Ashvamedhika Parva, Adhyaya 74, Verse 1
प्राग्ज्योतिषमथाभ्येत्य व्यचरत्स हयोत्तमः
भगदत्तात्मजस्तत्र निर्ययौ रणकर्कशः
Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.
प्राग्ज्योतिषमथाभ्येत्य व्यचरत्स हयोत्तमः
भगदत्तात्मजस्तत्र निर्ययौ रणकर्कशः
स हयं पाण्डुपुत्रस्य विषयान्तमुपागतम्
युयुधे भरतश्रेष्ठ वज्रदत्तो महीपतिः
सोऽभिनिर्याय नगराद्भगदत्तसुतो नृपः
अश्वमायान्तमुन्मथ्य नगराभिमुखो ययौ
तमालक्ष्य महाबाहुः कुरूणामृषभस्तदा
गाण्डीवं विक्षिपंस्तूर्णं सहसा समुपाद्रवत्
ततो गाण्डीवनिर्मुक्तैरिषुभिर्मोहितो नृपः
हयमुत्सृज्य तं वीरस्ततः पार्थमुपाद्रवत्
पुनः प्रविश्य नगरं दंशितः स नृपोत्तमः
आरुह्य नागप्रवरं निर्ययौ युद्धकाङ्क्षया
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि
दोधूयता चामरेण श्वेतेन च महारथः
ततः पार्थं समासाद्य पाण्डवानां महारथम्
आह्वयामास कौरव्यं बाल्यान्मोहाच्च संयुगे
स वारणं नगप्रख्यं प्रभिन्नकरटामुखम्
प्रेषयामास संक्रुद्धस्ततः श्वेतहयं प्रति
विक्षरन्तं यथा मेघं परवारणवारणम्
शास्त्रवत्कल्पितं संख्ये त्रिसाहं युद्धदुर्मदम्
प्रचोद्यमानः स गजस्तेन राज्ञा महाबलः
तदाङ्कुशेन विबभावुत्पतिष्यन्निवाम्बरम्
तमापतन्तं संप्रेक्ष्य क्रुद्धो राजन्धनंजयः
भूमिष्ठो वारणगतं योधयामास भारत
वज्रदत्तस्तु संक्रुद्धो मुमोचाशु धनंजये
तोमरानग्निसंकाशाञ्शलभानिव वेगितान्
अर्जुनस्तानसंप्राप्तान्गाण्डीवप्रेषितैः शरैः
द्विधा त्रिधा च चिच्छेद ख एव खगमैस्तदा
स तान्दृष्ट्वा तथा छिन्नांस्तोमरान्भगदत्तजः
इषूनसक्तांस्त्वरितः प्राहिणोत्पाण्डवं प्रति
ततोऽर्जुनस्तूर्णतरं रुक्मपुङ्खानजिह्मगान्
प्रेषयामास संक्रुद्धो भगदत्तात्मजं प्रति
स तैर्विद्धो महातेजा वज्रदत्तो महाहवे
भृशाहतः पपातोर्व्यां न त्वेनमजहात्स्मृतिः
ततः स पुनरारुह्य वारणप्रवरं रणे
अव्यग्रः प्रेषयामास जयार्थी विजयं प्रति
तस्मै बाणांस्ततो जिष्णुर्निर्मुक्ताशीविषोपमान्
प्रेषयामास संक्रुद्धो ज्वलितानिव पावकान्
स तैर्विद्धो महानागो विस्रवन्रुधिरं बभौ
हिमवानिव शैलेन्द्रो बहुप्रस्रवणस्तदा