Mahabharata

Ashvamedhika Parva, Adhyaya 72

Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashvamedhika Parva, Adhyaya 72, Verse 1

दीक्षाकाले तु संप्राप्ते ततस्ते सुमहर्त्विजः

विधिवद्दीक्षयामासुरश्वमेधाय पार्थिवम्

Mahabharata

Ashvamedhika Parva, Adhyaya 72, Verse 2

कृत्वा स पशुबन्धांश्च दीक्षितः पाण्डुनन्दनः

धर्मराजो महातेजाः सहर्त्विग्भिर्व्यरोचत

Mahabharata

Ashvamedhika Parva, Adhyaya 72, Verse 3

हयश्च हयमेधार्थं स्वयं स ब्रह्मवादिना

उत्सृष्टः शास्त्रविधिना व्यासेनामिततेजसा

Mahabharata

Ashvamedhika Parva, Adhyaya 72, Verse 4

स राजा धर्मजो राजन्दीक्षितो विबभौ तदा

हेममाली रुक्मकण्ठः प्रदीप्त इव पावकः

Mahabharata

Ashvamedhika Parva, Adhyaya 72, Verse 5

कृष्णाजिनी दण्डपाणिः क्षौमवासाः स धर्मजः

विबभौ द्युतिमान्भूयः प्रजापतिरिवाध्वरे

Mahabharata

Ashvamedhika Parva, Adhyaya 72, Verse 6

तथैवास्यर्त्विजः सर्वे तुल्यवेषा विशां पते

बभूवुरर्जुनश्चैव प्रदीप्त इव पावकः

Mahabharata

Ashvamedhika Parva, Adhyaya 72, Verse 7

श्वेताश्वः कृष्णसारं तं ससाराश्वं धनंजयः

विधिवत्पृथिवीपाल धर्मराजस्य शासनात्

Mahabharata

Ashvamedhika Parva, Adhyaya 72, Verse 8

विक्षिपन्गाण्डिवं राजन्बद्धगोधाङ्गुलित्रवान्

तमश्वं पृथिवीपाल मुदा युक्तः ससार ह

Mahabharata

Ashvamedhika Parva, Adhyaya 72, Verse 9

आकुमारं तदा राजन्नागमत्तत्पुरं विभो

द्रष्टुकामं कुरुश्रेष्ठं प्रयास्यन्तं धनंजयम्

Mahabharata

Ashvamedhika Parva, Adhyaya 72, Verse 10

तेषामन्योन्यसंमर्दादूष्मेव समजायत

दिदृक्षूणां हयं तं च तं चैव हयसारिणम्

Mahabharata

Ashvamedhika Parva, Adhyaya 72, Verse 11

ततः शब्दो महाराज दशाशाः प्रतिपूरयन्

बभूव प्रेक्षतां नॄणां कुन्तीपुत्रं धनंजयम्

Mahabharata

Ashvamedhika Parva, Adhyaya 72, Verse 12

एष गच्छति कौन्तेयस्तुरगश्चैव दीप्तिमान्

यमन्वेति महाबाहुः संस्पृशन्धनुरुत्तमम्

Mahabharata

Ashvamedhika Parva, Adhyaya 72, Verse 13

एवं शुश्राव वदतां गिरो जिष्णुरुदारधीः

स्वस्ति तेऽस्तु व्रजारिष्टं पुनश्चैहीति भारत

Mahabharata

Ashvamedhika Parva, Adhyaya 72, Verse 14

अथापरे मनुष्येन्द्र पुरुषा वाक्यमब्रुवन्

नैनं पश्याम संमर्दे धनुरेतत्प्रदृश्यते

Mahabharata

Ashvamedhika Parva, Adhyaya 72, Verse 15

एतद्धि भीमनिर्ह्रादं विश्रुतं गाण्डिवं धनुः

स्वस्ति गच्छत्वरिष्टं वै पन्थानमकुतोभयम्

निवृत्तमेनं द्रक्ष्यामः पुनरेवं च तेऽब्रुवन्

Mahabharata

Ashvamedhika Parva, Adhyaya 72, Verse 16

एवमाद्या मनुष्याणां स्त्रीणां च भरतर्षभ

शुश्राव मधुरा वाचः पुनः पुनरुदीरिताः

Mahabharata

Ashvamedhika Parva, Adhyaya 72, Verse 17

याज्ञवल्क्यस्य शिष्यश्च कुशलो यज्ञकर्मणि

प्रायात्पार्थेन सहितः शान्त्यर्थं वेदपारगः

Mahabharata

Ashvamedhika Parva, Adhyaya 72, Verse 18

ब्राह्मणाश्च महीपाल बहवो वेदपारगाः

अनुजग्मुर्महात्मानं क्षत्रियाश्च विशोऽपि च

Mahabharata

Ashvamedhika Parva, Adhyaya 72, Verse 19

पाण्डवैः पृथिवीमश्वो निर्जितामस्त्रतेजसा

चचार स महाराज यथादेशं स सत्तम

Mahabharata

Ashvamedhika Parva, Adhyaya 72, Verse 20

तत्र युद्धानि वृत्तानि यान्यासन्पाण्डवस्य ह

तानि वक्ष्यामि ते वीर विचित्राणि महान्ति च

Mahabharata

Ashvamedhika Parva, Adhyaya 72, Verse 21

स हयः पृथिवीं राजन्प्रदक्षिणमरिंदम

ससारोत्तरतः पूर्वं तन्निबोध महीपते

Mahabharata

Ashvamedhika Parva, Adhyaya 72, Verse 22

अवमृद्नन्स राष्ट्राणि पार्थिवानां हयोत्तमः

शनैस्तदा परिययौ श्वेताश्वश्च महारथः

Mahabharata

Ashvamedhika Parva, Adhyaya 72, Verse 23

तत्र संकलना नास्ति राज्ञामयुतशस्तदा

येऽयुध्यन्त महाराज क्षत्रिया हतबान्धवाः

Mahabharata

Ashvamedhika Parva, Adhyaya 72, Verse 24

किराता विकृता राजन्बहवोऽसिधनुर्धराः

म्लेच्छाश्चान्ये बहुविधाः पूर्वं विनिकृता रणे

Mahabharata

Ashvamedhika Parva, Adhyaya 72, Verse 25

आर्याश्च पृथिवीपालाः प्रहृष्टनरवाहनाः

समीयुः पाण्डुपुत्रेण बहवो युद्धदुर्मदाः

Mahabharata

Ashvamedhika Parva, Adhyaya 72, Verse 26

एवं युद्धानि वृत्तानि तत्र तत्र महीपते

अर्जुनस्य महीपालैर्नानादेशनिवासिभिः

Mahabharata

Ashvamedhika Parva, Adhyaya 72, Verse 27

यानि तूभयतो राजन्प्रतप्तानि महान्ति च

तानि युद्धानि वक्ष्यामि कौन्तेयस्य तवानघ