Ashvamedhika Parva, Adhyaya 67, Verse 1
एवमुक्तस्तु राजेन्द्र केशिहा दुःखमूर्छितः
तथेति व्याजहारोच्चैर्ह्लादयन्निव तं जनम्
Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.
एवमुक्तस्तु राजेन्द्र केशिहा दुःखमूर्छितः
तथेति व्याजहारोच्चैर्ह्लादयन्निव तं जनम्
वाक्येन तेन हि तदा तं जनं पुरुषर्षभः
ह्लादयामास स विभुर्घर्मार्तं सलिलैरिव
ततः स प्राविशत्तूर्णं जन्मवेश्म पितुस्तव
अर्चितं पुरुषव्याघ्र सितैर्माल्यैर्यथाविधि
अपां कुम्भैः सुपूर्णैश्च विन्यस्तैः सर्वतोदिशम्
घृतेन तिन्दुकालातैः सर्षपैश्च महाभुज
शस्त्रैश्च विमलैर्न्यस्तैः पावकैश्च समन्ततः
वृद्धाभिश्चाभिरामाभिः परिचारार्थमच्युतः
दक्षैश्च परितो वीर भिषग्भिः कुशलैस्तथा
ददर्श च स तेजस्वी रक्षोघ्नान्यपि सर्वशः
द्रव्याणि स्थापितानि स्म विधिवत्कुशलैर्जनैः
तथायुक्तं च तद्दृष्ट्वा जन्मवेश्म पितुस्तव
हृष्टोऽभवद्धृषीकेशः साधु साध्विति चाब्रवीत्
तथा ब्रुवति वार्ष्णेये प्रहृष्टवदने तदा
द्रौपदी त्वरिता गत्वा वैराटीं वाक्यमब्रवीत्
अयमायाति ते भद्रे श्वशुरो मधुसूदनः
पुराणर्षिरचिन्त्यात्मा समीपमपराजितः
सापि बाष्पकलां वाचं निगृह्याश्रूणि चैव ह
सुसंवीताभवद्देवी देववत्कृष्णमीक्षती
सा तथा दूयमानेन हृदयेन तपस्विनी
दृष्ट्वा गोविन्दमायान्तं कृपणं पर्यदेवयत्
पुण्डरीकाक्ष पश्यस्व बालाविह विनाकृतौ
अभिमन्युं च मां चैव हतौ तुल्यं जनार्दन
वार्ष्णेय मधुहन्वीर शिरसा त्वां प्रसादये
द्रोणपुत्रास्त्रनिर्दग्धं जीवयैनं ममात्मजम्
यदि स्म धर्मराज्ञा वा भीमसेनेन वा पुनः
त्वया वा पुण्डरीकाक्ष वाक्यमुक्तमिदं भवेत्
अजानतीमिषीकेयं जनित्रीं हन्त्विति प्रभो
अहमेव विनष्टा स्यां नेदमेवंगतं भवेत्
गर्भस्थस्यास्य बालस्य ब्रह्मास्त्रेण निपातनम्
कृत्वा नृशंसं दुर्बुद्धिर्द्रौणिः किं फलमश्नुते
सा त्वा प्रसाद्य शिरसा याचे शत्रुनिबर्हण
प्राणांस्त्यक्ष्यामि गोविन्द नायं संजीवते यदि
अस्मिन्हि बहवः साधो ये ममासन्मनोरथाः
ते द्रोणपुत्रेण हताः किं नु जीवामि केशव
आसीन्मम मतिः कृष्ण पूर्णोत्सङ्गा जनार्दन
अभिवादयिष्ये दिष्ट्येति तदिदं वितथीकृतम्
चपलाक्षस्य दायादे मृतेऽस्मिन्पुरुषर्षभ
विफला मे कृताः कृष्ण हृदि सर्वे मनोरथाः
चपलाक्षः किलातीव प्रियस्ते मधुसूदन
सुतं पश्यस्व तस्येमं ब्रह्मास्त्रेण निपातितम्
कृतघ्नोऽयं नृशंसोऽयं यथास्य जनकस्तथा
यः पाण्डवीं श्रियं त्यक्त्वा गतोऽद्य यमसादनम्
मया चैतत्प्रतिज्ञातं रणमूर्धनि केशव
अभिमन्यौ हते वीर त्वामेष्याम्यचिरादिति
तच्च नाकरवं कृष्ण नृशंसा जीवितप्रिया
इदानीमागतां तत्र किं नु वक्ष्यति फाल्गुनिः