Mahabharata

Ashvamedhika Parva, Adhyaya 67

Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashvamedhika Parva, Adhyaya 67, Verse 1

एवमुक्तस्तु राजेन्द्र केशिहा दुःखमूर्छितः

तथेति व्याजहारोच्चैर्ह्लादयन्निव तं जनम्

Mahabharata

Ashvamedhika Parva, Adhyaya 67, Verse 2

वाक्येन तेन हि तदा तं जनं पुरुषर्षभः

ह्लादयामास स विभुर्घर्मार्तं सलिलैरिव

Mahabharata

Ashvamedhika Parva, Adhyaya 67, Verse 3

ततः स प्राविशत्तूर्णं जन्मवेश्म पितुस्तव

अर्चितं पुरुषव्याघ्र सितैर्माल्यैर्यथाविधि

Mahabharata

Ashvamedhika Parva, Adhyaya 67, Verse 4

अपां कुम्भैः सुपूर्णैश्च विन्यस्तैः सर्वतोदिशम्

घृतेन तिन्दुकालातैः सर्षपैश्च महाभुज

Mahabharata

Ashvamedhika Parva, Adhyaya 67, Verse 5

शस्त्रैश्च विमलैर्न्यस्तैः पावकैश्च समन्ततः

वृद्धाभिश्चाभिरामाभिः परिचारार्थमच्युतः

Mahabharata

Ashvamedhika Parva, Adhyaya 67, Verse 6

दक्षैश्च परितो वीर भिषग्भिः कुशलैस्तथा

ददर्श च स तेजस्वी रक्षोघ्नान्यपि सर्वशः

द्रव्याणि स्थापितानि स्म विधिवत्कुशलैर्जनैः

Mahabharata

Ashvamedhika Parva, Adhyaya 67, Verse 7

तथायुक्तं च तद्दृष्ट्वा जन्मवेश्म पितुस्तव

हृष्टोऽभवद्धृषीकेशः साधु साध्विति चाब्रवीत्

Mahabharata

Ashvamedhika Parva, Adhyaya 67, Verse 8

तथा ब्रुवति वार्ष्णेये प्रहृष्टवदने तदा

द्रौपदी त्वरिता गत्वा वैराटीं वाक्यमब्रवीत्

Mahabharata

Ashvamedhika Parva, Adhyaya 67, Verse 9

अयमायाति ते भद्रे श्वशुरो मधुसूदनः

पुराणर्षिरचिन्त्यात्मा समीपमपराजितः

Mahabharata

Ashvamedhika Parva, Adhyaya 67, Verse 10

सापि बाष्पकलां वाचं निगृह्याश्रूणि चैव ह

सुसंवीताभवद्देवी देववत्कृष्णमीक्षती

Mahabharata

Ashvamedhika Parva, Adhyaya 67, Verse 11

सा तथा दूयमानेन हृदयेन तपस्विनी

दृष्ट्वा गोविन्दमायान्तं कृपणं पर्यदेवयत्

Mahabharata

Ashvamedhika Parva, Adhyaya 67, Verse 12

पुण्डरीकाक्ष पश्यस्व बालाविह विनाकृतौ

अभिमन्युं च मां चैव हतौ तुल्यं जनार्दन

Mahabharata

Ashvamedhika Parva, Adhyaya 67, Verse 13

वार्ष्णेय मधुहन्वीर शिरसा त्वां प्रसादये

द्रोणपुत्रास्त्रनिर्दग्धं जीवयैनं ममात्मजम्

Mahabharata

Ashvamedhika Parva, Adhyaya 67, Verse 14

यदि स्म धर्मराज्ञा वा भीमसेनेन वा पुनः

त्वया वा पुण्डरीकाक्ष वाक्यमुक्तमिदं भवेत्

Mahabharata

Ashvamedhika Parva, Adhyaya 67, Verse 15

अजानतीमिषीकेयं जनित्रीं हन्त्विति प्रभो

अहमेव विनष्टा स्यां नेदमेवंगतं भवेत्

Mahabharata

Ashvamedhika Parva, Adhyaya 67, Verse 16

गर्भस्थस्यास्य बालस्य ब्रह्मास्त्रेण निपातनम्

कृत्वा नृशंसं दुर्बुद्धिर्द्रौणिः किं फलमश्नुते

Mahabharata

Ashvamedhika Parva, Adhyaya 67, Verse 17

सा त्वा प्रसाद्य शिरसा याचे शत्रुनिबर्हण

प्राणांस्त्यक्ष्यामि गोविन्द नायं संजीवते यदि

Mahabharata

Ashvamedhika Parva, Adhyaya 67, Verse 18

अस्मिन्हि बहवः साधो ये ममासन्मनोरथाः

ते द्रोणपुत्रेण हताः किं नु जीवामि केशव

Mahabharata

Ashvamedhika Parva, Adhyaya 67, Verse 19

आसीन्मम मतिः कृष्ण पूर्णोत्सङ्गा जनार्दन

अभिवादयिष्ये दिष्ट्येति तदिदं वितथीकृतम्

Mahabharata

Ashvamedhika Parva, Adhyaya 67, Verse 20

चपलाक्षस्य दायादे मृतेऽस्मिन्पुरुषर्षभ

विफला मे कृताः कृष्ण हृदि सर्वे मनोरथाः

Mahabharata

Ashvamedhika Parva, Adhyaya 67, Verse 21

चपलाक्षः किलातीव प्रियस्ते मधुसूदन

सुतं पश्यस्व तस्येमं ब्रह्मास्त्रेण निपातितम्

Mahabharata

Ashvamedhika Parva, Adhyaya 67, Verse 22

कृतघ्नोऽयं नृशंसोऽयं यथास्य जनकस्तथा

यः पाण्डवीं श्रियं त्यक्त्वा गतोऽद्य यमसादनम्

Mahabharata

Ashvamedhika Parva, Adhyaya 67, Verse 23

मया चैतत्प्रतिज्ञातं रणमूर्धनि केशव

अभिमन्यौ हते वीर त्वामेष्याम्यचिरादिति

Mahabharata

Ashvamedhika Parva, Adhyaya 67, Verse 24

तच्च नाकरवं कृष्ण नृशंसा जीवितप्रिया

इदानीमागतां तत्र किं नु वक्ष्यति फाल्गुनिः