Ashvamedhika Parva, Adhyaya 73, Verse 1
त्रिगर्तैरभवद्युद्धं कृतवैरैः किरीटिनः
महारथसमाज्ञातैर्हतानां पुत्रनप्तृभिः
Containing 34 sacred Sanskrit shlokas with multi-author commentaries and translations.
त्रिगर्तैरभवद्युद्धं कृतवैरैः किरीटिनः
महारथसमाज्ञातैर्हतानां पुत्रनप्तृभिः
ते समाज्ञाय संप्राप्तं यज्ञियं तुरगोत्तमम्
विषयान्ते ततो वीरा दंशिताः पर्यवारयन्
रथिनो बद्धतूणीराः सदश्वैः समलंकृतैः
परिवार्य हयं राजन्ग्रहीतुं संप्रचक्रमुः
ततः किरीटी संचिन्त्य तेषां राज्ञां चिकीर्षितम्
वारयामास तान्वीरान्सान्त्वपूर्वमरिंदमः
तमनादृत्य ते सर्वे शरैरभ्यहनंस्तदा
तमोरजोभ्यां संछन्नांस्तान्किरीटी न्यवारयत्
अब्रवीच्च ततो जिष्णुः प्रहसन्निव भारत
निवर्तध्वमधर्मज्ञाः श्रेयो जीवितमेव वः
स हि वीरः प्रयास्यन्वै धर्मराजेन वारितः
हतबान्धवा न ते पार्थ हन्तव्याः पार्थिवा इति
स तदा तद्वचः श्रुत्वा धर्मराजस्य धीमतः
तान्निवर्तध्वमित्याह न न्यवर्तन्त चापि ते
ततस्त्रिगर्तराजानं सूर्यवर्माणमाहवे
वितत्य शरजालेन प्रजहास धनंजयः
ततस्ते रथघोषेण खुरनेमिस्वनेन च
पूरयन्तो दिशः सर्वा धनंजयमुपाद्रवन्
सूर्यवर्मा ततः पार्थे शराणां नतपर्वणाम्
शतान्यमुञ्चद्राजेन्द्र लघ्वस्त्रमभिदर्शयन्
तथैवान्ये महेष्वासा ये तस्यैवानुयायिनः
मुमुचुः शरवर्षाणि धनंजयवधैषिणः
स ताञ्ज्यापुङ्खनिर्मुक्तैर्बहुभिः सुबहूञ्शरान्
चिच्छेद पाण्डवो राजंस्ते भूमौ न्यपतंस्तदा
केतुवर्मा तु तेजस्वी तस्यैवावरजो युवा
युयुधे भ्रातुरर्थाय पाण्डवेन महात्मना
तमापतन्तं संप्रेक्ष्य केतुवर्माणमाहवे
अभ्यघ्नन्निशितैर्बाणैर्बीभत्सुः परवीरहा
केतुवर्मण्यभिहते धृतवर्मा महारथः
रथेनाशु समावृत्य शरैर्जिष्णुमवाकिरत्
तस्य तां शीघ्रतामीक्ष्य तुतोषातीव वीर्यवान्
गुडाकेशो महातेजा बालस्य धृतवर्मणः
न संदधानं ददृशे नाददानं च तं तदा
किरन्तमेव स शरान्ददृशे पाकशासनिः
स तु तं पूजयामास धृतवर्माणमाहवे
मनसा स मुहूर्तं वै रणे समभिहर्षयन्
तं पन्नगमिव क्रुद्धं कुरुवीरः स्मयन्निव
प्रीतिपूर्वं महाराज प्राणैर्न व्यपरोपयत्
स तथा रक्ष्यमाणो वै पार्थेनामिततेजसा
धृतवर्मा शरं तीक्ष्णं मुमोच विजये तदा
स तेन विजयस्तूर्णमस्यन्विद्धः करे भृशम्
मुमोच गाण्डीवं दुःखात्तत्पपाताथ भूतले
धनुषः पततस्तस्य सव्यसाचिकराद्विभो
इन्द्रस्येवायुधस्यासीद्रूपं भरतसत्तम
तस्मिन्निपतिते दिव्ये महाधनुषि पार्थिव
जहास सस्वनं हासं धृतवर्मा महाहवे
ततो रोषान्वितो जिष्णुः प्रमृज्य रुधिरं करात्
धनुरादत्त तद्दिव्यं शरवर्षं ववर्ष च
ततो हलहलाशब्दो दिवस्पृगभवत्तदा
नानाविधानां भूतानां तत्कर्मातीव शंसताम्
ततः संप्रेक्ष्य तं क्रुद्धं कालान्तकयमोपमम्
जिष्णुं त्रैगर्तका योधास्त्वरिताः पर्यवारयन्
अभिसृत्य परीप्सार्थं ततस्ते धृतवर्मणः
परिवव्रुर्गुडाकेशं तत्राक्रुध्यद्धनंजयः
ततो योधाञ्जघानाशु तेषां स दश चाष्ट च
महेन्द्रवज्रप्रतिमैरायसैर्निशितैः शरैः
तांस्तु प्रभग्नान्संप्रेक्ष्य त्वरमाणो धनंजयः
शरैराशीविषाकारैर्जघान स्वनवद्धसन्