Ashvamedhika Parva, Adhyaya 70, Verse 1
तान्समीपगताञ्श्रुत्वा पाण्डवाञ्शत्रुकर्शनः
वासुदेवः सहामात्यः प्रत्युद्यातो दिदृक्षया
Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.
तान्समीपगताञ्श्रुत्वा पाण्डवाञ्शत्रुकर्शनः
वासुदेवः सहामात्यः प्रत्युद्यातो दिदृक्षया
ते समेत्य यथान्यायं पाण्डवा वृष्णिभिः सह
विविशुः सहिता राजन्पुरं वारणसाह्वयम्
महतस्तस्य सैन्यस्य खुरनेमिस्वनेन च
द्यावापृथिव्यौ खं चैव शब्देनासीत्समावृतम्
ते कोशमग्रतः कृत्वा विविशुः स्वपुरं तदा
पाण्डवाः प्रीतमनसः सामात्याः ससुहृद्गणाः
ते समेत्य यथान्यायं धृतराष्ट्रं जनाधिपम्
कीर्तयन्तः स्वनामानि तस्य पादौ ववन्दिरे
धृतराष्ट्रादनु च ते गान्धारीं सुबलात्मजाम्
कुन्तीं च राजशार्दूल तदा भरतसत्तमाः
विदुरं पूजयित्वा च वैश्यापुत्रं समेत्य च
पूज्यमानाः स्म ते वीरा व्यराजन्त विशां पते
ततस्तत्परमाश्चर्यं विचित्रं महदद्भुतम्
शुश्रुवुस्ते तदा वीराः पितुस्ते जन्म भारत
तदुपश्रुत्य ते कर्म वासुदेवस्य धीमतः
पूजार्हं पूजयामासुः कृष्णं देवकिनन्दनम्
ततः कतिपयाहस्य व्यासः सत्यवतीसुतः
आजगाम महातेजा नगरं नागसाह्वयम्
तस्य सर्वे यथान्यायं पूजां चक्रुः कुरूद्वहाः
सह वृष्ण्यन्धकव्याघ्रैरुपासां चक्रिरे तदा
तत्र नानाविधाकाराः कथाः समनुकीर्त्य वै
युधिष्ठिरो धर्मसुतो व्यासं वचनमब्रवीत्
भवत्प्रसादाद्भगवन्यदिदं रत्नमाहृतम्
उपयोक्तुं तदिच्छामि वाजिमेधे महाक्रतौ
तदनुज्ञातुमिच्छामि भवता मुनिसत्तम
त्वदधीना वयं सर्वे कृष्णस्य च महात्मनः
अनुजानामि राजंस्त्वां क्रियतां यदनन्तरम्
यजस्व वाजिमेधेन विधिवद्दक्षिणावता
अश्वमेधो हि राजेन्द्र पावनः सर्वपाप्मनाम्
तेनेष्ट्वा त्वं विपाप्मा वै भविता नात्र संशयः
इत्युक्तः स तु धर्मात्मा कुरुराजो युधिष्ठिरः
अश्वमेधस्य कौरव्य चकाराहरणे मतिम्
समनुज्ञाप्य तु स तं कृष्णद्वैपायनं नृपः
वासुदेवमथामन्त्र्य वाग्मी वचनमब्रवीत्
देवकी सुप्रजा देवी त्वया पुरुषसत्तम
यद्ब्रूयां त्वां महाबाहो तत्कृथास्त्वमिहाच्युत
त्वत्प्रभावार्जितान्भोगानश्नीम यदुनन्दन
पराक्रमेण बुद्ध्या च त्वयेयं निर्जिता मही
दीक्षयस्व त्वमात्मानं त्वं नः परमको गुरुः
त्वयीष्टवति धर्मज्ञ विपाप्मा स्यामहं विभो
त्वं हि यज्ञोऽक्षरः सर्वस्त्वं धर्मस्त्वं प्रजापतिः
त्वमेवैतन्महाबाहो वक्तुमर्हस्यरिंदम
त्वं गतिः सर्वभूतानामिति मे निश्चिता मतिः
त्वं चाद्य कुरुवीराणां धर्मेणाभिविराजसे
गुणभूताः स्म ते राजंस्त्वं नो राजन्मतो गुरुः
यजस्व मदनुज्ञातः प्राप्त एव क्रतुर्मया
युनक्तु नो भवान्कार्ये यत्र वाञ्छसि भारत
सत्यं ते प्रतिजानामि सर्वं कर्तास्मि तेऽनघ
भीमसेनार्जुनौ चैव तथा माद्रवतीसुतौ
इष्टवन्तो भविष्यन्ति त्वयीष्टवति भारत