Ashvamedhika Parva, Adhyaya 66, Verse 1
उत्थितायां पृथायां तु सुभद्रा भ्रातरं तदा
दृष्ट्वा चुक्रोश दुःखार्ता वचनं चेदमब्रवीत्
Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.
उत्थितायां पृथायां तु सुभद्रा भ्रातरं तदा
दृष्ट्वा चुक्रोश दुःखार्ता वचनं चेदमब्रवीत्
पुण्डरीकाक्ष पश्यस्व पौत्रं पार्थस्य धीमतः
परिक्षीणेषु कुरुषु परिक्षीणं गतायुषम्
इषीका द्रोणपुत्रेण भीमसेनार्थमुद्यता
सोत्तरायां निपतिता विजये मयि चैव ह
सेयं ज्वलन्ती हृदये मयि तिष्ठति केशव
यन्न पश्यामि दुर्धर्ष मम पुत्रसुतं विभो
किं नु वक्ष्यति धर्मात्मा धर्मराजो युधिष्ठिरः
भीमसेनार्जुनौ चापि माद्रवत्याः सुतौ च तौ
श्रुत्वाभिमन्योस्तनयं जातं च मृतमेव च
मुषिता इव वार्ष्णेय द्रोणपुत्रेण पाण्डवाः
अभिमन्युः प्रियः कृष्ण पितॄणां नात्र संशयः
ते श्रुत्वा किं नु वक्ष्यन्ति द्रोणपुत्रास्त्रनिर्जिताः
भवितातः परं दुःखं किं नु मन्ये जनार्दन
अभिमन्योः सुतात्कृष्ण मृताज्जातादरिंदम
साहं प्रसादये कृष्ण त्वामद्य शिरसा नता
पृथेयं द्रौपदी चैव ताः पश्य पुरुषोत्तम
यदा द्रोणसुतो गर्भान्पाण्डूनां हन्ति माधव
तदा किल त्वया द्रौणिः क्रुद्धेनोक्तोऽरिमर्दन
अकामं त्वा करिष्यामि ब्रह्मबन्धो नराधम
अहं संजीवयिष्यामि किरीटितनयात्मजम्
इत्येतद्वचनं श्रुत्वा जानमाना बलं तव
प्रसादये त्वा दुर्धर्ष जीवतामभिमन्युजः
यद्येवं त्वं प्रतिश्रुत्य न करोषि वचः शुभम्
सफलं वृष्णिशार्दूल मृतां मामुपधारय
अभिमन्योः सुतो वीर न संजीवति यद्ययम्
जीवति त्वयि दुर्धर्ष किं करिष्याम्यहं त्वया
संजीवयैनं दुर्धर्ष मृतं त्वमभिमन्युजम्
सदृशाक्षसुतं वीर सस्यं वर्षन्निवाम्बुदः
त्वं हि केशव धर्मात्मा सत्यवान्सत्यविक्रमः
स तां वाचमृतां कर्तुमर्हसि त्वमरिंदम
इच्छन्नपि हि लोकांस्त्रीञ्जीवयेथा मृतानिमान्
किं पुनर्दयितं जातं स्वस्रीयस्यात्मजं मृतम्
प्रभावज्ञास्मि ते कृष्ण तस्मादेतद्ब्रवीमि ते
कुरुष्व पाण्डुपुत्राणामिमं परमनुग्रहम्
स्वसेति वा महाबाहो हतपुत्रेति वा पुनः
प्रपन्ना मामियं वेति दयां कर्तुमिहार्हसि