Mahabharata

Ashvamedhika Parva, Adhyaya 65

Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashvamedhika Parva, Adhyaya 65, Verse 1

एतस्मिन्नेव काले तु वासुदेवोऽपि वीर्यवान्

उपायाद्वृष्णिभिः सार्धं पुरं वारणसाह्वयम्

Mahabharata

Ashvamedhika Parva, Adhyaya 65, Verse 2

समयं वाजिमेधस्य विदित्वा पुरुषर्षभः

यथोक्तो धर्मपुत्रेण व्रजन्स स्वपुरीं प्रति

Mahabharata

Ashvamedhika Parva, Adhyaya 65, Verse 3

रौक्मिणेयेन सहितो युयुधानेन चैव ह

चारुदेष्णेन साम्बेन गदेन कृतवर्मणा

Mahabharata

Ashvamedhika Parva, Adhyaya 65, Verse 4

सारणेन च वीरेण निशठेनोल्मुकेन च

बलदेवं पुरस्कृत्य सुभद्रासहितस्तदा

Mahabharata

Ashvamedhika Parva, Adhyaya 65, Verse 5

द्रौपदीमुत्तरां चैव पृथां चाप्यवलोककः

समाश्वासयितुं चापि क्षत्रिया निहतेश्वराः

Mahabharata

Ashvamedhika Parva, Adhyaya 65, Verse 6

तानागतान्समीक्ष्यैव धृतराष्ट्रो महीपतिः

प्रत्यगृह्णाद्यथान्यायं विदुरश्च महामनाः

Mahabharata

Ashvamedhika Parva, Adhyaya 65, Verse 7

तत्रैव न्यवसत्कृष्णः स्वर्चितः पुरुषर्षभः

विदुरेण महातेजास्तथैव च युयुत्सुना

Mahabharata

Ashvamedhika Parva, Adhyaya 65, Verse 8

वसत्सु वृष्णिवीरेषु तत्राथ जनमेजय

जज्ञे तव पिता राजन्परिक्षित्परवीरहा

Mahabharata

Ashvamedhika Parva, Adhyaya 65, Verse 9

स तु राजा महाराज ब्रह्मास्त्रेणाभिपीडितः

शवो बभूव निश्चेष्टो हर्षशोकविवर्धनः

Mahabharata

Ashvamedhika Parva, Adhyaya 65, Verse 10

हृष्टानां सिंहनादेन जनानां तत्र निस्वनः

आविश्य प्रदिशः सर्वाः पुनरेव व्युपारमत्

Mahabharata

Ashvamedhika Parva, Adhyaya 65, Verse 11

ततः सोऽतित्वरः कृष्णो विवेशान्तःपुरं तदा

युयुधानद्वितीयो वै व्यथितेन्द्रियमानसः

Mahabharata

Ashvamedhika Parva, Adhyaya 65, Verse 12

ततस्त्वरितमायान्तीं ददर्श स्वां पितृष्वसाम्

क्रोशन्तीमभिधावेति वासुदेवं पुनः पुनः

Mahabharata

Ashvamedhika Parva, Adhyaya 65, Verse 13

पृष्ठतो द्रौपदीं चैव सुभद्रां च यशस्विनीम्

सविक्रोशं सकरुणं बान्धवानां स्त्रियो नृप

Mahabharata

Ashvamedhika Parva, Adhyaya 65, Verse 14

ततः कृष्णं समासाद्य कुन्ती राजसुता तदा

प्रोवाच राजशार्दूल बाष्पगद्गदया गिरा

Mahabharata

Ashvamedhika Parva, Adhyaya 65, Verse 15

वासुदेव महाबाहो सुप्रजा देवकी त्वया

त्वं नो गतिः प्रतिष्ठा च त्वदायत्तमिदं कुलम्

Mahabharata

Ashvamedhika Parva, Adhyaya 65, Verse 16

यदुप्रवीर योऽयं ते स्वस्रीयस्यात्मजः प्रभो

अश्वत्थाम्ना हतो जातस्तमुज्जीवय केशव

Mahabharata

Ashvamedhika Parva, Adhyaya 65, Verse 17

त्वया ह्येतत्प्रतिज्ञातमैषीके यदुनन्दन

अहं संजीवयिष्यामि मृतं जातमिति प्रभो

Mahabharata

Ashvamedhika Parva, Adhyaya 65, Verse 18

सोऽयं जातो मृतस्तात पश्यैनं पुरुषर्षभ

उत्तरां च सुभद्रां च द्रौपदीं मां च माधव

Mahabharata

Ashvamedhika Parva, Adhyaya 65, Verse 19

धर्मपुत्रं च भीमं च फल्गुनं नकुलं तथा

सहदेवं च दुर्धर्ष सर्वान्नस्त्रातुमर्हसि

Mahabharata

Ashvamedhika Parva, Adhyaya 65, Verse 20

अस्मिन्प्राणाः समायत्ताः पाण्डवानां ममैव च

पाण्डोश्च पिण्डो दाशार्ह तथैव श्वशुरस्य मे

Mahabharata

Ashvamedhika Parva, Adhyaya 65, Verse 21

अभिमन्योश्च भद्रं ते प्रियस्य सदृशस्य च

प्रियमुत्पादयाद्य त्वं प्रेतस्यापि जनार्दन

Mahabharata

Ashvamedhika Parva, Adhyaya 65, Verse 22

उत्तरा हि प्रियोक्तं वै कथयत्यरिसूदन

अभिमन्योर्वचः कृष्ण प्रियत्वात्ते न संशयः

Mahabharata

Ashvamedhika Parva, Adhyaya 65, Verse 23

अब्रवीत्किल दाशार्ह वैराटीमार्जुनिः पुरा

मातुलस्य कुलं भद्रे तव पुत्रो गमिष्यति

Mahabharata

Ashvamedhika Parva, Adhyaya 65, Verse 24

गत्वा वृष्ण्यन्धककुलं धनुर्वेदं ग्रहीष्यति

अस्त्राणि च विचित्राणि नीतिशास्त्रं च केवलम्

Mahabharata

Ashvamedhika Parva, Adhyaya 65, Verse 25

इत्येतत्प्रणयात्तात सौभद्रः परवीरहा

कथयामास दुर्धर्षस्तथा चैतन्न संशयः

Mahabharata

Ashvamedhika Parva, Adhyaya 65, Verse 26

तास्त्वां वयं प्रणम्येह याचामो मधुसूदन

कुलस्यास्य हितार्थं त्वं कुरु कल्याणमुत्तमम्

Mahabharata

Ashvamedhika Parva, Adhyaya 65, Verse 27

एवमुक्त्वा तु वार्ष्णेयं पृथा पृथुललोचना

उच्छ्रित्य बाहू दुःखार्ता ताश्चान्याः प्रापतन्भुवि

Mahabharata

Ashvamedhika Parva, Adhyaya 65, Verse 28

अब्रुवंश्च महाराज सर्वाः सास्राविलेक्षणाः

स्वस्रीयो वासुदेवस्य मृतो जात इति प्रभो

Mahabharata

Ashvamedhika Parva, Adhyaya 65, Verse 29

एवमुक्ते ततः कुन्तीं प्रत्यगृह्णाज्जनार्दनः

भूमौ निपतितां चैनां सान्त्वयामास भारत