर्मराजस्य धीमतः
एवमुक्तः स राजा तु भगदत्तात्मजस्तदा
तथेत्येवाब्रवीद्वाक्यं पाण्डवेनाभिनिर्जितः