Mahabharata

Ashvamedhika Parva, Adhyaya 70

Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashvamedhika Parva, Adhyaya 70, Verse 1

तान्समीपगताञ्श्रुत्वा पाण्डवाञ्शत्रुकर्शनः

वासुदेवः सहामात्यः प्रत्युद्यातो दिदृक्षया

Mahabharata

Ashvamedhika Parva, Adhyaya 70, Verse 2

ते समेत्य यथान्यायं पाण्डवा वृष्णिभिः सह

विविशुः सहिता राजन्पुरं वारणसाह्वयम्

Mahabharata

Ashvamedhika Parva, Adhyaya 70, Verse 3

महतस्तस्य सैन्यस्य खुरनेमिस्वनेन च

द्यावापृथिव्यौ खं चैव शब्देनासीत्समावृतम्

Mahabharata

Ashvamedhika Parva, Adhyaya 70, Verse 4

ते कोशमग्रतः कृत्वा विविशुः स्वपुरं तदा

पाण्डवाः प्रीतमनसः सामात्याः ससुहृद्गणाः

Mahabharata

Ashvamedhika Parva, Adhyaya 70, Verse 5

ते समेत्य यथान्यायं धृतराष्ट्रं जनाधिपम्

कीर्तयन्तः स्वनामानि तस्य पादौ ववन्दिरे

Mahabharata

Ashvamedhika Parva, Adhyaya 70, Verse 6

धृतराष्ट्रादनु च ते गान्धारीं सुबलात्मजाम्

कुन्तीं च राजशार्दूल तदा भरतसत्तमाः

Mahabharata

Ashvamedhika Parva, Adhyaya 70, Verse 7

विदुरं पूजयित्वा च वैश्यापुत्रं समेत्य च

पूज्यमानाः स्म ते वीरा व्यराजन्त विशां पते

Mahabharata

Ashvamedhika Parva, Adhyaya 70, Verse 8

ततस्तत्परमाश्चर्यं विचित्रं महदद्भुतम्

शुश्रुवुस्ते तदा वीराः पितुस्ते जन्म भारत

Mahabharata

Ashvamedhika Parva, Adhyaya 70, Verse 9

तदुपश्रुत्य ते कर्म वासुदेवस्य धीमतः

पूजार्हं पूजयामासुः कृष्णं देवकिनन्दनम्

Mahabharata

Ashvamedhika Parva, Adhyaya 70, Verse 10

ततः कतिपयाहस्य व्यासः सत्यवतीसुतः

आजगाम महातेजा नगरं नागसाह्वयम्

Mahabharata

Ashvamedhika Parva, Adhyaya 70, Verse 11

तस्य सर्वे यथान्यायं पूजां चक्रुः कुरूद्वहाः

सह वृष्ण्यन्धकव्याघ्रैरुपासां चक्रिरे तदा

Mahabharata

Ashvamedhika Parva, Adhyaya 70, Verse 12

तत्र नानाविधाकाराः कथाः समनुकीर्त्य वै

युधिष्ठिरो धर्मसुतो व्यासं वचनमब्रवीत्

Mahabharata

Ashvamedhika Parva, Adhyaya 70, Verse 13

भवत्प्रसादाद्भगवन्यदिदं रत्नमाहृतम्

उपयोक्तुं तदिच्छामि वाजिमेधे महाक्रतौ

Mahabharata

Ashvamedhika Parva, Adhyaya 70, Verse 14

तदनुज्ञातुमिच्छामि भवता मुनिसत्तम

त्वदधीना वयं सर्वे कृष्णस्य च महात्मनः

Mahabharata

Ashvamedhika Parva, Adhyaya 70, Verse 15

अनुजानामि राजंस्त्वां क्रियतां यदनन्तरम्

यजस्व वाजिमेधेन विधिवद्दक्षिणावता

Mahabharata

Ashvamedhika Parva, Adhyaya 70, Verse 16

अश्वमेधो हि राजेन्द्र पावनः सर्वपाप्मनाम्

तेनेष्ट्वा त्वं विपाप्मा वै भविता नात्र संशयः

Mahabharata

Ashvamedhika Parva, Adhyaya 70, Verse 17

इत्युक्तः स तु धर्मात्मा कुरुराजो युधिष्ठिरः

अश्वमेधस्य कौरव्य चकाराहरणे मतिम्

Mahabharata

Ashvamedhika Parva, Adhyaya 70, Verse 18

समनुज्ञाप्य तु स तं कृष्णद्वैपायनं नृपः

वासुदेवमथामन्त्र्य वाग्मी वचनमब्रवीत्

Mahabharata

Ashvamedhika Parva, Adhyaya 70, Verse 19

देवकी सुप्रजा देवी त्वया पुरुषसत्तम

यद्ब्रूयां त्वां महाबाहो तत्कृथास्त्वमिहाच्युत

Mahabharata

Ashvamedhika Parva, Adhyaya 70, Verse 20

त्वत्प्रभावार्जितान्भोगानश्नीम यदुनन्दन

पराक्रमेण बुद्ध्या च त्वयेयं निर्जिता मही

Mahabharata

Ashvamedhika Parva, Adhyaya 70, Verse 21

दीक्षयस्व त्वमात्मानं त्वं नः परमको गुरुः

त्वयीष्टवति धर्मज्ञ विपाप्मा स्यामहं विभो

त्वं हि यज्ञोऽक्षरः सर्वस्त्वं धर्मस्त्वं प्रजापतिः

Mahabharata

Ashvamedhika Parva, Adhyaya 70, Verse 22

त्वमेवैतन्महाबाहो वक्तुमर्हस्यरिंदम

त्वं गतिः सर्वभूतानामिति मे निश्चिता मतिः

Mahabharata

Ashvamedhika Parva, Adhyaya 70, Verse 23

त्वं चाद्य कुरुवीराणां धर्मेणाभिविराजसे

गुणभूताः स्म ते राजंस्त्वं नो राजन्मतो गुरुः

Mahabharata

Ashvamedhika Parva, Adhyaya 70, Verse 24

यजस्व मदनुज्ञातः प्राप्त एव क्रतुर्मया

युनक्तु नो भवान्कार्ये यत्र वाञ्छसि भारत

सत्यं ते प्रतिजानामि सर्वं कर्तास्मि तेऽनघ

Mahabharata

Ashvamedhika Parva, Adhyaya 70, Verse 25

भीमसेनार्जुनौ चैव तथा माद्रवतीसुतौ

इष्टवन्तो भविष्यन्ति त्वयीष्टवति भारत