Ashvamedhika Parva, Adhyaya 69, Verse 1
ब्रह्मास्त्रं तु यदा राजन्कृष्णेन प्रतिसंहृतम्
तदा तद्वेश्म ते पित्रा तेजसाभिविदीपितम्
Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मास्त्रं तु यदा राजन्कृष्णेन प्रतिसंहृतम्
तदा तद्वेश्म ते पित्रा तेजसाभिविदीपितम्
ततो रक्षांसि सर्वाणि नेशुस्त्यक्त्वा गृहं तु तत्
अन्तरिक्षे च वागासीत्साधु केशव साध्विति
तदस्त्रं ज्वलितं चापि पितामहमगात्तदा
ततः प्राणान्पुनर्लेभे पिता तव जनेश्वर
व्यचेष्टत च बालोऽसौ यथोत्साहं यथाबलम्
बभूवुर्मुदिता राजंस्ततस्ता भरतस्त्रियः
ब्राह्मणान्वाचयामासुर्गोविन्दस्य च शासनात्
ततस्ता मुदिताः सर्वाः प्रशशंसुर्जनार्दनम्
स्त्रियो भरतसिंहानां नावं लब्ध्वेव पारगाः
कुन्ती द्रुपदपुत्री च सुभद्रा चोत्तरा तथा
स्त्रियश्चान्या नृसिंहानां बभूवुर्हृष्टमानसाः
तत्र मल्ला नटा झल्ला ग्रन्थिकाः सौखशायिकाः
सूतमागधसंघाश्चाप्यस्तुवन्वै जनार्दनम्
कुरुवंशस्तवाख्याभिराशीर्भिर्भरतर्षभ
उत्थाय तु यथाकालमुत्तरा यदुनन्दनम्
अभ्यवादयत प्रीता सह पुत्रेण भारत
ततस्तस्यै ददौ प्रीतो बहुरत्नं विशेषतः
तथान्ये वृष्णिशार्दूला नाम चास्याकरोत्प्रभुः
पितुस्तव महाराज सत्यसंधो जनार्दनः
परिक्षीणे कुले यस्माज्जातोऽयमभिमन्युजः
परिक्षिदिति नामास्य भवत्वित्यब्रवीत्तदा
सोऽवर्धत यथाकालं पिता तव नराधिप
मनःप्रह्लादनश्चासीत्सर्वलोकस्य भारत
मासजातस्तु ते वीर पिता भवति भारत
अथाजग्मुः सुबहुलं रत्नमादाय पाण्डवाः
तान्समीपगताञ्श्रुत्वा निर्ययुर्वृष्णिपुंगवाः
अलंचक्रुश्च माल्यौघैः पुरुषा नागसाह्वयम्
पताकाभिर्विचित्राभिर्ध्वजैश्च विविधैरपि
वेश्मानि समलंचक्रुः पौराश्चापि जनाधिप
देवतायतनानां च पूजा बहुविधास्तथा
संदिदेशाथ विदुरः पाण्डुपुत्रप्रियेप्सया
राजमार्गाश्च तत्रासन्सुमनोभिरलंकृताः
शुशुभे तत्पुरं चापि समुद्रौघनिभस्वनम्
नर्तकैश्चापि नृत्यद्भिर्गायनानां च निस्वनैः
आसीद्वैश्रवणस्येव निवासस्तत्पुरं तदा
बन्दिभिश्च नरै राजन्स्त्रीसहायैः सहस्रशः
तत्र तत्र विविक्तेषु समन्तादुपशोभितम्
पताका धूयमानाश्च श्वसता मातरिश्वना
अदर्शयन्निव तदा कुरून्वै दक्षिणोत्तरान्
अघोषयत्तदा चापि पुरुषो राजधूर्गतः
सर्वरात्रिविहारोऽद्य रत्नाभरणलक्षणः